Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१४६
टिप्पनक-परागविवृतिसंवलिता स्वसामर्थ्यलाभो भवति भूयस्तथा प्रसीद, येनाहमनृणो भूत्वा निर्वाणमधिगच्छामि' [ड । देव्यपि श्रीस्तेन तस्यातिमात्रकष्टायामपि दशायामनुज्झितावष्टम्भेन वचसा जनितविस्मयाऽवलोक्य तद्वाक्यश्रवणभावितानामभ्यर्णवर्तिनीनां सखीनामानन्दपुलकितानि वारं वारमास्यकमलानि द्विगुणजातपक्षपाता प्रीतिविकसिततरङ्गायतापाङ्गस्य चक्षुषः क्षरता क्षीरधवलेनांशुविसरेण सुधारसेनेवाप्याययन्ती हिमजलेनेव सापयन्ती मलयजाङ्गरागेगेव लिम्पन्ती मालतीमुकुलदामभिरिवाच्छादयन्ती मूर्छागमविलुप्तसंज्ञं राज्ञो वपुः पुनरवादीत-'नरेन्द्र ! बाढमविदितमत्स्वरूपोऽसि, तेनैवं वदसि, सर्वदा सौम्यपरिजनपरिवाराहम् , न मे नक्तश्चराः संनिधावपि चरन्ति, दूरे भृत्यत्वम् । य एष विकृतवेषाकारधारी वेतालबुद्ध्याऽध्यवसितस्त्वया, नायं यातुधानः, प्रधानभूतो मत्प्रतीहाराणां महोदरो नाम यक्ष एषः, परीक्षितुमनेन सत्त्वमप्रतीक्षितमदीयागतिना झटित्यागत्य सत्याभासमिदमनेकप्रकारमात्मीयया दिव्यशक्तया विनिर्मितं मायाजालमखिलमपि ते प्रदर्शितम् , अतस्त्यज विषादम् , उत्सृज मृषागृहीतमिममात्मविग्रहस्य निग्रहविधावाग्रहम् , ब्रूहि चात्मनोऽमिलापम् । अनेन तव सर्वाति
टिप्पनकम् –निर्वाणं सुखम् [ड] । संवृत्तौ संजातो, तत् तस्मात् , अनयोः करयोः, भूयः पुनः, यथा स्वसामर्थ्यलाभः खशक्तिप्राप्तिः, भवति भवेत् , तथा तदर्थ प्रसीद अनुगृहाण, येन तदर्थत्वत्प्रसादेन, अहम् , अनृणः दानवाधिपयाचितार्थरूपाणाद् विमुक्तः, निर्वाणं सुखम् , अधिगच्छामि प्राप्नोमि [ड]। श्री लक्ष्मीः, देव्यपि, अतिमात्रकष्टायामपि अतिकष्ट वशायाम् अवस्थायाम् , मरणावस्थायामपीति यावत् , अनुज्झितावष्टम्भेन अनुज्झितः-अत्यक्तः, अवष्टम्भः-धैर्य येन तादृशेन, धैये द्योतकेनेत्यर्थः, वचसा वचनेन, जनितविस्मया जनितः-उत्पादितः, विस्मयः-आश्चर्य यस्यास्तादृशी, सवाक्यश्रवणभावितानां तद्वचनाकर्णनप्रसादितानाम्, अभ्यर्णवर्तिनीनां पार्श्ववर्तिनीनाम् , सखीनां सहचरीणाम् , आनन्दपलकितानि तदीयधैर्यदर्शनानन्दरोमाञ्चितानि, आस्यकमलानि मुखारविन्दानि, वारं वारम् अनेकवारम् , अवलोक्य द्विगुणजातपक्षपाता द्विगुणोत्पन्नतद्रक्षणाभिनिवेश सती, प्रीतिविकसिततरङ्गायतायाङ्गस्य प्रीत्याप्रेम्णा, विकसितः-विस्तृतः, तरङ्ग:-कान्तिप्रवाहो यस्य