Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 195
________________ तिलकमारी । १५९ विजयवेगः --- एष यामिनीयुद्धेषु विषमशत्रुसैन्यसंनिरुद्धस्य वज्रायुधस्य पाणिप्रणयितां त्वया नेतव्यः, [ल]। 'तथा' इति तेनाङ्गीकृतादेशश्चोत्थाय तैः प्रधानराजलोकैः परिवृतः प्रवर्त्यमानकुलदेवताविशेषपूजम् अभ्यर्च्यमानमुनिजनम् आरभ्यमाणगुरुभक्तिगौरवम् आराध्यमानचिन्तामणिगणम् आरभ्यमाणदिग्देवताबलिकर्मक्रमम् क्रियमाणदीनानाथ लोकशोकोच्छेदम् आरब्धनिर्विच्छेदसान्तानिककर्म काम्यक्रतुशालम् आगृहीतकनकभृङ्गारेण हरितकुशगर्भपाणिना पुरोहितेन तत इतः प्रकीर्यमाणशान्त्युदकशीकरम् उपकल्प्यमानपञ्चमीश्राद्धम् अधिगतविविधपूजाप्रीतमानसैर्द्विजन्मभिः सत्रमण्डपाजिरमण्डलकसंनिधावाबद्धमण्डलैर्मचोचारविरतौ युगपद् घुष्यमाणनृपतिसंतानोदयम् [व] अहरहः श्रोत्रियविश्राणनार्थमाह्रियमाणानां कुण्डपरिमण्डलोघ्नीनां गवामुत्कर्णतर्णकानुसृताभिः परम्पराभिरापूर्यमाणबाह्यकक्षान्तरम् आप्रातधूपपरिमलाविष्टाभि णापथम् ऋक्षवदवन्तिनगरीमतिक्रम्य दक्षिणदिग्वर्तिदेशविशेषम् अधितिष्ठतः आश्रयतः, वज्रायुधस्य तत्संज्ञकस्य सेनापतेः, प्रस्थापनीयः पार्श्वे प्रेषणीयः । च पुनः, तत्प्रधानप्रणयी तस्य मुख्यस्नेही, विजयवेगः तदाख्य उपसेनापतिः, वक्तव्यः निवेदयितव्यः । किमित्याह - यामिनीयुद्धेषु रात्रिसंग्रामेषु विषमशत्रुसैन्यसंनिरुद्धस्य विषमेणबलवता, शत्रुसैन्येन - रिपुसेनया, संनिरुद्धस्य - सम्यनिगृहीतस्य, वज्रायुधस्य पाणिप्रणयितां हस्तम्नेहिताम्, हस्तालङ्कारताम्, नेतव्यः प्रापयितव्यः [ल] । तथा तेनैव प्रकारेण करिष्यामीति तेन महोदधिना, अङ्गीकृतादेशः अङ्गीकृतः - स्वीकृतः, आदेशः-आज्ञा यस्य तादृशः, उत्थाय आसनमुत्सृज्य, तैः उक्तपूर्वैः, राजलोकैः राजकीयपुरुषैः परिवृतः परिवेष्ठितः, राजकुलं राजमन्दिरम् अगच्छत् गतवानिति दूरेणान्वेति । कीदृशं राजकुलम् ! प्रवर्त्यमानकुलदेवताविशेषपूजं प्रवर्त्यमाना- प्रारभ्यमाणा, कुलदेवतानां - कुलाधिष्ठातृदेवतानाम्, विशेषपूजा-विशेषण आराधना यस्मिंस्तादृशम् । पुनः अभ्यर्यमानमुनिजनम् अभ्यर्च्यमाना - अभि सर्वतोभावेन, पूज्यमाना मुनिजना यस्मिंस्तादृशम् । पुनः आरभ्य - माणगुरुभक्तिगौरवम् आरभ्यमाणं-क्रियमाणम्, गुरूणां - धर्माचार्याणां विद्याचार्याणां व भक्तिगौरवं तद्विषयकप्रीतिचातुर्य यस्मिंस्तादृशम् | पुनः