Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 193
________________ तितकमारी | जातप्रभोद्भेदायां च पाकशासनककुभि शयनादुत्थितस्य निर्वर्त्तितनिरवशेषप्रभातावश्यक विधेरवसरोपस्थायिना स्वकर्म संपादयितुमाहतेन हृतिवारिभिर्वारिकजनेन विरजीकृतविविक्ततलायामविरलप्रसून प्रकरभाजि देवतागृहप्राङ्गणवितर्दिकायामुपविष्टस्य नातिनिकटवर्तिना निर्वर्तितप्रातः सवनक्रियेण सद्यो जलक्षालनविमलनिरायामक्षामधारिणा क्षितावुपविष्टेन विशिष्टाप्त परिचारकगणेनोपास्यमानस्यास्य दर्शनार्थिनः सकलदर्शनार्थ परिभावनालब्धबुद्धिप्रकर्षा महर्षयः श्रोत्रिया: प्रधानमन्त्रिणोऽमात्यवृद्धा मूर्धाभिषिक्तनृपतयो महासामन्ता ज्ञातयः सुहृदः समग्रनगरलोकाप्रेसराश्च पौराः समाजग्मुः [य] । प्रतीहारसूचिताश्च प्रविश्यं यथोचितकृतप्रणामाः परिजनविश्राणितेषु यथास्वमासनेषूपाविशन् । क्षणमात्रनिभृतैश्च तैरपूर्ववदनच्छायावलोकनोल्लसितचित्तवृत्तिभिर्देवताप्रसादविषये कृतप्रश्नः शक्रावतारगमनपुरःसरं राजलक्ष्मीस्वस्थानगमनपर्यवसानं सर्वमेव यथावृत्तं प्रदोषवृत्तान्तमकथयत्, आदिष्टान्यतमपरिचारकोपनीतं च तं त्रिदशादासादितं दिव्यहारमनु १५७ पुनः, जातप्रभोद्भेदायां जातः - उत्पन्नः, प्रमायाः - अरुणद्युतैः, उद्भेदः - उद्गमो यस्यां तादृशि, पाकशासनककुभि पाकशासनस्य- इन्द्रस्य, ककुभि-दिशि, पूर्वदिशीत्यर्थः, सत्यामिति शेषः । शयनात् शय्यातलात्, उत्थितस्य उत्थाय बहिरागतस्य, अस्य मेघवाहननृपस्य दर्शनार्थिनः दर्शनाकाङ्क्षिणः, पौराः पुरवासिजना, समाजग्मुः समागताः । कीदृशस्य तस्य ? निर्वर्तितनिरवशेषप्रभातावश्यकविधेः निर्वर्तितः सम्पादितः, निरवशेषः- समस्तः, प्रभावेप्रातःकाले, आवश्यकः--अवश्यकर्तव्यः, विधिः कार्यं येन तादृशस्य । पुनः देवतागृहप्राङ्गणवितर्दिकायां देवतागृहस्य - देवीमन्दिरस्य, प्राङ्गणे - चत्वरे, या वितर्दिका वेदिका, तस्याम्, उपविष्टस्य कृतोपवेशनस्य, कथम्भूतायाम् ? अवसरोपस्थायिना अवसरे - उचित समये, उपस्थायिना - उपस्थितिशीलेन, स्वकर्म स्वकीयकार्यम्, सम्पादयितुं कर्तुम्, आहतेन अवहितहृदयेन, वारिकजनेन जलसेचकजनेन, इतिवारिभिः चर्मभाण्डस्यन्दिसलिलैः, विरजीकृतविविक्ततलायां बिरजीकृतं - निर्धूलीकृतम्, विविक्तं पूतमू, तलम् - ऊर्ध्वभागो यस्यां तादृश्याम् पुनः अविरलप्रसूनप्रकरभाजि सान्द्रकुसुमसम्वो हशालिन्याम् । पुनः