Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 184
________________ १४८ टिप्पनक-परागविवृतिसंवलिता अथाधुवाधिगतविद्याधरेन्द्रभावः संकल्पानन्तरोपनतमनल्पवातायनसहस्रालंकृतममलचीनांशुकवितानलम्बमानमुग्धमौक्तिकप्रालम्बमनिलदोलायमानद्वारबन्दनमालाप्रवालमुपहारकुसुमसौरभान्धमधुकरझङ्कारमुखरमणिकुट्टिमं विमानमधिरुह्य विदग्धवल्लभाप्तसुहृत्कदम्बकानुयातो विलोकयन् विविधान्याश्चर्याणि सशैलद्वीपकाननामुदधिमर्यादा मेदिनी पर्यटसि ? [त] । अथ मदीयप्रार्थनामुदितपुरन्दरानुमोदितेन भरतमुनिना स्वयमागत्य सूत्रितमनाहतध्वनन्मेघमुरजमनोहरमेकदेशोपविष्टतुम्बुरुताड्यमानवीणारणगान्धारग्राममागृहीतवेणुकिन्नरगणोप टिप्पनकम्-चन्द्रशाला-शिरोगृहम् [थ ] । हरिचन्दनलतागृहाणा-देववृक्षविशेषमण्डपानाम्, उदरेषु-मध्यभागेषु, प्रसुप्ताभिः- गाढनिद्रिताभिः, सुरतखिन्नाभिः-मैथुनश्रान्ताभिः, सुरवनिताभिः-देवाङ्गनाभिः, अनिनन्द्यमानाः-स्तूयमानाः, मन्दानिलानीताः-मन्दानिलेन-मन्दपवनेन, आनीता:-- आहृताः, शीतलसुधाकुण्डानां-शीतामृताशयानाम् , शीकरा:-कणाः, येषु तादृशेषु [ण ] । अथ अधुनैव सद्य एय, अधिगतविद्याधरेन्द्रभाषः अधिगतः-प्राप्तः, विद्याधरेन्द्रभावः-विद्याधराधिपत्यं येन तादृशः, त्वमिति शेषः, संकल्पानन्तरोपनतं संकल्पानन्तरं-कामनाव्यवहितोत्तरक्षणे, उपनतं-स्वयमुपस्थितम् , पुनः अनल्पवातायनसहस्रालङ्कतम् अनल्पाना-विविधानाम् , वातायनानां-गवाक्षाणाम् , सहस्रेण अलङ्कतं-विभूषितम् , पुनः अमलचीनांशुकवितानलम्बमानमुग्धमौक्तिकप्रालम्बम् अमला:-स्वच्छाः, ये चीनांशुक्रवितानाः-चीनदेशोद्भवसूक्ष्मवत्रनिमिता वितानाः-उल्लोचाः, तेषु लम्बमानानि-अवनमन्ति, मुग्धाना-मनोहराणाम् , मौक्तिकानाम्, प्रालम्बानिमाल्यानि यस्मिंस्तादृशम् , पुनः अनिलदोलायमानद्वारवन्दनमालाप्रवालम् अनिलेन-चायुना, दोलायमानानिव्याधूयमानानि, द्वारवन्दनमालायाः-द्वारस्य सम्बन्धिन्याः, वन्दनमालायाः-माङ्गल्यमालायाः, प्रवालानि-पल्लवानि यस्मिंस्तादृशम् , पुनः उपहारकुसुमसौरभान्धमधुकरझङ्कारमुखरमणिकुट्टिमम् उपहारभूतानां-लोकैरुपहृतानाम्, कुसु. मानाम् , सौरमेण-सौगन्ध्येन, अन्धाः-अन्धीभूताः, व्यामोहिता इति यावत् ,ये मधुकरा:-भ्रमराः, तेषां झङ्कारेण-ध्वनिना, गुजितेनेति यावत् , मुखरं-शब्दायमानम् , मणिकुटिम-मणिबद्धभूमियस्मिंस्तादृशम् , विमानं