Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 192
________________ टिप्पनक-परागविवृतिसंपलिता प्रकल्पितं कुशतरूपमगात् । निषण्णस्य चास्य संजातपरमनिर्वृतेरतीतमनुष्यभावमिव देवभूयं गतमिष सर्वलोकविलक्षणतामापन्नमिवाणिमादिगुणाधिष्ठितमिव भुवनत्रयसृष्टिसंहारक्रियाक्षममिव देवताकृतबहुमानमात्मानं मन्यमानस्य, क्षणं शक्रावतारगमनमुत्प्रेक्षमाणस्य, क्षणं ज्वलनप्रभस्य रूपसंपदं निरूपयतः, क्षणमुत्सृष्टदिव्यताभिमानमधुराणि तदाभाषणवचांसि चिन्तयतः, क्षणमिन्द्रसदसि नाकिभिः प्रस्तुतामात्मगुणस्तुति हृदयेनावर्तयतः, क्षणं शक्रावतारायतनलब्धस्य मुक्ताफलहारस्य प्रभावमद्भुतं भावयतः, झणमात्मनः कण्ठच्छेदकर्मणि कठोराशयतां विमृशतः, क्षणमादरव्यापारितासेः स्वभुजदण्डस्य सर्वशक्तिविघातमकाण्ड एव जातमालोचयतः, क्षणमग्रतः सहसैव दर्शितनिजदिव्यरूपां राजलक्ष्मी ध्यायतः, क्षणं तस्याः प्रकटितप्रसादातिरेकस्पृहणीयानि श्रवणामृतस्यन्दीनि जन्मफलभूतानि जल्पितानि स्मरतो विस्मयमयीव कौतुकमयीवाश्चर्यमयीव प्रमोदमयीव क्रीडामयीवोत्सवमयीव निर्वृतिमयीव धृतिमयीव हासमयीव सा विभावरी विराममभजत [म]। टिप्पनकम्-[विस्मयमयीव कौतुकमयीव आश्चर्यमयीव-] विस्मयः-असम्भावनागर्भमतिपत्तिः, विकारावलोकनबुद्धिः-कौतुकम्, भसम्भाव्यं सम्भावित संजातम्-आश्चर्यम्, इत्येष भेद एषामिति केचित् , मन्ये तु कियझेदापेक्षया भेदेनाभिधानम् [म]। निहितमिति यावत् , कुशतल्पं कुशशय्याम् , अगात् उपाविक्षत् । निषण्णस्य तत्रोपविष्टस्य, जातपरमनिवृतेः उत्पन्नास्यन्तसुखस्य, अस्य मेघवाहनस्य, च तु, सा विभावरी रात्रिः, विरामं समाप्तिम् , अभजत् प्रापदित्यनेन वक्ष्यमाणेनान्वेति । किं कुर्वतः? देवताकृतबहुमानं देवीकृताधिकादरम्, आत्मानं खम्, अतीतमनुष्यभावमिव अतीतःनिवृत्तः, मनुष्यभावः-मनुष्यत्वं यस्य तमिव, अत एव देवभूयं गतमिव देवत्वमापन्नमिव, सर्वलोकविलक्षणतां सकल. लोकोत्तरताम् , आपन्नं प्राप्तमिव, अतः अणिमादिगुणाधिष्ठितमिव अणिमाद्यैश्वर्यसम्पन्नमिव, अतः भुवनत्रयसृष्टिसंहारक्रियाक्षममिव भुवनत्रयस्य-वर्गादिलोकत्रयस्य, सृष्टि-संहारक्रिययोः-उत्पादन-विध्वंसनकार्ययोः, क्षम-समर्थमिव, मन्यमानस्य जानानस्य । पुनः क्षणं मुहूर्तम् , शक्रावतारगमनं तदाख्यतीर्थप्रस्थानम् , उत्प्रेक्षमाणस्य