Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। मज्जकोशलविलासिनीनितम्बारफालनस्फारिततरङ्गया गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीर्णैर्वृद्धकञ्चुकिभिरिव राजहंसैः क्षणमप्यमुक्तपार्श्वया कपिलकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थितया सरिता सरयवाख्यया कृतपर्यन्तसख्या [ औ ], सततगृहव्यापारनिषण्णमानसाभिनिसर्गतो गुरुवचनानुरागिणीभिरनुल्बणोज्वलवेषाभिः स्वकुलाचारकौशलशालिनीभिः शालीनतया सुकुमारतया च कुचकुम्भयोरपि कदर्यमानाभिरुद्धत्या मणिभूषणानामपि खिद्यमानाभिर्मुखरतया रतेष्वपि ताभ्यन्तीभियात्यपरिग्रहेण स्वप्नेऽप्यलङ्घयन्तीभिरतोरणमङ्गीकृतसतीव्रताभिरप्यसतीव्रताभिरलसाभिनितम्बभारवहने तुच्छाभिरुदरे तरलाभिश्चक्षुषि कुटिलाभिर्बुवोरतृप्ताभिरङ्गशोभायामुद्धताभिस्तारुण्ये कृत कुसङ्गाभिश्चरणयोर्न स्वभावे कोपेऽप्यदृष्टमुखविकाराभिळलीकेऽप्यनुज्झितविनयाभिः खेदेऽप्यखण्डितोचितप्रतिपत्तिभिः कलहेऽप्यनिष्ठुरभाषिणीभिः सकलपुरुषार्थसिद्धिभिरिव शरीरबद्धाभि
टिप्पनकम्-अनुल्वणः-अनुभटः, शालीनता-कुलीनता सलज्जता च, उद्धत्या उद्धतत्वेन, वैयात्यं-पृष्टता, असतीव्रताभिः सह तीव्रतया वर्तन्ते ग्रास्ताः सतीव्रताः, न तथा असतीव्रतास्ताभिः, तीक्ष्णत्वरहिताभिरिति विरोध. परिहारः, विरोधस्तु स्वयमेवोद्भाव्यः, कृतकुसङ्गाभिः विहितपृथ्वीसम्बन्धाभिः, चरणयोर्न स्वभावे प्रकृती कृतकुत्सित
मारुतेन, चलितं-दोलितम् , मृद्विकालतावलयं-द्राक्षालतामण्डलं येषु तादृशेषु, अत्रोपवनेषु मदनत्वस्य मृद्विकालतायां विलासिनीत्वस्य वनस्पतिषु च विलासित्वस्य प्रतीत्या समासोक्तिरलङ्कारः सिद्ध्यति, पुनः कीदृशेषु तेषु ? अतिनीलसुरभिषु नीलानि-नवनवपल्लवसङ्घलतया श्यामलानि च तानि, सुरभीणि-सुगन्धीनीति नीलसुरभीणि, अतिशयितानि च नीलसुरभीणीति अतिनीलसुरभीणि तादृशेषु, कुतस्तेषां तादृशत्वम् ? वियति गगनतले, विलसतां स्फुरताम् , असितागुरुधूपधूमयोनीनां असितस्य-कृष्णस्य, अगुरोः-तत्संज्ञकसुगन्धिद्रव्यस्य, धूपेन-अग्निसन्तपनेन ये धूमात एव योनयः कारणानि येषां तेषाम् , तादृशधूमोद्भवमेघानामित्यर्थः, आसारवारिणा आसार:-धारासम्पातः, तद्वारिणा-तज्जलेन, उपसिच्यमानेष्विव उपसे चनादिवेति हेतूत्प्रेक्षा, तस्योपसेचनस्यातिनीलसुरभित्वहेतुतयोपन्यासात् काव्यलिङ्गालङ्कारश्चेत्यनयोः संकरः, [ ओ]। पुनः कीदृगसौ नगरी? सरय्वाख्यया