Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१४४
टिप्पनक-परागविकृतिसंवलिता कनकगौरपीनोद्भुरपयोधराभिः पद्मिनीभिरिव सचक्रवाकयुगलाभिर्नालानुकारिणः किरणकण्टकितान् वेत्रदण्डानुल्लासयन्तीभिरन्याभिरात्तसदृशसितनेपथ्याभिरादिभूपालकीर्तिभिरिव समीपवर्तिनीभिरमराङ्गनाभिः परिवृताम् [ ज], प्रदोषचन्द्रकलामिव विनिद्रकोकनदविनिवेशितकराम् [श ], सुप्रीवसेनामिव स्फुरत्तारनीलाङ्गदाम् [], गृहीतसर्वाङ्गीणप्रसाधनामप्येकाङ्गकल्पिताङ्गरागाम् [८], धीरतरवारिवासिनीमपि प्रकटितपृथुप्रतापां श्रियमपश्यत् [] ॥
टिप्पनकम्-विनिद्रकोकनदविनिवेशितकराम् विकसितपमारोपितहस्ताम् , अन्यत्र गतनिद्चक्रवाकनिक्षिप्त. कराम् [ झ] । स्फुरत्तारनीलाङ्गदाम् एकत्र चलत्तारनीलाङ्गदाभिधानवानरत्रयाम्, अन्यत्र दीप्यमानोज्वलमरकत. केयूराम् [अ] 1 गृहीतसर्वाङ्गीणप्रसाधनामपि या आत्तसकलदेहसम्बन्धिमण्डना सा कथं एकाङ्गकल्पिताङ्गरागा! अन्यत्र चन्दनकृतविलेपनाम् [2]। धीरतरवारिवासिनीमपि या गम्भीरतरजलवासिनी सा कथं प्रकटितपृथुप्रतापाप्रकाशितोपकृष्टतापा?
अतः धन्वन्तरिप्रहिताभिः धन्वन्तरिणा-"नारायणांशो भगवान् स्वयं धन्वन्तरिमहान् । पुरा समुदमथने समुत्तस्थौ महोदधेः" ॥ इत्यन्यत्रोपाख्यातोत्पत्तिकेन खर्वेद्येन, प्रहिताभिः-भगिनीत्वस्नेहेनोपहारविधया प्रेषिताभिः, शैलकटकौषधिभिरिव पर्वतनितम्बभागस्थितौषधीभिरिवेत्युत्प्रेक्षा; अपराभिः अन्याभिः, नालानुकारिणः मृणालदण्डसदृशान् , किरणकण्टाकितान् द्युतिरूपकण्टकाळीर्णान् , वेत्रदण्डान् वेत्रयष्टीः, उल्लासयन्तीभिः उद्यच्छन्तीभिः, कनकगौर. पीनोद्धरपयोधराभिः कनकवत्-सुवर्णवत् , गौरी, पीनौ स्थूलौ, उद्धरौ-उन्नती च, पयोधरौ यासां तादृशीभिः, अतः सचक्रवाकयुगलाभिः चक्रवाकाख्यपक्षिविशेषद्वन्द्वान्विताभिः, पद्मिनीभिरिव कमलिनीभिरिवेत्युत्प्रेक्षा, कमलिनी. रूपासु देवाङ्गनासु वेत्रदण्डस्य मृणालदण्डस्थानीयत्वं तदीयधुतीनां कण्टकस्थानीयत्वं पयोधरयोश्च चक्रवाकद्वन्द्वस्थानीयत्वं बोध्यम् ; अन्याभिः तदितराभिः, आत्तसशसितनेपथ्याभिः आत्तं-धृतम् , सदृशं-तुल्यम् , सितं-श्वेतम् , नेपथ्यंकृत्रिमरूपं याभिस्तादृशीभिः, अतः आदिभूपालकीर्तिभिरिव आदिभूपालानां-प्राचीननृपाणां कीर्तिभिरिवेत्युत्प्रेक्षा [ज]। पुनः कीदृशीम् ? प्रदोषचन्द्रकलामिव प्रदोषे-राज्यारम्भकाले, या चन्द्रकला चन्द्ररेखा, तामिव, विनिद्रकोकनदविनिवेशितकर विनिद्रे-विकसिते, कोकनदे-रक्तकमले, विनिवेशिता-विशेषेण निहतौ, करो-हस्ती यया तादृशीम् , पक्षे विशिष्टा, निद्रा-निमीलनं येषां तादृशेषु, संकुचितेष्वित्यर्थः, कोकनदेषु-रक्तकमलेषु, विनिवेशिताः-विक्षिप्ताः, करा:-किरणा यया तादृशीम् , अथवा विनिद्राः-प्रियाविश्लेषदुःखेन विगतनिद्राः, कोकाः-चक्रवाका येषु तादृशनदेषु, विनिवेशिताः-विक्षिप्ताः, करा:-किरणा यया तादृशीम् [झ] पुनः कीदृशीम् ? सुग्रीवसेनामिव सुग्रीवः-वानरजातीयविद्याधरविशेषः, तत्सम्बन्धिनी सेनामिव, स्फुरत्तारनीलाङ्गदां स्फुरन्ती-विभासमाने, तारे-मनोहरे, नीलादे-नीलमणिमयबाहुभूषणे यस्वास्तादृशीम् , पक्षे स्फुरन्तः-पराक्रमेणोज्वलन्तः, तारनीलाङ्गदाः-तारनामा नीलनामा अझदनामा च वानरो यस्यां तारशीम् [अ] । पुनः कीदृशीम् ? गृहीतसर्वाङ्गीणप्रसाधनामपि गृहीतं-धृतम् , सर्वाङ्गीण-सर्वाङ्गसम्बन्धि, प्रसाधनंमण्डनोपकरणभूतद्रव्यं यया तादृशीम, अपि, एकाङ्गकलिताङ्गरागाम एकाङ्के-एकस्मिन्नेवाजे, कल्पितः-रचितः, अङ्गराग:विलेपनं यया तादृशीमिति विरोधः, तदुद्धारे तु गृहीतसर्वाङ्गीणप्रसाधनां धृतसर्वाङ्गीणाभरणाम् , अथ च एकासएकस्मिन्-मुखरूपे अङ्गे, कल्पिताङ्गरागामिति व्याख्येयम् [-]। पुनः कीदृशीम् ? धीरतरवारिवासिनीमपि धीरतरम्अतिगम्भीरम् , यद् वारि जलम् , तत्र वास्तव्यामपि, प्रकटितपृथुप्रतापां प्रकटितः पृथु:-विपुलः प्रकृष्ट:-तीव्रः, तापो यस्यास्तादृशीमिति विरोधः, तदुद्धारे तु प्रथम विशेषणार्थः पूर्ववत्, यद्वा धीराणां-धर्यवतां जनानाम् , ये तरवारयः-कृपाणाःतद्वासिनीम् , तदाश्रयामिति यावत्, न तु कातराश्रयामित्यर्थः, द्वितीयविशेषणार्थस्तु प्रकटितः, पृथु:-प्रचुरः, प्रतापः-प्रभावो यस्यास्तादृशीम् [3]
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196