Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
कमरी । अध्यात्स्व राज्यधुराम्, आधेहि विषयोपभोगसुखेषु प्रणयम् , आत्मदर्शनामृतेन विरहाकुलीकृतप्राणाः प्रीणीहि सर्वाः प्रणयिनी:, प्रवर्तय यदृच्छया सुहजनेन सार्धमप्राम्यनर्मालापरम्या रहस्यगोष्टीः, अनुभव तुलरवसिन्धुराधिरोहणसुखानि, विधेहि कृत्रिमनदीतरङ्गमारुतावतारशीतलेषु प्रमदवनसहकारपादपतलेष्वनुत्तालगुखन्मुरजरवमनोहरमन्तःपुरपुरन्ध्रिजनेन सार्धमनिवारितमनःप्रसरः पुराणवारुणीपानोत्सवम् , कुरु सफलानि रङ्गशालासु लासिकाजनस्य निजावलोकनेन लास्यलीलायितान्यपराण्यपि नियमग्रहणकालत्यक्तानि, चिन्तय निराकुलः सकलानि राजकार्याणि, अद्यैव तव मया व्यपनीतो नियमनिगडग्रन्थिबन्धः।' इत्यभिधाय दत्त्वा च शंसितप्रभावमवतार्य करतलाद् बालारुणाभिधानं प्रधानरत्नाङ्गुलीयकमीपत्प्रचलितोत्तमाङ्गा कराञ्जलिबन्धसमकालस्मितमुखी झगित्यदर्शनमगात् [भ]
गतायां च तस्यां सविषादविस्मयः स्थित्वा पार्थिवः क्षणं कोणमेकमायतनस्याश्रित्य परिचारकैः पूर्वमेव
झया मदनुमल्या, स्वमपि अधुना सम्प्रति, खं खकीयम् , आवासं गृहम् , गच्छ याहि । राज्यधुरां राज्यभारम्, . अभ्यास्व गृहाण, तथा विषयोपभोगसुखेषु शब्दस्पर्शादयो ये विषयाः-इन्द्रियार्थाः, तेषां य उपभोगः--आखादनम् , तजन्यसुखेषु, प्रणयं प्रीतिम् , आधेहि कुरु । तथा विरहाकुलीकृतप्राणाः-विरहेण-स्ववियोगेन, आकुलीकृताः-व्यथिताः, प्राणा यासा ताः, सर्वाः समस्ताः, प्रणयिनीः प्रियाः, आत्मदर्शनामृतेन खदर्शनजन्यसन्तोषामृतेन, प्रीणीहि तर्पय । तथा यहच्छयाखेच्छया, सुहजनेन खसुहृत्सङ्घन, साधं सह, अग्राम्यनर्मालापरम्याः अग्राम्यैः-वैदग्ध्यपूर्णः, नर्मालापैः-परिहासवचनैः, रम्याः-मनोहराः,रहस्यगोष्ठी: गुप्तसभाः,प्रवर्तय प्रारभख । तथा तुरग-रथ-सिन्धुराधिरोहणसुखानि तुरगेषु-अवेषु, रयेषु, सिन्धुरेषु-गजेषु च, यदधिरोहणम्-आरोहणं, तज्जन्यसुखानि, अनुभव भुन। तथा कृत्रिम नदीतरामायतावतारशीतलेषु कृत्रिमाणां-क्रियया निर्वर्तितानाम् , मदीनां ये तरजमारुता:-तराभिधातिनो वाताः, तेषाम् अवतारेण-आगमनेन, शीतलेषु-शैत्यगुणशालिषु, प्रमदवनसहकारपादपतलेषु प्रमदवने-अन्तःपुरोद्याने, ये सहकारपादपाः-अतिसुरभिचूतवृक्षाः, तेषां तलेषु-अधःस्थलेषु, अन्तःपुरपुरन्धिजनेन अन्तःपुरवधूजनेन, सार्ध सह, मनुसालगुअन्मुरजरवमनोहरम् अनुत्ताल-मन्दं यथा स्यात् तथा, गुञ्जता-ध्वनताम् , मुरजाना-मृदङ्गानाम् , रवैः-नादः, मनोहर-रम्यम्, पुराणवारुणीपानोत्सवं परिणतमदिराऽऽखादनोत्सवम् , अनिवारितमनःप्रसरः अनिवारितः-अनिरुखः, मनः प्रसरः-मनःप्रवृत्तिथैन तादृशः, त्वमिति शेषः, विधेहि कुरु । तथा रङ्गशालासु नाट्यालयेषु, लासिका: जनस्य नर्तकीजनस्य, लास्थलीलायितानि नृत्यकौतुकानि, एवं नियमग्रहणकालत्यकानि देव्याराधनव्रतारम्भकाले वर्जितानि, अपराण्यपि अन्यान्यपि राजोचितकार्याणि, निजावलोकनेन स्वयमवलोकनेन, सफलानि फलशालीनि, कर विधेहि । अथवा 'अपराण्यपि नियमग्रहणकालत्यकानि' इत्यस्योत्तरत्रान्वयः, तथा च नियमप्रहणकालत्यकानि, अपरापायपि उक्तव्यतिरिकान्यपि, सकलानि सर्वाणि, राज्यकार्याणि राज्यसम्बन्धिकर्तव्यानि, निराकुलः खस्थचित्तः सन्, चिन्तय विचारय । मया तव नियमनिगडग्रन्थिबन्धः नियमनिगडस्य-व्रतरूपङ्खलायाः, प्रन्थिबन्धः-सवेष्टनबन्धः, अद्यैव अस्मिक्षेव दिने, व्यपनीतः उन्मोचितः। इति अनेन प्रकारेण, अभिधाय उक्त्वा, च पुनः, शंसितप्रभावं शंसितः कथितः, प्रभावः-माहात्म्यं यस्य तादृशम् , बालारणाभिधानं बालादित्ययुतिमत्तया बालारुणेत्यन्वर्थसंज्ञकम्, प्रधानरत्नालायक महारत्नमयमलीयकम्, करतलावताये करालेनिष्कास्य, दत्त्वा तसे अपेयित्वा, ईषत्मचलितोचमानर किश्चित्कम्पितमस्तका सती, कराअलिबन्धसमकालसितमुखी. कराचलिमन्धस्यहखयुगलसंयोजनस्य, समकाले-एककाले, स्मितं-मन्दहसितं मुखं यस्यास्तादृशी, झटिति शीघ्रम् , गिति पाठे तेज. सतया विरोभावप्रकारेण, अदर्शनं दर्शनागोचरताम् , अगात् प्रापत् [भ] । ::पुनः, तस्यां देव्याम्, गतायां विरोभूतायो सल्याम् , पार्थिवः मेघवाहननृपः, सविषादविलयः विषादेनसददर्शनलेवेन, बिसयेन-आकस्मिकतदागमनगमनावर्षेण च, सहितः सन्, क्षणं मुहूर्वम् , स्थित्वातूष्णीम्भूय,मायतनस्य मन्दिरस्य, एकं कोणं भागम् , माश्रित्य भषिकाय, परिचारकः भूलैः, पूर्वमेव तदागमनात प्रागेव, प्रकल्पितं रमितं
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196