Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी। गीयमानविबुधसद्मप्रसिद्धमूर्च्छनमुद्विलासरम्भाभिनीयमानरघुपुरस्सरादिभूपालचरितमुन्नतप्रासादशिखरचन्द्रशालायां रचितरङ्गभूमिरवसरेषु द्रधुमागतानामष्टादशद्वीपमेदिनीपतीनां दर्शयसि दिव्यं प्रेक्षाविधिम् ? [था। किंबहुना, अन्यदपि यत् ते मनसि वर्तते तत् सर्वमावेदय, येनाचिरात् संपादयामि'इति वादिनीमेव तां नरपतिरुपजातसंमदः सप्रश्रयमवादीत-'देवि ! सर्वमुपपन्नमेतत् , किं न संभाव्यते, प्रणतसुरसहस्रमौलिविश्रान्तपादः पुरन्दरोऽपि देवस्त्वत्प्रसादादासादयति सुरलोकराज्यसुखानि, वासुकिरपि त्वयि सानुरागायामुरगकामिनीचामर. कलापोपवीज्यमानतनुः पालयति पातालनगराणि, कुबेरोऽपि त्वत्संनिधानान्निधीनां नाथो जातः, सागरोऽपि त्वयि संभूतायां रत्नाकरत्वमुपगतः । तिष्ठन्तु चैते । नीचप्रकृतयोऽपि त्वया परिगृहीता जगति गुरुतां परामागता दृश्यन्ते, तथाहि-प्राणिविशेषास्थिशकलमपि मुख्यः पावनानां शङ्खः, भुजङ्गकुलसङ्गदूषितमपि वन्धं
टिप्पन कम्-सप्रश्रयं सविनयम् । भुजङ्गकुलसङ्गदूषितमपि एकत्र भुजङ्ग:-षिङ्गः, अन्यत्र सर्पः, प्राकृतजनगृहीतदण्डमपि एकत्र दण्डःकरः, अन्यत्र यष्टिः, असकृदासादितकलङ्कः एकत्र कलङ्कः-मलः, अन्यत्र परिवारः, तिर्य डालोऽपि अशुचिरपि, अन्यत्र स्वरूपकथनम् [द]।
भाषितो ग्रामोत्तरकालिकखरावस्थाविशेषो यस्मिंस्तादृशम् , पुनः उद्विलासरम्भाभिनीयमानरघुपुरस्सरादिभूपालचरितम् उद्विलासाभिः-उत्-उद्भूतः, विलासः-शृङ्गारचेष्टाविशेषो यासां तारशीभिः, रम्भाभिः-दिव्य वेश्याभिः, अभिनीयमानानि-अभिनयैः-चेष्टाविशेषैः, अभिव्यज्यमानानि, अनुक्रियमाणानीति यावत् , रघुपुरस्सराणा-रधुप्रमृतीनाम्, आदिभूपालानां- प्राचीननृपतीनाम् , चरितानि-चरित्राणि यस्मितादृशम् [थ] | किंबहुना अलमधिकप्रश्नेन, ते तव, मनसि हृदये, यत् अन्यदपि उक्तेभ्योऽतिरिक्कमपि, अभिमतकार्यमिति शेषः, वर्तते अस्ति, तत् सर्वम् अशेषम् , आवेदय विज्ञापय,येन यस्मात् कारणात् , अचिरात् शीघ्रम् , सम्पादयामि साधयामि । नरपतिः मेघवाहनः, उपजातसम्मदः उत्पमप्रमोदः सन् , इतिवादिनीमेव उक्तपूर्वाभिधायिनीमेव, तां लक्ष्मीदेवीम् , सप्रश्रयं सविनयम् , अवादीत् उक्तवान् , किमित्याहदेवि ! भगवति !, एतत् उक्तपूर्वम् , सर्वम् , उपपन्नं युक्तम् , निश्चितमिति यावत् , किं न सम्भाव्यते ? सर्वमेवेत्यर्थः, प्रणतसुरसहस्रमौलिविश्रान्तपादः प्रणताः-पादयोर्निपतिताः, ये सुराः-देवाः, तेषां सहस्रस्य, मौलिषु-मस्तकेषु, विश्रान्तौ-स्थिती, पादौ-चरणौ यस्य तादृशः, देवाधिपोऽपीत्यर्थः, पुरन्दरः इन्द्रः, त्वत्प्रसादात् त्वदनुग्रहादेव, सुरलोक. राज्यसुखानि स्वर्गलोकाधिपत्यसौख्यानि, आसादयति प्राप्नोति । किञ्च, वासुकिरपि साधिपोऽपि, त्वयि भगवत्याम् , सानुरागायाम् अनुरक्तायां सत्यामेव, उरगकामिनीचामरकलापोपवीज्यमानतनुः उरगका मिनीभिः-भुजङ्गभार्याभिः, चामरकलापेन-चामरपुओन, उपवीज्यमाना-समीपे वीज्यमाना, तनुः-शरीरं यस्य तादृशः, पातालनगराणि अधोभुव. नपुराणि, पालयति रक्षति । कुबेरोऽपि उत्तरदिक्पालोऽपि, त्वत्सन्निधायात् त्वत्साहचर्यादेव, निधीनाम्, “महापद्मश्च पद्मश्च शङ्को मकर-कच्छपी। मुकुन्द कुन्दनीलाश्च खवेश्च निधयो नव ॥” इति परिगणितनवप्रकाराणां कोषाणाम्, नाथ: अधिपतिः, जातः संवृत्तः । त्वयि सम्भूतायाम् अविर्भूतायामेव, सागरोऽपि समुद्रोऽपि, रत्नाकरत्वं रनखनित्वम् , उपगतः प्राप्तः । एते पुरन्दरादय उच्चप्रकृतयो व्यकयः, तिष्ठन्तु पृथक् सन्तु । नीचप्रकृतयोऽपि तुच्छखभावका अपि पदार्थाः, त्वया परिगृहीताः प्रीतिगोचरतां गमिताः, जगति लोके, परां महतीम् , गुरुतां गौरवम् , आगताः प्राप्त दृश्यन्ते अनुभूयन्ते, तानेव विशिष्य दर्शयति-तथाहीति । प्राणिविशेषास्थिशकलमपि प्राणिविशेषस्य-कस्यचिजीव, विशेषस्य, यद् अस्थि, तस्य शकलमपि-खण्डभूतोऽपि, पक्षे प्राणि विशेषस्य-द्वीन्द्रियप्राणिन:-शङ्कस्य द्वीन्द्रियप्राणित्वेन प्रसिद्धेः. शहः तदाख्ययाख्यातः समुद्रजातवस्तु विशेषः,पावनानां पवित्र वस्तूनांमध्ये, मुख्यः शुभ्रत्वदक्षिणावर्ततारध्वनिप्रसवित्वादिगुणश्रिया प्रधानः, अभूदिति शेषः, एवं भुजङ्गकुलसङ्गद्रषितमपि भुजा कुलस्य-जारसमाजस्य, पक्षे सर्पसन्दोहस्य, सङ्गेन-अनवरतसम्पर्केण, दूषितमपि-दुराचारदोषकलितमपि, पक्षे प्राणसन्देहजननदोषकलितमपि,चन्दनं श्रीखण्डद्वमः, वन्य
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196