Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 194
________________ १५८ टिप्पनक-परागविकृतिसंवलिता लीयकं चादर्शयत् । तत्क्षणोपजातपरमप्रीतिभिश्च ते कौतुकवशेन मुहुः कथामावर्तयद्भिः, मुहः प्रभावमावर्णयदिः, मुहुर्धर्मसामर्थ्य समर्थयमानैः, मुहुः सात्त्विकतामुदाहरद्भिः, मुहुः सत्यादिगुणगणं गृणद्भिः, मुहुर्महिमानमुत्कीर्तयद्भिः, मुहुः साहसिकतामुद्दट्टयद्भिः, मुहुः पुण्यपरिणतिं प्रपञ्चयद्भिः, विस्मयस्मेरदृष्टिभिरनेकप्रकारमभिनन्द्यमानः परां मुदमधत्त [२] । प्रस्तुतकथाविच्छेदे च तैः प्रवर्तितो गृहगमनाय किमपि ध्यात्वा तिर्यग्वलितदृष्टिरनतिदूरोपविष्टमनुल्बणोदारवेषाकारधारिणं महोदधिनामानं प्रधानरत्नाध्यक्षमैक्षत । ससंभ्रमोपसृतं च तं विनयवामनीकृतदेहायामं वामपाणिस्पृष्टवसुधातलमितरकरधृतोत्तरीयपल्लवप्रान्तमुद्रितमुखमुन्मुखेक्षणं सादरमवदत्-'भद्र ! चन्द्रातपाभिधानोऽयं हारः प्रतिदिवसमर्चनीयानां चिन्तामणिप्रभृतीनां प्रधानरत्नानां मध्यवर्ती कर्तव्यः, अयमपि बालारुणाख्यो दिव्याङ्गुलीयकालङ्कारः स्वमर्यादातिवर्तिनां दुष्टसामन्तानां दमनाय दक्षिणापथमधितिष्ठतो वज्रायुधस्य प्रस्थापनीयः, वक्तव्यश्च तत्प्रधानप्रणयी टिप्पनकम्-सम्भ्रमोपसृतम् आदरोपागतम् [ल]। भ्यतमपरिचारकोपनीतम् आदिष्टेन-आनेतुमाजप्तेन, अन्यतमपरिचारकेण-एकतरभृत्येन, उपनीतम् आनीतम् , त्रिदशादासादितं देवतालब्धम् , दिव्यहारं देवतासम्बन्धिमाल्यम् , अङ्गलीयकं अङ्गुलिभूषणं च, अदर्शयत् दर्शितवान् । तत्क्षणोपजातपरमप्रीतिभिः तत्क्षण एवोपजाता-प्रादुर्भूता, परमा-अत्यन्ता, प्रीतिः-स्नेहो येषां तादृशैः, तैः पौरजनैः, अनेकप्रकारं बहुविधं यथा स्यात् तथा, अभिनन्द्यमानः धन्यवादैरभिवय॑मानः, राजेति शेषः, पराम् अत्यन्ताम् , मुदं हर्षम् , अधत धृतवान् , किं कुर्वद्भिस्तैः पौरैः? कौतुकवशेन औत्सुक्यवशेन, कथां श्रुतवरदानवार्ताम्, मुहुः अनेकवारम् , आवर्तयद्भिः अनुवदद्भिः, तथा मुहुः असकृत् , प्रभावं देवतामहिमानम् , आवर्णयद्भिः आ-समन्तात् , वर्णयद्भिः,-उपपादयद्भिः, तथा मुहुः पुनः पुनः,धर्मसामर्थ्य सुकृतशक्तिम् ,समर्थयमानैः परिपुष्यद्भिः,मुहुः अनेकवारम् , सात्त्विकतां राज्ञः समधिकसत्त्वगुणवत्ताम् , उदाहरद्भिः व्याहरद्भिः, मुहुः बहुवारम् , सत्यादिगुणगणं