तादृशः, आयतः-दीर्घः, अपाङ्गः-नेत्रप्रान्तप्रदेशो यस्य तादृशस्य, चक्षुषः, क्षीरधवलेन दुग्धवच्छुभ्रेण,क्षरता प्रवहता. अंशुविसरेण किरणकलापेन, मूच्र्छागमविलुप्तसंझं मूछ गमेन-मूछों द्भवेन, विलुप्ता-नष्टा, संज्ञा-चैतन्यं यस्य तादृशम् , राक्षः मेघवाहन नृपतेः, वपुः शरीरम् , सुधारसेनेव अमृतरसेनेव, आप्याययन्ती उज्जीवयन्ती, हिमजलेनेव स्नापयन्ती आप्लावयन्ती, मलयजाकरागेणेव चन्दनद्रवेणेव, लिम्पन्ती लेपनं । कुर्वती, मालतीमुकुलदामभिरिव मालतीकुमलमालाभिरिव, मालतीकुसुमेति पाठे तत्कुसुममालाभिरिव, आच्छादयन्ती सती, पुनः, अवादीत् उक्तवती, किमित्याह--नरेन्द्र । बाढम् अत्यन्तम् , अविदितमत्स्वरूपोऽसि अविदितम्-अज्ञातम् , मत्स्वरूपं येन तादृशोऽसि, तेन हेतुना, एवम् अनेन प्रकारेण, वदसि राक्षसाधिपतेर्मत्परिवारत्वं कथयसि, सर्वदा सर्वकाले, अहं सौम्यपरिजनपरिवारा सौम्याः-सात्त्विकाः, ये परिजनाः-आत्मीयजनाः, त एव परिवाराःअनुचराः, सेवका इति यावत् , यस्यास्तादृशी, अस्मीति शेषः, नक्तश्चराः राक्षसास्तु, मे मम, सन्निधावपि निकटेऽपि, न चरन्ति गच्छन्ति, भृत्यत्वं तेषु मम सेवकत्वं तु दूरे, अस्त्विति शेषः। यः विकृतवेषाकारधारी बीभत्सवेषाकृतिमान् , एषः, वेतालबुद्धया अयं वेताल इति बुया, त्वया अध्यवसितः निश्चितः, अयं सोऽयम्, यातुधानः वेतालः, न, अस्तीति शेषः, किन्तु मत्प्रतीहाराणां मदीयद्वारपालानाम्, प्रधानभूतः अधिनायकभूतः, महोदरो नाम महोदरसंज्ञकः, यक्षः सौम्यदेवजातीयः, अप्रतीक्षितमदीयागतिना अप्रतीक्षिता-अनपेक्षिता, मदीया-मामिका, आगतिः-आगमनं येन ताशेन, मदागमनादर्वागेवेत्यर्थः, अनेन यक्षेण, सत्त्वं भवत्पराक्रमम् , परीक्षितुम् , झटिति शीघ्रम् , आगत्य उपस्थाय, आत्मीयया खकीयया, दिव्यशक्त्या अलौकिकशक्तया, विनिर्मितं प्रकल्पितम् , सत्याभासं सत्यवदवभासमानम्, वस्तुतोऽसत्यमिति यावत् , अनेकप्रकारं विविधप्रकारम् , अखिलमपि सर्वमपि, इदं प्रत्यक्षभूतम्, मायाजालम् इन्द्रजालम् , ते तव, प्रदर्शितं दृष्टिपथमवतारितम् । अतः तदसत्यत्वहेतोः, विषादं खेदम् , त्यज मुच्छ । आत्मविग्रहस्य खशरीरस्य, निग्रहविधौ हत्यात्मककार्ये, मृषा गृहीतं वृथैव कृतम् , इमम् , आग्रहम् अभिनिवेशम् , उत्सृज परित्यज । च पुनः, आत्मनः खस्य, अभिलाषं मनोरथम्, ब्रूहि कथय । सर्वातिशायिना सर्वोत्कृष्टेन,
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196