कीदृशस्य ? विशिष्टाप्त परिचारकगणेन विशिष्ठाप्तः - परम विश्वस्तः, यः परिचारकःसेवकः तस्य गणेन-समूहेन, उपास्यमानस्य सेव्यमानस्य, कीदृशेन तेन ? नातिनिकटवर्तिना किश्चिन्निकटस्थायिना, पुनः निर्वर्तितप्रातः सवनक्रियेण निर्वर्तिता-निष्पादिता, कृतेत्यर्थः, प्रातः सवनक्रिया- प्रातः कालिकम्नानरूपा किया येन ताशेन, पुनः सद्यः तत्कालम्, जलक्षालनविमल निरायामक्षौमधारिणा जलक्षालनेन - जलद्वारा विशोधनेन, विमलं-निर्मलम्, यत् निरायामम्-अविस्तृतं लघुभूतम्, क्षौमं सूक्ष्मवस्त्रम्, तद्धारिणा - तत्परिधायकेन, क्षितौ भूमौ उपविष्ठेन कृतोपवेशनेन । कीदृशास्ते पौराः ? सकलदर्शनार्थ परिभावनालब्धबुद्धिप्रकर्षाः सकलानि - समस्तानि यानि दर्शनानि - दर्शनशास्त्राणि तदर्थपरिभावनया - तदर्थालोचनया, लब्धः - प्राप्तः, बुद्धिप्रकर्षः - बुद्धेरुत्कर्षो यैस्तादृशाः, महर्षयः परमर्षयः, श्रोत्रियाः वेदाध्येतारः, प्रधानमन्त्रिणः सर्वश्रेष्ठ सचिवाः, अमात्यवृद्धाः प्राचीनामात्याः, मूर्धाभिषिकनृपतयः मूर्धनि मस्तके, अभिषिक्ताः - कृतराज्याभिषेकाः नृपतयः - राजानः, महासामन्ताः महान्तःविशेष्टाः, सामन्ताः-अवान्तरनृपाः, ज्ञातयः बन्धवः, सुहृदः मित्रभूताः च पुनः समस्तनगरलोकाप्रेसराः सममाणां समस्तानाम्, नगरलोकानां - नागरिकजनानाम् अग्रेसराः - प्रधानभूताः [य]। च पुनः प्रतीहारसूचितादौवारिक निवेदिताः प्रविश्य अन्तःप्रवेशं कृत्वा, यथोचितवतप्रणामाः यथायोग्य विहितनमस्काराः, परिजनविश्राणिः तेषु परिचारकदत्तेषु, आसनेषु उपवेशनाधारेषु यथास्त्रं यथायोग्यम्, उपाविशन् उपविष्टाः, क्षणमात्र निभृतैः मुहूर्त - मात्रस्थिरैः, अपूर्ववदनच्छायावलोकनोल्लसित चित्तवृत्तिभिः अपूर्वायाः - विलक्षणायाः, वदनच्छायायाः -मुखकान्वेः, अवलोकनेन-दर्शनेन, उल्लसिता-हृष्टा, चित्तवृत्तिर्येषां तादृशैः तैः पौरैः, देवताप्रसादविषये देवी प्रसन्नताविषये कृतमनः पृष्टः सन् स राजेति शेषः । शक्रावतारगमनपुरस्सरं शक्रावतारगमनमारभ्य राजलक्ष्मीस्वस्थानगमनपर्ववखानं राजलक्ष्म्याः- राजोपास्यलक्ष्मीदेव्याः, मत् स्वस्थानगमनं - स्वकीयस्थानप्रस्थानम्, तत्पर्यन्तम्, यथाश्रुतं मधानिष्पतम्, सर्वमेव समस्तमेव प्रदोषवृत्तान्तं प्रदोषकालिकसमाचारम्, अकथयत् कथितवान् च पुनः आविष्ठा ·

Loading...

Page Navigation
1 ... 191 192 193 194 195 196