व्योमयानम् , अधिरुह्य आरुह्य, विदग्धवल्लुभानां चतुर प्रेयसीनाम्, आप्तसुहृदां विश्वस्त मित्राणां च, कदम्बेन समूहेन, अनुयातः अनुसृतः, सहित इति यावत् , विविधानि अनेकविधानि, आश्चर्याणि अद्भुतानि वस्तूनि कार्याणि वा, विलोकयन् कौतुकेन पश्यन् , सशैलद्वीपकाननां शैलैः--पर्वतैः, द्वीपैः-जलमध्यवर्तिप्रदेशः, काननैः वनैश्च, सहिताम् , मेदिनीं पृथिवीम् , पर्यटसि . वर्तमानसमीपे विहरिष्यसि किम् ? [त]। अथ किं वा, उन्नतप्रासाद शिखरचन्द्रशालायाम् उन्नतस्य-गगनचुम्बिनः, प्रासादस्य-राजमन्दिरस्य, शिखरे शृङ्गे, या चन्द्रशाला--शिरोगृहं तत्र, “चन्द्र शाला शिरोगृहम्" इत्यमरः, रचितरङ्गभूमिः रचिता-कल्पिता, रणभूमिः नाव्यशालास्थानं येन तादृशः सन् , अवसरेषु नाट्यदर्शनावसरेषु, द्रष्टुं नाट्यदर्शनार्थम्, आगतानाम् उपस्थितानाम् , अष्टादशद्वीपमेदिनीपतीनाम् अष्टादशद्वीपसम्बन्धिना मेदिनीपतीना-नृपतीनाम् , तादृश. नृपतीनित्यर्थः, षष्ठ्याः सम्बन्धसामान्यार्थकत्वात् , दिव्यं खर्गीयं मनोहरं वा, प्रेक्षाविधिं नाट्यविधिम् , दर्शयसि वर्तमानसमीपे दर्शयिष्यसि ?, कीदृशं तम् ? मदीयप्रार्थनामुदितपुरन्दरानुमोदितेन मदीयया प्रार्थनया-भरतमुनिप्रेक्षणाभ्यर्थनया, मुदितेन प्रसन्नेन, पुरन्दरेण-इन्द्रेण, अनुमोदितेन-अनुमतेन, भरतमुनिना तदाख्यनाट्याचार्यवर्येण, स्वयं खेनैव, आगत्य मर्त्यलोकमवतीय, सूत्रितं प्रवर्तितम् , पुनः अनाहतध्वनन्मेघमुरजमनोहरम् अनाहताः- अताडिता एव ध्वनन्तो ये मेघमुरजाः-मेघनादा मुरजा मृदङ्गाः, तैमनोहरं रम्यम्; पुनः एकदेशोपविष्टतम्बुरुताड्यमानवीणारणद्वान्धारग्रामम् एकदेशे-नाट्यशालककोणे, उपविष्टे:-आसितैः तुम्बुरुभिः-गन्धर्वविशेषः ताड्यमानाभि:-अभिहन्यमानाभिः, वीणाभिः, रणन्तो-ध्वनन्तौ, गान्धारग्रामो-गान्धारो रागविशेषः, ग्राम.- स्वरसन्दोहः, तो यस्मिंस्तादृशम् ; पुनः आगृहीत वेणुकिन्नरगणोपगीयमान विबुधसद्मप्रसिद्धमूर्छनम् आ-समन्ताद्, गृहीताः-धृताः, वेणवः-वंशीसंज्ञकवाद्यविशेषा येन तादृशेन, किन्नरगणेन--दिव्यगायकजातीयगणेन, उपगीयमाना--गायनेनाभिव्यज्यमाना, विबुधसद्मप्रसिद्धा-स्वर्गलोकविश्रुता, मूच्छना-“स्वरः संमूच्छितो यत्र रागता प्रतिपद्यते। मूर्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम् ॥” इत्यभियुक्तजनपरि

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196