आराध्यमानचिन्तामणिगणम् आराध्यमानः - उपास्यमानः, चिन्तामणेः - मणिविशेषस्य, गणः-समूहो यस्मिंस्तादृशम् । पुनः आरभ्यमाणदिग्देवतावलिकर्मक्रमम् आरभ्यमाणः -सम्पाद्यमानः, दिग्देवतानांदिगधिष्ठातृदेवतानाम्, इन्द्रादिदिक्पालदेवतानामिति यावत्, बलिकर्मक्रमः - भोज्यभागवितरणरूप कार्यक्रमो यस्मिंस्तादृशम् । पुनः क्रियमाणदीनानाथलोकशोकोच्छेदं क्रियामाणः - विधीयमानः, दीनानां दरिद्राणाम्, अनाथानां - निराश्रयाणां च लोकानाम्, शोकोच्छेदः - दुःखध्वंसो यस्मिंस्तादृशम् । पुनः आरब्धनिर्विच्छेद सान्तानिककर्मकाम्यक्रतुशालम् आरब्धं प्रवर्तितम्, निर्विच्छेदं- निरन्तरम्, सान्तानिकं - सन्तानोद्देश्यकम् कर्म-अनुष्ठानं यस्यामीदृशी, काम्यक्रतुशाला - काम्ययज्ञमण्डपो यस्मिंस्तादृशम् । पुनः पुरोहितेन पुरोधसा, तत इतः तत्र तत्र, प्रकीर्यमाणशान्त्युदकशीकरं प्रकीर्य - माणाः-विक्षिप्यमाणाः, शान्त्युदकशीकराः - शान्ति फलकजलकणा यस्मिंस्तादृशम् कीदृशेन ? आगृहीतकनक भृङ्गारेण धृतसुवर्णमयजलपात्रेण पुनः हरितकुशगर्भपाणिना हरितवर्णकुशयुक्तहस्तेन । पुनः उपकल्प्यमानपञ्चमी श्राद्धम् उपकल्प्यमानं-क्रियमाणं पञ्चम्यां तिथौ श्राद्धं पित्राद्युद्देश्यक कर्मविशेषो यस्मिंस्तादृशम् । पुनः अधिगतविविधपूजाप्रीतमानसैः प्राप्तानेकप्रकारकसम्मानतृप्तहृदयैः, सत्र मण्डपाजिरमण्डल कसन्निधौ सत्रमण्डपानां-ऋतुशालानाम्, यानि अजिराणि - चत्वराणि, तन्मण्डलस्य - तत्समूहस्य, सन्निधौ, आबद्धमण्डलैः रचितसमूहैः, द्विजन्मभिः ब्राह्मणैः, मन्त्रोच्चारविरतौ मन्त्रोच्चारणसमाप्तौ युगपत् एकक्षणावच्छेदेन, घुष्यमाणनृपतिसन्तानोदयं पुष्यमाणः - उचै रुच्चार्यमाणः, नृपतेः - मेघवाहनस्य, सन्तानोदयः - पुत्रोद्भवाशीर्वाक्यं यस्मिंस्तादृशम् [व] । पुनः उत्कर्णतर्णकानुसृताभिः उत्-ऊर्ध्वस्थौ, कर्णौ येषां तादृशाः, तूर्णकाः- वत्साः, तैः, अनुसृताभिः अनुगताभिः, गवां धेनूनाम्, परम्पराभिः यूथैः, आपूर्यमाणबाह्यकक्षान्तरम् आपूर्यमाणं सम्यक् पूर्यमाणम्, बाह्यकक्षान्तरम् - अन्तःपुरबाह्यभागान्तरं यस्मिंस्तादृशम् कीदृशीनां गवाम् ? अहरहः प्रतिदिनम्, श्रोत्रियविश्राणनार्थ श्रोत्रियेभ्यः-: वेदाध्येतृभ्यः, दानार्थम्, आहियमाणानाम् आनीयमानानाम्, पुनः कुण्ड परिमण्डलोध्नीनां कुण्डः - पात्रविशेषः,

Loading...

Page Navigation
1 ... 193 194 195 196