Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________ 160 ... टिप्पनक-परामविवृतिसंवलिता रनेकभङ्गिभिः कृताङ्गभङ्गाभिराभङ्गुरभृकुटिभीषणमुखीभिरप्रतो विनयविरचिताञ्जलिना राजकुलवृद्धाजनेन कि किमित्याकुलाकुलमापृच्छयमानाभिः क्षुद्रप्रव्रजिताभिरभिलषितवस्त्वनुगुणैर्वचोभिराश्वास्यमानपरिजनम् शि] उपनीतकुसुमफलताम्बूलेन पुरोवर्तिना नृपतिज्ञातिलोकेन होराकृष्टिषु नियुञ्जानेनाङ्गुष्ठकादिप्रश्नं प्रति प्रवर्तयता कर्णपिशाचिकाविधानेष्ववधापयता दृष्टशुभस्वप्नफलानि पृच्छता दिवानिशमुपास्यमाननैमित्तिकम् अवितथादेशसामुद्रविदाख्यातप्रसवलक्षणानां क्षोणिपालकन्यानामुद्वाहनाय राज्ञः प्रणयिलोकैः प्रवर्त्यमानामात्यम् [प] अवधीरितापरकथेन स्थानस्थानेषूपविष्टेन देशकालान्तरितनरेन्द्रपरिज्ञानानि प्रशंसता विवक्षितपुरुषफलावाप्तिदृष्टान्तैरभीष्टदेवतासेवाप्रभावमुद्भावयता निरपत्यपूर्वनृपतिपुत्रलाभोपायप्रधानाः पौराणिककथाः टिप्पनकम्-अवधापयता अवधानं कारयता / उद्वाहनाय परिणयनाय [प] तद्वत् परिमण्डलं-वर्तुलम् , ऊधः-स्तनभागो यासां तादृशीनाम् / पुनः क्षुद्रप्रवजिताभिः किञ्चिदाचारच्युतपरिमाजिकाभिः, अभिलषितवस्त्वनुगुणैः वाञ्छितार्थानुकूलैः, धचोभिः वचनैः, आश्वास्यमानपरिजनम् आश्वास्यमानः-कियमा. णाभिलषितार्थसिद्धिविषयकाऽऽश्वासनः,परिजनः-परिवारो यस्मिंस्तादृशम् कीदृशीभिस्ताभिः? आघ्रातधुपपरिमलाविष्टाभिः आघ्रातः-आसमन्ताद्ध्राणगृहीतगन्धः,योधूपः-गुरगुल्वादिद्रव्यम्, तत्परिमले-सद्गन्धे,आविष्टाभिः-आवेशवतीभिः, व्यासता. भिरिति यावत्, पुनः अनेकभङ्गिभिः अनेकप्रकारैः, कृताङ्गभङ्गाभिः कृतः-रचितः, अङ्गभङ्गः-शारीरिकचेष्टाचमत्कारो याभिस्तादृशीभिः, पुनः आभङ्गरचकुटिभीषणमुखीभिः आभङ्गुराभ्यां-चपलाभ्याम् , भृकुटिभ्या-नयनोपरितनरोसरेखाभ्याम् , भीषणं-भयानकम् , मुखं यासां तादृशीभिः, पुनः अग्रतः अने, विनयविरचिताअलिना विनयेन विरचितःनिर्मितः, अञ्जलिः-करसम्पुटाकारो येन तादृशेन, राजकुलवृद्धाजनेन अन्तःपुरस्थवृद्धस्त्रीजनेन, " किं किम्" इति किं किमभिलषितं सिध्येदिति, आकुलाकुलं कौतुकपूर्ण यथा स्यात् तथा, आपृच्छयमानाभिः समन्तात् पृच्छयमानाभिः [श] / पुनः पुरोवर्तिना अग्रवर्तिना, नृपतिज्ञातिलोकेन राज्ञो बन्धुजनेन, दिवानिशं रात्रिंदिवम् , उपास्यमाननैमित्तिकम् उपास्यमानाः-आराध्यमानाः, नैमित्तिकाः-निमित्तज्ञाः, शकुन