सरयूनाभ्या, सरिता नद्या, कृतपर्यन्तसख्या कृतं पर्यन्ते, सख्यं-सख्युमित्रस्य कर्म, सम्मेलनमिति यावत्, यया तादृशी, कीदृश्या तया सरिता? मजकोशलविलासिनीनितम्ब स्फारिततरड्यामजन्तीनां स्नातीनाम् कोशलविलासिनीनां-कोशलदेशप्रसूतानां कामिनीनाम् , नितम्बास्फालनेन-कटिपश्चिमभागसंघटनेन, स्फारिताः-उद्वेलिताः, तरङ्गा यस्यां तादृश्या, पुनः कीदृश्या तया ? राजहंसैः निरुक्तरूपैर्हसविशेषैः, क्षणमपि किश्चित्कालमपि, अमुक्तपार्श्वया अमुक्तम् -अत्यतम् , पाश्व-समीपं यस्यास्तादृश्या, कीदृशै राजहंसः ? गृहीतसरलमृणालयष्टिभिः गृहीता-भोक्तुमुद्धृता, सरला-ऋज्वी, मृणालयष्टिः-बिसलतारूपकमलाधारदण्डो यैस्तादृशैः, पुनः कीदृशैः ? पूर्वार्णववितीर्णैः पूर्वार्णवेन-पूर्वसागररूपेण सरित्पतिना, वितीर्णे:-प्रेषितैः, तत आगतैरित्यर्थः, कीदृशैः कैरिव ? गृहीतसरलमृणालयष्टिभिः हस्तावलम्बितसरलमृणालकोमलदण्डैः, पूर्णार्णववितीर्णैः पूर्णार्णवेन-तत्स्थानीयेन नायकेन, वितीर्णैः-नियुक्तः, वृद्धकञ्चकिभिरिव वृद्धः-जराजीर्णेन्द्रियैः, कक्षुकिभिरिव-नृपान्तःपुररक्षकैरिवेत्युत्प्रेक्षा, “अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः। सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते" ॥ इति नाट्यशास्त्रे परिभाषणात्, अत्र सरय्बां नायिकात्वस्य पूर्वार्णवे नायकत्वस्य च लिङ्गसाम्येन प्रतीत्या समासोक्तिरलङ्कारोऽपीति ध्येयम् , किमर्थम् ? कपिलकोपानलेन्धनीकृतसगरतनयवर्गवार्ता कपिलस्य-तनामकऋषिविशेषस्य, कोपानलेन-क्रोधाग्निना, इन्धनीकृतानाम्-इन्धनवद् भस्मसात्कृतानाम् , सगरतनयानां-सगरनान्नो नृपस्य पुत्राणाम् , स्वर्गवार्ता-तत्कृतस्वर्गप्रापणवृत्तान्तम् , प्रष्टुमिव जिज्ञासितुमिव, राज्ञा सगरेण सादरमारब्धेऽश्वमेधे शक्रेणावरुध्य पाताले तपस्यतः कपिलमुनेराश्रमेऽश्वोऽबन्धि, पश्चादश्वमन्विष्यद्धिः सगरतनयैरवनि खनित्वा तदाश्रममुपेतवद्भिस्तेनैव निजाश्वनियन्त्रणं प्रतीत्यानेकशो भसितोऽसौ मुनिर्निजक्रोधानलज्वालाभिः सर्वान् भस्मसाच्चकार, ततस्तद्वंशजेन भगीरथेनोग्रतपसा गङ्गामवतार्य तया सर्वानुद्धारयामासेति पौराणिकी वार्ता [औ] । पुनः कीरगसौ नगरी? वधूभिः अचिरपरिणतामिरगनाभिः, अलङ्कता, कीदृशीभिस्ताभिः ? सततगृहव्यापारनिषण्णमानसाभिः सततम्
Loading... Page Navigation 1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196