Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 177
________________ तिळकमञ्जरी । मत्सरादिवानिच्छतो मोक्कुमाच्छिद्य दक्षिणकरादितरेण पाणिना कृपाणं जग्राह । करविमुक्तमौलिबन्धनिरालम्बकन्धरे च छेदमार्गमिव सुखच्छेदाय विकटावकाशं कर्तुमधोमुखमवनते शिरसि निर्दयं व्यापारयितुमाहितप्रयत्नस्तत्कालमुल्लासितेन मन्दीकृताखिलेन्द्रियशक्तिना मूर्च्छागमेन विरलविलुप्त संज्ञः स्वप्न इवाकालजलधरध्वनिक्षुभितराजहंसीकुलकोलाहलध्वनि कलमविश्रान्तसंततिना रत्नवलयावलीशिञ्जितेन व्यञ्जितोत्ताल कर तलावधूननमतिश्रव्यतया सुधारसेनेव श्रवणविवर माध्मापयन्तमश्रुतपूर्वममरसुन्दरीजनस्य हाहारवमशृणोत् [ ए ] ॥ तद्नुसारप्रहितदृष्टिश्चाग्रतो नातिनिकटे झगिति दत्तदर्शनाम् [ ऐ], आक्रान्तदशदिशा शङ्खधवलेन देहप्रभाप्रवाहेण क्षीरसागरगतामिव विभाव्यमानाम् [ अ ], विततदलसहस्रफणावलयशोभिनि पृथुलदीर्घनाल १४१ गृहाधारभूतस्तम्भवत्, निश्चलाः- स्थिराः, या अङ्गुल्यः, ताभिर्गाढं यथा स्यात् तथा, गृहीतः धृतः, त्सरुः- मुष्टिर्यस्य तादृशम्, कृपाणं खङ्गम्, भत्सरादिव वामहस्तोत्कर्षविद्वेषादिव, मोक्तुं त्यक्तुम्, अनिच्छतः अकामयमानातू, दक्षिणकरात् दक्षिणहस्तात्, आच्छिद्य बलाद् गृहीत्वा, इतरेण दक्षिणेतरेण, वामेनेत्यर्थः, पाणिना हस्तेन, जग्राह गृहीतवान् । अमरसुन्दरीजनस्य देवाननाजनस्य, हाहारवं हाहाकारम्, अशृणोत् श्रुतवान् स राजेति शेषः कीदृशं तम् ! अकालजलधरध्वनिक्षुभितराजहंसीकुल कोलाहल ध्वनिकलम् अकाले - अनवसरे, प्रात्रुडन्यकाल इत्यर्थः, यो जलधरध्वनिःमेघध्वनिः, तेन क्षुभितं - सम्भ्रान्तम्, यद् राजहंस्री कुलं- राजहंसीवृन्दम्, तस्य यः कोलाहलध्वनिः - कलकलशब्दः, तद्वत् कलं मधुरम्, पुनः अविश्रान्तसन्ततिना अविश्रान्ता -अविरता, अविच्छिन्नेति यावत् सन्ततिः - धारा यस्य तादृशेन, रक्षवलयावलीशिञ्जितेन रत्नमयं यद् वलयं तत्संज्ञक प्रकोष्ठाभरणम्, तस्य या आवली - पङ्किः, तस्याः शिञ्जितेन --ध्वनिना, व्यञ्जितोत्तालकर तलावधूननं व्यञ्जितं सूचितम् उत्तालानाम् - उत्क्षिप्तप्रदेशानाम्, करतलानाम्, विधूननं - कम्पन यस्मिंस्तादृशम्, पुनः अतिश्रव्यतया अतिशयेन श्रोतुं योग्यतया, अतिमधुरतयेति यावत्, सुधारसेनेव अमृतरसेनेवेत्युत्प्रेक्षा, श्रवणविवरमपि कर्णबिलमपि, आध्मापयन्तं समन्ताद् नादयन्तम् पुनः अश्रुतपूर्व पूर्वमश्रुतप्रकारकम् । की हगसौ राजा ? शिरसि मस्तके, निर्दयं