शास्त्रज्ञा इत्यर्थः, यस्मिंस्तादृशम् , कीदृशेन ज्ञातिलोकेन ? उपनीतकुसुमफलताम्बूलेन उपनीतानि-उपहृतानि, कुसुमानि-पुष्पाणि, फलानि-पूगीफलादीनि, ताम्बूलानिनागवल्लीदलानि येन तादृशेन, पुनः होराकृष्टिषु लमानयनेषु, नियुञ्जानेन प्रवर्तयता, पुनः अङ्गुष्ठकादिप्रश्नं प्रति मन्त्रादिनाऽङ्गुष्ठनखतलावतारितदेवतायाः सकाशात् सरलबालादिद्वारा पुत्रविषयकप्रश्नं प्रति, अङ्गुष्ठादिरेखाफलप्रश्नोत्तरकायें वा, प्रवर्तयता प्रेरयता, पुनः कर्णपिशाचिकाविधानेषु कर्णपिशाचिका नाम-अतीतानागतार्थावेदकविद्याविशेषः, यन्महिना पिशाचः कर्णाभ्यर्णमागत्य अतीतानागतार्थमावेदयति, तस्या विधानेषु-प्रयोगेषु, उपयोगेष्विति यावत् , अवधापयता अव. हितहृदयं कुर्वता, पुनः दृष्टशुभस्वप्नफलानि दृष्टा ये शुभाः-शोभनाः, खप्तास्तेषां फलानि, पृच्छता जिज्ञासमानेन, पुनः अवितथादेशसामुद्रविदाख्यातप्रसवलक्षणानाम् अवितथः-सत्यभूतः, आदेशः--फलकथनं येषां तादृशैः, सामुद्रविद्भिः-सामुद्रं नाम हस्तरेखादिना शुभाशुभप्रतिपादकः समुद्रनाम्ना महर्षिणा प्रणीतो महाग्रन्थविशेषः, तदभिज्ञैः, आख्यातानि-प्रतिपादितानि, प्रसवलक्षणानि-अपत्योत्पादनचिढानि यासां तादृशीनाम् , क्षोणिपालकन्यानां नृपात्मजानाम्, उद्वाहनाय विवाहनाय, राक्षः मेघवाहनस्य, प्रणयिलोकैः स्नेहास्पदजनैः, प्रवर्त्यमानामात्यं प्रवर्ल्समाना:प्रेर्यमाणाः, अमात्याः-मन्त्रिणो यस्मिंस्तादृशम् [प] / पुनः राजलोकेन राजकीयजनेन, अतिवाह्यमानदिवसम् अतिवाह्यमानाः-फलप्रतीक्षया याप्यमानाः, दिवसाः-दिनानि, यस्मिंस्तादृशम् , कीदृशेन तेन ? अवधीरितापरकथेन अव. धीरिता-तिरस्कृता, उपेक्षितेत्यर्थः, अपरा-राजपुत्रोत्पत्तिविषयककथाभिन्ना कथा, येन तादृशेन, पुनः / तत्तत्स्थानेषु, उपविष्टेन स्थितेन, पुनः देशकालान्तरितनरेन्द्रपरिज्ञानानि देशेन कालेन च अन्तरिताः-व्यवहिताः, देशान्तरीयाः कालान्तरीयाश्च, ये नरेन्द्रा:-राजानः, तेषां परिज्ञानानि-बुद्धिवैभवान् , प्रशंसता प्रकृतनृपतिबुद्धिवैभवैस्तुलयितुं श्लाघमानेन, यद्वा प्रकृतस्यैव नृपतेर्देशान्तरीयाणि कालान्तरीयाणि च परिज्ञानानि प्रशंसता वर्णयता, पुनः विवक्षितपुरुषफलावाप्तिदृष्टान्तैः विवक्षितानां-बुद्धिस्थानाम् , पुरुषाणाम् , या फलावाप्तिः-फलप्राप्तिः, तद्रूपदृष्टान्तः, अभीष्टदेवता.
Loading... Page Navigation 1 ... 194 195 196