सत्यसाइसादितदीयगुणसन्दोहम्, गृणद्भिः कथयद्भिः, मुहुः अनेकधा, महिमानं तदीयमाहात्म्यम् , उत्कीर्तयद्भिः उदीरयद्भिः, मुहुः वारं वारम् , साहसिकतां दुष्करकार्यसम्पादनशीलताम् , उद्घाटयद्भिः प्रकटयद्भिः, मुहुः अनेकवार, पुण्यपरिणति पुण्यपरिणामम् , प्रपश्चयद्भिः विस्तारयद्भिः, पुनः विस्मयस्मेरदृष्टिभिः आश्चर्यविकस्वरलोचनशालिभिः [२] . प्रस्तुतकथाविच्छेदे प्रकृतकथासमाप्तौ सत्याम् , गृहगमनाय गृहम् अन्तःपुरम् , गमनाय-प्रस्थातुम् , तैः पौरजनैः, प्रवर्तितःप्रेरितो राजा, किमपि किश्चिद्, ध्यात्वा विचिन्त्य, तिर्यग्वलितदृष्टिः तिर्यक्-कुटिलं यथा स्यात् तथा, नम्मितदृष्टिः सन् , अनतिदूरोपविष्टं किञ्चिन्निकटस्थितम् , अनुल्वणोदारवेषाकारधारिणम् अनुरुवणः:-अनुस्कटः, सज्जनोचितः, उदारः-स्फीतश्च, वेषः-नेपथ्यं यस्मितादृशो य आकारः-आकृतिः तद्धारिणम् , महोदधिनामानं तत्संज्ञकम् , प्रधानरत्नाध्यक्ष प्रधानानि-उत्तमानि, यानि रत्नानि तेषाम् , अध्यक्षम्-अधिष्ठातारम् , ऐक्षत अपश्यत् । च पुनः, ससम्भ्रमोपसृतम् सत्त्वरमुपागतम् , पुनः विनयवामनीकृतदेहायामं विनयेन-नम्रभावेन, वामनीकृतः-हखीकृतः, संकोचित इति यावत् , देहायामः-खशरीरविस्तारो येन तादृशम् , वामपाणिस्पृष्टवसुधातलं वामपागिना-वामकरण, स्पृष्ट-गृहीतम् , वसुधातलं-भूतलं येन तादृशम्, पुनः इतरकरधृतोत्तरीयपल्लवप्रान्तमुद्रितमुखम् इत हस्तेन, धूतस्य-गृहीतस्य, उत्तरीयपल्लवस्य-किसलयकोमलोत्तरीयवस्खस्य, प्रान्तेन-अञ्चलेन, मुद्रितम्-आवृतम् , मुखं यस्य तादृशम् , पुनः उन्मुखेक्षणम् उरफुललोचनम् , तं महोदधिनामानं रत्नकोषाध्यक्षम् , सादरम् आदरपुरस्सरम् , अवदत् उवाच । क्रिमित्याह-भद्र ! भो कल्याणशालिन् । अयं चन्द्रातपाभिधान: तन्नामा, हारः माल्यम् , प्रतिदिवसं प्रतिदिनम् , अर्चनीयानां पूजनीयानाम् , चिन्तामणिप्रभृतीनां चिन्तामणिप्रमुखानाम् ,प्रधानरत्नानां महामणीनाम् मध्यवर्ती मध्यस्थः, कर्तव्यः मध्ये स्थापयितव्य इत्यर्थः । बालारुणाख्या बालारुणनामकः, दिव्याङ्गुलीयकालङ्कारः देवताऽडलिभूषणम् , खमर्यादातिवर्तिनां निजमर्यादाविक्रमिणाम् ,दुष्टसामन्तानाम् उद्धतावान्तरनृपतीनाम् , दमनाय भायत्तीकरणाय, दक्षि

Loading...

Page Navigation
1 ... 192 193 194 195 196