Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 179
________________ ३४३ तिलकमारी। रावणादिसहोदरोदन्तदानाय प्रहितया पारिजातदूत्येव स्निग्धसान्द्रया मन्दारमञ्जर्या समाश्रितकश्रवणाम् [], संक्षोभितसुरासुरलोकमलसवलितकोमलाङ्गुलिना वामकरतलेन कज्जलकूटकालं कालकूटमिव केशपाशं पुनः पुनः पृष्ठे बद्धुमामृशन्तीम् [च], शशिकलासंनिभललाटभित्तिना कौस्तुभाताम्रबिम्बाधरेण सुधाधवललोललोचनतरङ्गेण मदिरासुरभिनिःश्वासमारुतामोदेन वदनेन्दुना निजसहोदरसमाजमिव समुदितं दर्शयन्तीम् [छ], काभिश्चिदलसचलितश्वेतवालव्यजनाभिः क्षीरोददत्ताभिः परिवारापगाभिरिव निपतदुत्पतद्राजहंसाभिः काभिरपि करसंश्लिष्टयष्टिदीपिकाकिरणपटलपल्लवितदेहलावण्याभिः शैलकटकौषधीभिरिव धन्वन्तरिप्रहिताभिरपराभिः टिप्पनकम्-संक्षोभितसुरासुरलोकं त्रासितदेवदानवजनम् , कृतसादरदेवदानवं च [च]। सोदराः-लक्ष्मीदेव्याः समानोदर्याः, तेषामपि समुद्रोद्भूतत्वेन तत्सोदरत्वात् , तेषामुदन्तस्य-तदपहरणवार्तायाः, दानायकथनाय, प्रहितया प्रेषितया, पारिजातदूत्येव पारिजातस्य-तत्संज्ञकस्य देववृक्षस्य, दूल्या-वार्ताहारिण्या, इवेत्युत्प्रेक्षा, खिग्धसान्द्रया निग्धया-श्लक्ष्णया, सान्द्रया-निबिडया च, मन्दारमजा मन्दारस्य-तत्संज्ञकदेववृक्षस्य, मजर्या, • समाश्रितकश्रवणां समाश्रित-सम्यगधिष्ठितम् , एक श्रवणं-कर्णोपरिभागो यस्यास्तादृशीम् ? ऐरावतपारिजातमन्दारादिवृक्षलक्ष्म्यः क्षीरसागरोदरजाततया परस्परसोदरत्वस्नेहभाजः सन्ति, तेष्वैरावतादिक्रमिन्द्रो जहारेति खसोदरापहरणवाती निवेदयितुं पारिजातप्रेषिता मञ्जरीरूपा दूती लक्ष्म्याः कर्णोपरि स्थित्वा खनिलीनभ्रमरनिकरझाकारब्याजेन तद्वाती कथयतीवेत्युत्प्रेक्षा । "ऐरावतोऽभ्रमात.रावणाभ्रमुवल्लभाः" इति. “पचते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्" ॥ इति चामरः [ङ]। पुनः कीदृशीम् ? अलसवलितकोमलाङ्गुलिना अलसं-कोमलतातिशयेन मन्दं यथा स्यात् तथा, वलिताः-चलिताः, कोमलाङ्गुलयो यस्य तादृशेन, वामकरतलेन वामहस्ततलेन, कजलकूटकालं कलौघमिव कृष्णम् , केशपाशं केशकलापम् , पृष्ठे पश्चाद् भागे, पुनः पुनः अनेकवारम् , आमृशन्तीं संस्पृशन्तीम् , कमिव ? संक्षोभितसुरासुरलोकं संक्षोभितः-भयेन संभ्रमितः, प्रकृतपक्षे व्यामोहितः, सुरासुरलोकः-देवदैत्यजनो येन तादृशम्, का प्रमिव