Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 43
________________ तिलकमलरी। वर्णवर्गान्त्यवर्गान्यौ, निजनामावलम्बिनौ । न-मौ गुणश्रियोद्भास्य, स्पर्शख्याति नयन्ति ये ॥ १५ ॥ तेषां श्रीनेमिसूरीणां, गुरूणामनुकम्पया । सम्भवन्ति न किं दक्षा मादक्षा जडशेखराः ॥ १६ ॥ युग्मम् ॥ [ अनुष्टुप् ] परागो न परागोऽपि, सुवर्णोऽन्यः सुवर्णतः । दुष्प्राप्यसदलङ्कारधनपालार्थनायकः ॥ १७ ॥ वैधुधागम आमोदप्रदः प्रेम्णा प्रसाध्यते । लावण्यविबुधेनाथ, मया मूलमधुग्रहः ॥ १८ ॥ युग्मम् ॥ [ अनुष्टुप् ] कोऽपि, सुधीवर इति विरोधः, परिहारे हु सुधियां पण्डितानां वरः श्रेष्ठ इति सुधीवरः। वजितं दर्पणम् अभिमानः, मण्डनाननुरागितया आदशों वा येन तथाभूतोऽपि सदर्यण इति विरोधः, परिहारे तु सतां सदरतूनाम् अर्पणः समर्पक इत्यर्थः । विरोधाभास-यमकयोरत्र संसृष्टिः॥ ___“अन्तः प्रान्ते स्वरूपे च समीपे निधनेऽपि च"। इति, "उचितो युक्तेऽनुमते निश्चिता-ऽभ्यस्तयोरपि"। इति च नानार्थसङ्ग्रहः ॥ १३ ॥ १४ ॥ धणेत्यादि । वर्णानां ककारादीनां वर्गाः करग-चवर्ग-टवर्ग-तवर्ग-पवर्गरूपाः पञ्च पञ्चकाः, तेषामन्त्यौ वर्गों तवर्ग-पवगौ, तदन्त्यौ तत्र चरमौ नमो नकार-मकारो, यतो निजनामावलम्बिनौ निजनामनिवेशिनौ, अतो गुणश्रिया गुणस्य गुणपदेन व्याकरणपरिभाषितस्य एकारस्य तदुभयमध्यस्थस्य श्रिया शोमया, उद्भास्य, स्पर्शख्याति स्पर्शपदव्यपदेशम् , नयन्ति प्रापयन्ति, अत ऊर्व स्पष्टा• धम् । वर्णानां ब्राह्मणादीनां वर्गश्चतुष्कः, तस्यान्ते भवो यो वर्गः, अन्त्यजवर्ग इत्यर्थः, तदन्त्यमपि, अत्यन्ततुच्छमपि जनम् , श्रास्तामितर मित्यर्थः, निजनामजपादिना, उद्भास्य प्रकाश्य, श्रीमन्तं कुल्लेत्यर्थः, स्पर्शन दानगुणेन ख्याति वदान्यत्वेन प्रसिद्धिमापादयन्तीप. नुरणनरूपेण निर्गलितोऽर्थः । अत्र निजनामावलम्बनस्य पदार्थस्य उद्भासनाङ्तया काव्यलिङ्गालङ्कारः ।। "स्पों वर्गाक्षरे दाने स्पर्शने स्पर्शने रुजि" इत्यनेकार्थसङ्ग्रहः ॥ १५ ॥ १६ ॥ अथ मङ्गलाचरणानन्तरम् , मया लावण्यविबुधेन विजयलावण्यसूरिणा, वैबुधागमः विबुधस्य भावो वैबुधम् , तद् आगमयति प्रापयतीति तथा । आमोदप्रदः सत्वाव्यव्यसनिनां विनोदप्रदः। मूलमधुग्रहः मूलस्य मञ्जरीपदारपदस्य व्याख्येयग्रन्थस्य, मधु पुष्परसः, तद्वदास्वायत्वात् प्रस्तुतकाव्यरस इत्यर्थः, तस्य ग्रहो ग्रहणमास्वादनं यतः, प्रस्तुतकाच्यरसास्वादकारणमित्यर्थः । दुष्प्राप्याः काव्यान्तरदुर्लभाः सदलङ्काराः सुन्दरालङ्कारा यस्मिन् स चासौ धनयालार्थो धनपालोत्प्रेक्षितप्रस्तुतकान्याः, तस्य नायकः प्रापकः, ज्ञापक इत्यर्थः । सुवर्णतोऽन्योऽपि सुवर्ण इति घिरोधः, परिहारे तु सुवर्णद्रव्यव्यतिरिक्तोऽपि सुन्दरवर्णमयः। न परागोऽपि परागभिन्नोऽपि पराग इति विरोधः, परिहारे तु अनपगतो रागो यस्मादित्यनपरागः, परागः परागनाम्नी विवृतिः । प्रेम्णा तिलकमलरीप्रीत्या, न तु कस्यापि नियन्त्रणया, प्रसाध्यते प्रकर्षण प्रणीयते। कुसुमकणरूपपरागपक्षे तु---वैबुधागमः विबुधानां देवानाम् , आगम इष्टागमनहेतुः, यदा अगमो वृक्षः, कल्पतरुरित्यर्थः, तत्सम्बन्धी। आमोदप्रदः परिमलप्रदः । दुष्प्राप्याः सदलङ्कारा यसिन् तादृशस्य धनपालार्थस्य कुबेरवैभवस्य नायकः प्रापकः, कल्पतरुपत्रस्यापि सर्वप्रदत्वं किमुत तत्सारभूतस्य परागस्य । मामूलमधुग्रहः आमूलं मूल. पर्यन्तं मधुग्रहा मधुपा यस्मिन्नसौ, परागः, मया लक्ष्म्या फलत्वेन हेतुभूतया, लावण्यविबुधेन लावण्यपूर्णदेवेन, शाकपार्थिवादित्वान्मध्यमपदलोपः प्रसाध्यते विभूष्यते । अन्यत् स्पष्टम् । अत्र यमक-विरोधाभासालङ्कारयोः संसृष्टिः ॥ "परागः सुमनोरजः” इति, “वृक्षो महीरुहः शाखी विटपी पादपस्तरः । अनोकहः कुटः सालः पलाशी दु-दुमा-ऽगमाः" । इति चाऽमरः “आमोदो गन्ध-हर्षयोः" इति, “मा लक्ष्म्यां वारणेऽव्ययम्" इति चानेकार्थसङ्ग्रहः ॥ १७ ॥ १८ ॥ इति परागमङ्गलपद्यव्याख्या सम्पूर्णा ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196