Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 188
________________ १५२ टिप्पनक-परागविवृतिसंवलिता गाढमवगाढस्त्वदीयालापस्य तात्पर्यार्थः, कथयिष्यति च केनापि प्रकारेण निष्कारणापकारी नियतमेष जाल्म:, प्रकृतिकेलिप्रियतया कोपयिष्यति च ताः, काममेवं च बुद्धिकौशलेन रक्षितमपि वलात् तवागतं व्यसनमप्रतिविधेयम्' इत्युक्त्वा विरराम [न] । क्षितीशोऽपि तेन प्रसादातिशयशंसिना श्रियः परिहासबादेन द्विगुणतरोपजातसंमदः स्मित्वाऽमन्दमवदत्----'देवि! प्राञ्जलोक्त्या कृतं प्रार्थनमतिब्रीडाकरमिति मन्यमानेन मया प्रयुक्तेयमीदृशी वचनयुक्तिन तु भयेन, त्वया हि प्रसादपरया संप्रति कृतः स्वीकारः, पुरंदरादप्यहं न बिभेमि, किं पुनर्महोदरात् , किं विलम्बते, यात्वयमिदानीमेव गुह्यकः, शक्नोति यदि न रक्षितुं गुह्यम् , आवेदयतु शतगुणीकृत्य ताभ्यो मद्भाषितमिदम्, ता अपि सपनीबहुमाननिशमनोत्पन्नमत्सराः कुप्यन्तु कामं पुत्रकाम्यन्त्यः, किं मे करिष्यन्ति कुपिता अपि, मया नैव ता प्रसादनीयाः, त्वयि कृतप्रसादायामिदानीमपगता मे तदीयचिन्ता, यथा मदिरावत्यास्तथा तासामपि त्वया पुत्रा जनयितव्याः, एवं च तत्कृता कदर्थना मे नास्ति, वृथैव मां भगवती अनि तवृत्तान्तव्याहाराद् वारणीयः, तेन तु महोदरेण तु, ईदृशेषु एवंविधेष्वपि, अविस्पष्टाथै केवपीत्यर्थः, त्वद्वाक्येष्विति शेषः, ष्टिना परमसूक्ष्मदृष्टिशालिना, भवता गोपितोऽपि संतोऽपि, तात्पर्यार्थः भावार्थः, गाढम् अत्यन्त यथा स्यात् तथा, अवगाढः आलोडितः, ज्ञात इति यावत् । च पुनः, निष्कारणापकारी अकारणविद्वेषी, एष जाल्मः मीक्ष्यकारी, केनापि केनचित्, प्रकारेण रूपेण, नियतम अवश्यम्, कथयिष्यति निवेदयिष्यति. "जाल्मोऽसमीक्ष्यकारी स्यात्" इत्यमरः, च पुनः, प्रकृतिकलिप्रियतया प्रकृत्या-खभावेन, कलिः-कलहः, प्रियः-प्रीतिविषयो यस्य तादृशतया, ताः अन्याराज्ञीः, कोपयिष्यति क्रोधयिष्यति । एवम् उक्तप्रकारेण, बुद्धिकौशलेन बुद्धिचातुर्येण, कामम् अत्यन्तम् , रक्षितमपि वारितमपि, अप्रतिविधेयम् अप्रतिकार्यम् , तव, व्यसनं कष्टम् , बलात् हठात् , आगतम् उपनतम्, इति इत्थम् , उक्त्वा कथयित्वा, विरराम विरता, लक्ष्मीदेवीति शेषः [न]। क्षितीशोऽपि मेघवाहनोऽपि, श्रियः लक्ष्म्याः , प्रसादातिशयशंसिना प्रसन्नताऽतिशयद्योतकेन, तेन अनुपदमभिहितेन, परिहासवादेन विनोदवाक्येन, द्विगुणतरोपजातसम्मदः द्विगुणतरः-पूर्वापेक्षयाऽतिद्विगुणः, उपजातःउत्पन्नः, सम्मदः-प्रमोदो यस्य तादृशः सन् , मन्दं किञ्चित् , स्मित्वा हसित्वा, अवदत् उक्तवान् , किमित्याह-देवि! भगवति ।, प्राञ्जलोक्त्या सरलयोक्त्या, कृतं प्रार्थनं विहिता प्रार्थना, अतिव्रीडाकरम् अतिलज्जाजनकम् , इति मन्यमानेन विचारयता मया , ईदृशी उतप्रकारा, इयम् उक्तपूर्वा, वचनयुक्तिः वाक्यरचना, प्रयुक्ता कृता, न तु भयेन अन्यराज्ञीकोपभयेन । हि निश्चयेन, प्रसादपरया प्रसन्नतानिरतया, त्वया भवत्या, सम्प्रति अधुना, स्वीकारः प्रार्थितवरदानाशीकारः कृतः । अहं पुरन्दरादपि न बिमेमि भयं करोमि, महोदरात् तन्नामकयक्षात, पुनः किम्, नैवेत्यर्थः, किं किमर्थ, विलम्बते विलम्ब करोति, वृथैव विलम्ब इति भावः । अयं पुरोवती, गुह्यकः यक्षः, इदानीम् अधुनैव, यातु गच्छतु, गुह्यं प्रकृतरहस्यम् , रक्षितुं गोपयितुम् , यदि न शक्नोति प्रभवति, तर्हि इदं कथितपूर्वम् , मद्भाषितं मदचनम् , शतगुणीकृत्य शतगुणं कल्पयित्वा, ताभ्यः अन्यराज्ञीभ्यः, आवेदयतु विज्ञापयतु, सपत्नी. बहमाननिशमनोत्पन्नमत्सराः सपन्या:-मदिरावत्याः, बहुमानस्य-पुत्रवराभ्यर्थनद्वारा अधिकाऽऽदरस्य, निशमनेनश्रवणेन, उत्पन्नः, मत्सरः-द्वषो यासां तादृश्यः, ता अपि राज्योऽपि, पुत्रकाम्यन्त्यः आत्मनः पुत्रमिन्छन्त्यः, काम बाढं, कुप्यन्तु क्रुध्यन्तु । कुपिता अपि कुद्धा अपि, मे मम, किम् अनिष्टं करिष्यति, न किमपीयर्थः । मया मेघवाहनेन, ताः राश्यः, नैव प्रसादनीयाः अनुकूलयितव्याः । त्वयि लक्ष्मीदेव्यां, कृतप्रसादायां प्रसादमापन्नायां, मे मम, तदीयचिन्ता तत्प्रसादचिन्ता, इदानीं अधुना, अपगता नष्टा । यथा येन प्रकारेण, मदिरावत्या:-तन्नामकराश्याः, तथा तेन प्रकारेण, तासामपि अन्यासामपि राजीनाम् , त्वया पुत्रःजनयितव्यः प्रादुर्भावयितव्यः । एवं च अनयारीत्या च, तत्कृता अन्यराज्ञीकर्तृका, कदर्थना पीडा, मे मम, नास्ति नैव स्यात् , भगवती त्वं, वृथैव परिहासेनैव, मांभीषयते भयमनुभाव

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196