दयारहितं यथा स्यात् तथा व्यापारयितुं छेदने प्रवर्तयितुम्, कृपाणमिति शेषः, आहितप्रयत्नः कृतप्रयासः । कीदृशे शिरसि ? अधोमुखम् अधोदेशाभिमुखम्, अवनते नम्रतामापले, किमर्थम् ? सुखच्छेदाय अनायासच्छेदाय, छेदमार्ग छेदनस्थलम्, विकटावकाशं विकटः- विस्तीर्णः, अवकाशः - कृपाण निकषनस्थानं यस्य तादृशम्, प्रकटाव का शमित्यर्थः, कर्तुमिवेत्युत्प्रेक्षा, पुनः कीदृशे शिरसि ? करविमुक्त मौलिबन्ध निरालम्ब कन्धरे करेण-हस्तेन, विमुक्तः - त्यक्तः, यो मौलिबन्धः- शिरोगत केशपाशः, तेन निरालम्बा - आलम्बन रहिता, कन्धरा - प्रीवा यस्य तादृशे, च पुनः, कीहगसौ राजा ? विरलविलुप्तसंज्ञः विरलं- किश्चिद्, विलुप्ता-नष्ठा, संज्ञा - चैतन्यं यस्य तादृशः, केन ? मूर्छागमेन मूर्छागमनेन, मूर्खोद्भवेनेति यावत् कीदृशेन ? तत्कालं तत्क्षणम्, उल्लसितेन आविर्भूतेन, पुनः मन्दीकृताखिलेन्द्रियशक्किना मन्दीकृता-मान्यमापादिता, अखिलानां सर्वेषाम् इन्द्रियाणां शक्तिः - सामर्थ्य येन तादृशेन, अतः स्वप्न इव खप्तकाल इवेति ‘अशृणोत्' इत्यनेनान्वेति [ ए ] । च पुनः, तदनुसार प्रहितदृष्टिः तस्य दाहारवस्य, अनुसारेण - आभिमुख्येन हाहाशब्दोद्गमविभागाभिमुख्येनेत्यर्थः प्रहिता - प्रेरिता, दृष्टिः- चक्षुर्येन तादृशः, स राजेति शेषः, अग्रतः अत्रे, नातिनिकटे किश्चिनिकटे, झटिति शीघ्रम्, झगिति पाठे अकस्मादाविर्भावेन, तैजसवस्तुनोऽकस्मादाविर्भावेन तत्प्रसिद्धेः, वृत्तदर्शनां दत्तं कारितम्, दर्शनं--खावलोकनं यया तादृशीम्, श्रियं लक्ष्मीदेवीम् अपश्यत् दृष्टवान् [ ऐ] 1 कीडशीम् ! क्षीरसागरमतामिव क्षीरसागर स्थितामिव विभाव्यमानां प्रतीयमानाम्, केन ? आक्रान्तदशदिशा भाक्रान्ताः - व्याप्ताः, दश दिशो येन तादृशेन, पुनः शङ्खधवलेन शङ्खप्रभावच्छुत्रेण, देहप्रभाप्रवाहेण शरीरद्युतिप्रवाद्देण [ भो ] । पुनः कीदृशीम् ? पुण्डरीके श्वेतपद्मे, शेषभुजगे शेषनागे, मेदिनीं पृथिवीमिव कृतावस्थानां कृतस्थितिकाम, कीडशे तत्र ? विततदल सहस्रफणावलयशोभिनि विततानि - विस्तृतानि यानि दलानि - कमलपत्राणि तेषां यत् सहसं तदेव फणावलयं तेन शोभते यत्, तादृशे, पक्षे विततदलानीव याः सहस्रफणाः, तद्वलयेन - तन्मण्डलेन, शोभनश्रीके; पुनः पृथुलदीर्घनालभोगे पृथुलं-स्थूलम् दीर्घ च यन्नालं - मृणालदण्डः, तदेव पक्षे तदिव भोगः-शरीरं यस्म

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196