Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 189
________________ मिली।. १५३ नीववत सप], इत्युक्तपति राजनि धिहस्य जातहर्षा लक्ष्मी पुनरवोचत-'राजन् ! कृतमतः परम् , भर्मकर्मणा जिता त्वयाऽहम् , किन्त्वतिमात्रचतुरोऽपि वञ्चितस्त्वमेतेन दर्शितालीकोन्नतिना महापुरुषताभिमानप्रहेण, येनैवमुपदर्शितप्रसादायामपि मयि न किञ्चित् त्वया प्रार्थितम् , सर्वथा यदस्ति तदस्तु, कस्ते मनोरथानां प्रतिपन्थी ? भविष्यति तवाशेषभुवनत्रयख्यातकीर्तिर्तिजनपरित्राणक्षमः क्षमापतिवृन्दवन्दितचरणारविन्दो बन्दीकताष्टादशद्वीपभूपालसुन्दरीसादरविधीयमानशुद्धान्तवधूचरणपरिचर्यश्चतुरुदधिवेलाशिलोचयशिखानिखातमणिशिलादारुमयजयस्तम्भो मत्प्रभावादचिरेण भोक्ता भूमिगोचरखेचराधिपतिराज्ययोः प्रतापघान् पुत्रः, यस्योत्पत्रभङ्गचित्राष्टापदपादपीठप्रास्तसततनिषण्णः सविभ्रमोक्षिप्तर्दक्षिणकरैः प्रचलयमवसरेषु बालव्यजनकानि विलासयनपुत्रिकाविदग्धतां धास्यति प्रकटिताष्टबाहुदेहद्वयो जनोऽयम्' [फ], इत्युदीर्य यति [प] इति अनया रीत्या, राजनि मेघवाहने, उक्तवति कथितवति सति, विहस्य हास कृत्वा, जातहर्षा उत्पन्नानन्दा, लक्ष्मीः, पुन: पुनरपि, अवोचत् उक्तवती । किमित्याह-राजन् ! नृपते 1, अतः परम् अतोऽधिकम् , कृतं व्यर्थम् , अई लक्ष्मीः, त्वया भवता, नर्मकर्मणा हास्यक्रियया, जिता वशीकृता। किन्तु परन्तु, अतिमात्रचतुरोऽपि खार्थनिष्पादनेऽत्यन्तचतुरोऽपि, त्वम् , दर्शितालीकोन्नतिना दार्शता-आविष्कृता, अलीका-मिथ्या, उन्नतिः-खोत्कर्षों येन तादृशेन, पतेन अनुभूयमानेन, महापुरुषताभिमानग्रहेण अहं महापुरुषोऽस्मीत्यतादग्गर्वप्रहणेन, वञ्चितः प्रतारितः, येन यस्मात् कारणात् , एवम् अनेन प्रकारेण, मयि उपदर्शितप्रसादायामपि प्रकटितस्त्रप्रसन्नतायामपि सत्याम् , त्वया न किश्चित किमपि, प्राथितं याचितम् । सर्वथा सर्वप्रकारेण यत वस्तु.अस्तितव वर्तते, तद् तव, मनोरथानां कामनानाम् , कः प्रतिपन्धी विद्वेषी, न कोऽपीत्यर्थः । किन्तु मत्प्रभावात् मत्सामर्थ्यात् , अचिरेण शीघ्रम् , तव पुत्रो भविष्यति । कीदृशः? अशेषभुवनत्रयख्यातकीर्तिः अशेष-समस्तम् , यद् भुवनत्रयं-वर्ग-मर्स. पाताललोकत्रयम् , तत्र ख्याता-प्रसिद्धा, कीर्तिः-यशो यस्य तादृशः, पुनः आर्तजनपरित्राणक्षमः दीनजनपरिरक्षण. समर्थः, पुनः श्मापतिवृन्दवन्दितचरणारविन्दः क्षमापतिन्देन-नृपतिगणेन, वन्दितम्-आराधितम् , चरणारविन्दं यस्थ तादृशः, पुनः बन्दीकृताष्टादशद्वीपभूपालसुन्दरीसादरविधीयमानशुद्धान्तवधूपरिचर्यः बन्दीकृतानाकारागारबद्धानाम्, अष्टादशदीपभूपालानाम्-अष्टादशद्वीपनिवासिनृपाणाम्, सुन्दरीभिः-राज्ञीभिः, सादर यथा स्यात् तथा, विधीयमाना-क्रियमाणा, शुद्धान्तवधूनाम्-अन्तःपुरस्त्रीणाम्, चरणपरिचर्या-पादसेवा यस्य ताइशः, पुनः । चतुरुदधिवेलाशिलोचयशिखानिखातमणिशिलादारुमयजयस्तम्भः चतुर्णाम् , उदधीनां समुद्राणाम् , ये . वेलाशिलोचयाः-तटवर्तिपर्वताः, तेषां शिखासु-शिखरेषु, निखाताः-नितरां खनित्वा स्थापिताः, मणिशिलादारमयाः-मणिमया: बिलामया दारुमयाश्च, यद्वा मणिशिला-मणिरूपपाषाणः, तद्रूपं यद् दारु-काष्ठम् , तन्मयाः, जयस्तम्भा:-जयस्थूणा येन तामा, पुनः भूमिगोचरखेचराधिपतिराज्ययोः भूमिगोचराः-भूमिचारिणः, तेषामधिपतिः-नराधिपतिः, खेवरा:गगनविहारिणो विद्याधराः, तेषामधिपतिः-विद्याधरेन्द्रः, तयो राज्ययोः, भोक्ता सुखानुभविता, पुनः प्रतापवान् तेजखी। यस्य त्वत्पुत्रस्य, अयं वर्तमानवस्तृव्यक्तिरूपः, जन: लक्ष्मीरूपो जनः, विलासयनपुत्रिकातिदग्धता बिलासाय यो यन्त्रः, तत्र निर्मिता या पुत्रिका-पुत्तलिका, कन्याप्रतिकृतिः, तस्या या विदग्धता-यन्त्रसम्बालनोत्तरं व्याधूयमानदक्षिणकरेण व्यजनोरक्षेपणदाक्षिण्यम् , ताम् , घास्यति ग्रहीष्यति । किं कुर्वन् ? अबसरेषु उचितसमयेषु, सविभ्रमो-- रिक्षतः सविभ्रम-सविलासं यथा स्यात् तथा, उरिक्षतैः-उदूतैः, दक्षिणकरैः सव्यहस्तैः, बालव्यजनकानि चामराण, प्रचलयन् उद्धन्वन्, कुत्रोपविष्टः सन् ? उत्पत्रभङ्गचित्राष्टापदपादपीठपान्तसततनिषण्णः उत्पत्रमशन-उत्कृष्ट.. पत्ररचनया, चित्रं-चित्रवर्णम् , यद् अष्टापदस-सुवर्णस्य, तनिर्मितमित्यर्थः, पादपीठं-पादस्थापनासनम्, तत्प्रान्ते-तनिकटे, सततम्-अनवरतम् , निषण्णः-उपविष्टः सन् , कीदृशः ? प्रकटिताष्टबाहुदेहव्यः अष्टौ बाहो-भुजा यस्मिंस्तादृशं देहद्वयं-शरीरद्वयम् , प्रकटितं-प्रकल्पितं येन तादृशः [फ] । इति एवम् , उदीय उक्त्वा , भूया पुनरपि, जगाद याचा २.तिलक.

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196