विषौघमिवेत्यत्प्रेक्षाचि11 पुनः कीदृशीम? वदनेन्दना स्वमुखचन्द्रेण, समदितं सम्मिलितम् , निजसहोदरसमा चन्द्रकौस्तुभादिखसहोदरगणम्, दर्शयन्तीमिव दृष्टिपथमुपस्थापयन्तीमिवेत्युत्प्रेक्षा, कथमिति तद्विशेषणमुखेन दर्शयितुं वदनेन्दु विशिनष्टि-शशिकलासन्निभललाटभित्तिनेति-शशिकलासभिभा-चन्द्रकलासदृशी, तदाकारेत्यर्थः, ललाटरूपा भित्तिर्यस्य तादृशेन, पुनः कौस्तुभाताम्रबिम्बाधरेण कौस्तुभो नाम “कौस्तुभस्तु महातेजाः कोटिसूर्यसमप्रभः” इत्यभियुक्तोक्तः समुद्रनिर्गतो मणिविशेषः, तद्वदाताम्रः-उज्वलरक्तवर्णः, बिम्बाधरः-बिम्बोटो यस्य तादृशेन, पुनः सुधाधवललोललोचनतरङ्गेण सुशधवला:-अमृतवच्छुभ्राः, लोललोचनयोः-चञ्चलचक्षुषोः, तरङ्गाःकान्तिप्रवाहा यस्य तादृशेन, पुनः मदिरासुरभिनिःश्वासमारुतामोदेन मदिरा-मद्यम् , तद्वत् सुरभिः-सुन्दरः, निःश्वासमारुतस्य-श्वासवायोः, आमोदः-गन्धो यत्र तादृशेन, शशि-कौस्तुभ-सुधा-मदिराणां क्षीरसागरान्निर्गमेन लक्ष्म्याः सोदरत्वेन स्नेहास्पदतया ललाटाद्युपमानविधया तत्संमेलनमुत्प्रेक्षितम् [छ] । पुनः कीदृशीम् ? कामिश्चित् कतिपयाभिः, समीपवर्तिनीभिः पार्थवर्तिनीभिः, सहचारिणीभिरिति यावत् , अमराङ्गनाभिः देवाशनाभिः, परिवृतां परिवेष्टिताम् , कीदशीभिः? अलसचलितश्वेतवालव्यजनाभिः अलसं-मन्दं मन्दं यथा स्यात् तथा, चलितानि-उत्क्षिप्तानि, श्वेतानिशुभ्राणि, वालव्यजनानि-व्यजन्ति विक्षिपन्ति लोकाः पवनमनेनेति व्यञ्जनम्, वालानां-चमर्याख्यभृगविशेषकेशानाम्, व्यअनमिति वालव्यजनम्, तानि, चामराणीत्यर्थः, याभिस्तादृशीभिः, अतः क्षीरोददत्ताभिः क्षीरसागरसमर्पिताभिः, निपतदुत्पतद्राजहंसरभिः निपतन्तः-नीचैगच्छन्तः, उत्पतन्तः-उच्चैर्गच्छन्तश्च, उच्छलन्तश्चेति यावत् , राजहंसा यासु तादृशीभिः, परिवाराऽऽपगाभिः परिवारभूताभिनंदीभिरिवेत्युत्प्रेक्षा, आपगास्थानीया देवाशनाः, ऊ धोभावेन तत्करोत्क्षिप्यमाणचामरमणि च निपतदुत्पतद्राजहंसश्रेणीस्थानीयानीति बोध्यम् ; काभिरपि कतिपयाभिः, करसंश्लिष्टयष्टिदीपिकाकिरणपटलपलवितदेहलावण्याभिः करेण-हस्तेन, संश्लिष्टाः-संगताः, धृता इति यावत्, यष्टयः-आधारदण्डा यासां ताहशीनाम् , दीपिकानाम्, किरणपटलेन-ज्योतिःपुझेन, पल्लवितं-समुपचितम् , देहलावण्यं-शरीरसौन्दर्य यासां तादृशीभिः,

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196