संकल्पमानस्य, पुनःक्षणं मुहूर्तम् ,ज्वलनप्रभस्य तदाख्यदेवविशेषस्य, रूपसम्पदंकान्तिसम्पदम् , निरूपयतः आलोचयतः, पुनःक्षणं मुहूर्तम् , उत्सृष्टदिव्यताभिमानमधुराणि उत्सृष्टेन-उज्झितेन, दिव्यताभिमानेन-देवत्वाभिमानेन, तद्राहिलेनेत्यथैः, मधुराणि-श्रवणाऽऽखाद्यानि, तदाभाषणवचांसि तदालापात्मकवचनानि, चिन्तयतः स्मरतः। पुनः क्षणं मुहूर्तम् , इन्द्रसदसि इन्द्रसभायाम् , नाकिभिः देवः, प्रस्तुतां प्रकृताम् , आत्मस्तुर्ति खकीयगुणगाथाम् , हृदयेन मनसा, माधर्तयतः खयमेव पुनः पठतः। पुनः क्षणं मुहूर्तम् , शक्रावतारायतनलब्धस्य शकावतारमन्दिरप्राप्तस्य, मुक्ताफलहारस्य चन्द्रातपाख्यदिव्यमुक्तामणिमयमाल्यस्य, अद्भुतम् आश्चर्यावहम् ,प्रभावं माहात्म्यम् ,भावयतः विचारयतः। पुनः क्षणं मुहूर्तम् , आत्मनःखस्य, कण्ठच्छेदकर्मणि खकण्ठकर्तनकार्ये, कठोराशयतां निष्ठुरहृदयताम्, विमृशतः विचारयतः । पुनः क्षणं मुहूर्तम् , आदरव्यापारितासे आदरेग-प्रयोजनापेक्षया, व्यापारितः-उद्यतः, असिः-खतो येन ताह. शास्स, खभुजदण्डस्य खबाहुरूपदण्डस्म, अकाण्ड एव अनवसर एव, अकस्मादेवेत्यर्थः, जातम् उत्पन्नम् , सर्वशक्तिविघातम् अशेषसामर्थ्यक्षयम्, आलोचयतः विचारपतः । पुनः क्षणं मुहूर्तम् , सहसैव शीघ्रमेव, अप्रतः भने, सम्मुख इत्यर्थः, दर्शितनिजदिव्यरूपां दर्शितम्-आविष्कृतम् , निज-खकीयम् , दिव्यम्-उत्तमम्, रूपं यया ताहशीम् , राजलक्ष्मी राजोपास्यदेवीम् , भ्यायतः भावयतः । पुनः क्षणं मुहर्तम्, प्रकटितप्रसादातिरेकस्पृहणीयानि प्रकटितेन-प्रकाशितेन, प्रसादातिरेकेण-खसम्मलातिषायेन, स्पृहणीयानि-मनोहारीणि, पुनः श्रवणामृतस्यन्दीनि श्रवगमो:-कर्णयोः, ममतस्पन्दीनि-अमृतसेचीनि, पुनः जन्मफलभूतानि जम्मनः-खकीयोत्पतेः, फलभूतानि-फलस्वरूपाणि, तस्याः देव्याः, जल्पितानि भाषितानि, स्मरतः विचिन्तयतः । कीडशीव निशा ! विस्मयमयीव मावर्थमपीव, पुना कौतुकमयीय चमत्कारमयीव, पुनः आर्यमयीव आकस्मिकापूर्वमयीव, पुनः प्रमोदमयीव भानन्दमयीक, पुनः भीडामयीव विलासमयीन, पुनः उत्सवमयीव भानन्दायहम्यापारमयीव, पुनः निर्वृतिमयीव निरतिमायानन्दमयीय, पुनः धृतिमयीव अन्तःसन्तोषमयीव, पुनः हासमयीव हासपूर्णेव, भत्र सर्वत्राप्युत्प्रेक्षा [म]।

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196