Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 183
________________ तिलकमञ्जरी। १४७ शायिना सत्त्वेन साहसेन धैर्येण चित्तौदार्येण प्रज्ञाविशेषेण पूजाविशेषेण निःशेषितप्रमादनिर्मलेन च व्रतचरणेन चन्द्रमण्डलमिव शिशिरात्ययेन, मानससरस्तोयमिवागस्योदयेन, सुकविकाव्यमिव सज्जनपरिग्रहेण, गगनतलमिव शरत्कालागमेन, सप्रसादमपि किमपि मे प्रसादितं हृदयम् [6]। आचक्ष्व कार्य विचक्षण!, किमद्य ते संपादयामि ? किं तावन्मदनुभावासादितदिव्यशक्तिः प्रत्यहमितो गत्वा गृहीतविकटप्रसाधनशुद्धान्तवनितावृन्दपरिवृतः कनकगिरिकन्दरप्रभानुलिप्तपादपेषु कल्पतरुतलनिषण्णकिन्नरारब्धगान्धारमामगीतिरमणीयेवितस्ततःप्रवृत्तमुखरमन्दाकिनीस्रोतःसरणिसिच्यमानबालपारिजातालवालकेषु सविभ्रमभ्राम्यदभ्रमूकलभकरावभज्यमानसंतानकसरसपल्लवेषु हरिचन्दनलतागृहोदरप्रसुप्तसुरतखिन्नसुरवनिताभिनन्द्यमानमन्दानिलानीतशीतलसुधाकुण्डशीकरेषु नन्दनवनाभ्यन्तरेषु सविस्मयत्रिदशबालिकावलोकितः क्रीडासुखमनुभवसि ? [ण] | टिप्पनकम्-अभ्रमू:-ऐरावणभार्या [ण ] ! अनेन अनुभूयमानेन, तव, सत्त्वेन पराकमेण, साहसेन दुष्करकर्मणा, धायेन वा, धैर्येण अकातरत्वेन, चित्तौदार्येण हृदयोदारभावेन, प्रक्षाविशेषेण प्रज्ञोत्कर्षेण, पूजाविशेषेण श्रद्धोत्कर्षेण, निःशेषितप्रमादनिर्मलेन निःशे. षितः-अनवशेषितः, यः प्रमादः-अनवधानम् , तेन निर्मलेन-विशुद्धेन, व्रतचरणेन नियमाचरणेन, सप्रसादमपि स्वतः प्रसन्नमपि, मे मम, हृदयं किमपि सातिशयम् , प्रसादितं प्रसन्नतामापादितम् । केन किमिव ? शिशिरात्ययेन शिशिरऋतोरपगमेन, वसन्तऋतोरागमनेनेति यावत्, चन्द्रमण्डलमिव, पुनः अगस्त्योदयेन अगस्त्याख्यनक्षत्रोद्गमेन, मानससरस्तोयमिव मानसाख्यसरोवरस्य जलमिव, पुनः सज्जनपरिग्रहेण प्रतिपादकतया सत्पुरुषसम्बन्धेन, सुकविकाव्यमिव रव, पुनः शरत्कालागमेन शरदृतुप्रादुभविन, गगनतलमिव आकाशमण्डलमिवेत्युपमामालालङ्कारः। हे विचक्षण ! प्राज्ञ ! अद्य, ते तव, त्वदभिवाञ्छितम् , किं कार्य कृयं, सम्पादयामि करोमि [6] आचक्ष्व कथय । तावदिति वाक्यालङ्कारे, मदनुभावात् मत्प्रभावात् , आसादितदिव्यशक्तिः प्राप्तालौकिकशक्तिः सन् , इतः अस्मालोकाद्, गत्वा, गृहीतविकटप्रसाधनशुद्धान्तवनितावृन्दपरिवृतः गृहीतानि, विकटानि-प्रकटानि, महोबलानीति यावत् , प्रसाधनानि-आभरणानि याभिस्तादृशीनाम्, शुद्धान्तबनितानाम्-अन्तःपुरस्त्रीणाम् , वृन्देन-मण्डलेन, परिवृतःपरिवेष्टितः, प्रत्यहं प्रतिदिनम् , नन्दनवनाभ्यन्तरेषु नन्दनाख्येन्द्रवनमध्येषु, सविस्मयत्रिदशबालिकावलोकित: सविस्मयं-साश्चयं यथा स्यात् तथा, त्रिदशबालिकाभिः-देवकन्यकाभिः, अवलोकितः-निरीक्षितः, त्वमिति शेषः, क्रीडासुखं विहारजन्यमानन्दम् , अनुभवसि अनुभविष्यसि किम् ?, कीदृशेषु नन्दनवनाभ्यन्तरेषु ? कनकगिरिकन्दरप्रभानुलिप्तपादपेषु कनकगिरेः-सुमेरुपर्वतस्य, ये कन्दरा:-गुहाः, तेषां प्रभाभि:-कान्तिभिः, अनुलिप्ताः-व्याप्ताः, पादपाः-वृक्षा येषु तादृशेषुः पुनः कल्पतरुतलनिषण्णकिन्नरारब्धगान्धारग्रामगीतिरमणीयेषु कल्पतरुतलेषु- कल्पवृक्षाधोभागेषु, निषण्णः-उपविष्टः, किन्नरैः-गायकदेवजातीयः. आरब्धा-प्रारब्धा, गान्धार:-गन्धानां समूहो गान्धम्, तत् इयर्ति-प्राप्नोतीत्यन्वर्थस्तदाख्यः "वायुः समुत्थितो नाभः कण्ठशीर्षसमाहतः । नानागन्धवहः पुण्यैर्गान्धारस्तेन हेतुना ॥" इत्यन्यत्रोकः खरविशेषो रागविशेषो वा, ग्रामो नाम-“यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा खराणां सन्दोहो ग्राम इत्यभिधी. यते ॥" इत्यन्यत्रोक्तः खरसन्दोहः, ताभ्यां या गीतिस्तया रमणीयेषु-मनोहरेषु पुनः इतस्ततःप्रवृत्तमुखरमन्दाकिनीस्रोतःसरणिसिच्यमानबालपारिजातालवालकेष इतस्ततः-यतस्ततः, प्रवृत्ता:-गजातो निगेताः, मुखरा:-शब्दायमानाः, या मन्दाकिन्या:-गङ्गासम्बन्धिन्यः; स्रोतः-प्रवाह एव, सरणिः-मार्गों यासां ताः स्रोतःसरणयः, नद्यः, क्षुद्रनद्य इति यावत् , ताभिः सिच्यमानानि आप्लाव्यमानानि, बालपारिजातानाम्-अभिनवोद्भिनदेवद्रुमविशेषाणाम् , आलवालानि-मूलरचितजलाधारस्थलानि येषु तादृशेषुः पुनः सविभ्रमभ्राम्यदभ्रमूकलभकरावभज्यमानसन्तानकसरसपल्लवेषु सविभ्रमं-सक्लिास यथा स्यात् तथा, भ्राम्यन्तः-विहरन्तः, ये अभ्रमूकलभाः--दिव्यहस्तिशिशवः, तेषां करैः-शुण्डादण्डैः, अवभज्यमानानि-छिद्यमानानि, सन्तानकानां देववृक्षविशेषाणाम्, सरसानि-रसवन्ति, पलवानि-नबदलानि येषु तादृशेषुः पुनः हरिचन्दनलतागृहोदरप्रसुप्तसुरतखिन्नसुरवनिताभिनन्धमानमन्दानिलानीतशीतलसुधाकुण्डशीकरेषु

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196