Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
विलकमञ्जरी। दक्षिणजानुपर्वणा सगर्वमास्फालितमणिकुट्टिमः शिरःकपालपलायनशङ्कयेव वामकरपल्लवेन कवलितोयबद्धमूजकपालस्तं कृतान्तकोपानलघूमदण्डानुकारिणं कृपाणमुज्झितकृपः स्कन्धपीठे न्यधापयत् [ल]। ___ अथ भीमकर्मावलोकनोद्भूतभीतिभिरिव स्थायिभिरपि शोकभयजुगुप्साप्रभृतिभिः परित्यक्तधीः, असाधारणधैर्यदर्शनादाहितब्रीडैरिव सात्त्विकैरपि स्वेदवैवर्ण्यवेपथुस्तम्भादिभिरपास्तसंनिधिः, अव्याजसाहसावर्जितमनोवृत्तिभिरिव व्यभिचारिभिरप्यमर्षमदहर्षगर्वोप्रतापुरःसरैरालिङ्गितः सर्वाङ्गेषु भावैः, वामेन विभ्रमदोलायमान
टिप्पनकम्-सात्विकैः असत्त्वभ्रसेन चरन्तीति सात्त्विकाः [ल]।
तथा, आवर्जितेन नमितेन, दक्षिणजानुपर्वणा दक्षिणजानुरूपप्रन्धिना, सगर्व साभिमानं यथा स्यात् तथा, आस्फालितमणिकुट्टिमः ताडितमणिबद्धभूमिः सन् , शिरःकपालपलायनशङ्कयेव शिरःकपालस्य-मस्तकाघटस्य, पलायनं-निर्गमनम् , तस्य शङ्कया-संशयेनेवेत्युत्प्रेक्षा, वामकरपल्लवेन वामहस्तरूपनवदलेन, कवलितोचंवद्धमूर्धजकलापः कवलितः-उद्गृहीतः, ऊर्ध्वबद्धानाम्-उपरि नियन्त्रितानाम् , मूर्धजाना-मस्तककेशानाम् , कलापः-समूहो येन तादृशः सन् , कृतान्तकोपानलधूमदण्डानुकारिणं कृतान्तस्य यमराजस्य, यः कोपानल:-क्रोधाग्निः, तस्य यो धूमदण्डःदण्डाकारधूमः, धूमरेखेत्यर्थः, तदनुकारिणं-तदनुकरणशीलम् , तत्तुल्याकारकमित्यर्थः, कृपाणं खड्गम् , उज्झितकृपः त्यक्तदयः सन् , स्कन्धपीठे स्कन्धफलके, न्यधापयत् अस्थापयत् [ल] ____ अथ स्कन्धे कृपाणस्थापनानन्तरम् , तत्क्षणं सद्यः, रमणीयभीषणं रमणीयं-सुन्दरम् , भीषणं-भयङ्कर च, रूपं स्वरूपम् , अधत्त धृतवान् , असौ राजेति शेषः । कीदृशः ? भीमकर्मावलोकनोद्भूतभीतिभिरिव भीमस्य-भयानकस्य, कर्मणः-खस्कन्धोपरि कृपाणस्थापनात्मकस्य, अवलोकनेन दर्शनेन, उद्भूता-उत्पन्ना, भीतिः-भयं येषां तादृशैरिवेति हेतूत्प्रेक्षा, स्थायिभिरपि स्थिरैरपि, शोक-भय-जुगुप्साप्रभृतिभिः शोकः-प्रियविश्लेषजन्यदुःखाकारान्तःकरणवृत्तिः, भयम्-अनिष्टसम्भावनाजन्यदुःखात्मिकाऽन्तःकरणवृत्तिः, जुगुप्सा-घृणात्मिकाऽन्तःकरणवृत्तिः, तत्प्रमृतिभिः, परित्यकधीः परित्यक्तावर्जिता, धी:-अन्तःकरणं यस्य तादृशः स्थायित्वे खाश्रयपरित्याग इति विरोधः, तदुद्धारस्तु स्थायिभिः रसविशेषे स्थायिभावभूतैरिति व्याख्यया बोध्यः, तेषु शोकः करुणरसे, भयं भयानकरसे, जुगुप्सा बीभत्सरसे स्थायिभावो भवतीति बोध्यम् । पुनः असाधारणधैर्यदर्शनादाहितबीडैरिव असाधारणस्य-परमोत्कृष्टस्य, धैर्यस्य-तदीयधीरतायाः, दर्शनाद् आहिताजनिता, व्रीडा-लजा येषां तादृशेरिवेति हेतूत्प्रेक्षा, सात्त्विकैरपि सत्त्वगुणसम्पन्नैरपि, सम्भ्रमशून्यैरपीत्यर्थः; खेद-वैवर्ण्यवेपथु-स्तम्भादिभिः खेदः-शोकादिकृतोऽङ्गसलिलस्यन्दः, वैवग्य-मुखादिमालिन्यम् , वेपथुः-भयादिजन्यकम्पः, स्तम्भःजुगुप्सादिजन्य इन्द्रियादिव्यापारनिरोधः, तत्प्रभृतिभिः, अपास्तसन्निधिः अपास्त:-त्यक्तः, सनिधिः-सामीप्यं यस्य तादृशः, सात्त्विकत्वे सम्भ्रमाद्ययोगादाश्रयत्याग इति विरोध आभासते, तदुद्धारे तु सात्त्विकैः सत्त्वोद्रेकजन्यै रसास्वादकालिकैरनुभावरूपैरित्ययों बोध्यः, स्वरवैषयेति पाठे खरस्य वैवय-शोकादिजन्यो ध्वनिभङ्गः, गद्गदत्वमिति यावत् , तेषु खेद वैवण्ये खरवैवर्ण्य वा शोकादेः, वेपथुर्भयस्य, स्तम्भो जुगुप्सादेः कार्यतया अनु पश्चाद् भवन्तीत्यर्थकानुभावपदव्यपदेश्याः कार्यविधया करुणादिरसानाखादयन्तीति साहित्यशास्त्रोक्तसरणिः, पुनः अव्याजसाहसावर्जितमनोवृत्तिभिरिव अव्याजेन-कपटरहितेन, वास्तविकेनेति यावत् , साहसेन-धाष्टर्थेन, आवर्जिता-आक्रान्ता, मनोवृत्तिर्येषां तादृशेरिवेति हेतृत्प्रेक्षा, "साहसं तु दमे दुष्करकर्मणि अविमृश्य कृतौ धाष्ट" इति हैमः, व्यभिचारिभिरपि सञ्चारिभिरपि, अनवश्यम्भाविभिरपीति यावत्, अमर्ष-मद-हर्ष-गर्वाग्रतापुरस्सरैः अमर्षः-असहनशीलता, मदः-अभिमानः, हर्षः-इष्टावाप्तिजन्य आनन्दः, गर्वः "ऐधर्य-रूप-तारुण्य-कुल-विद्याबलैरपि । इष्टलाभादिनाऽन्येषामवज्ञा गर्व ईरितः" ॥ इत्यभियुक्तोक्तावनाविशेषः, उग्रता-उज्वल. स्वभावता, तत्पुरस्सरैः-तत्प्रभूतिभिः, भावैः वस्तुभिः, सर्वाङ्गेषु सर्वावयनेषु, आलिक्षितः व्याप्तः, सञ्चरणशीलैरपि वस्तुभिः सर्वालिङ्गनमिति विरोधः, तदुद्धारे तु व्यभिचारिभिर्भावः व्यभिचरन्ति-वीरादिरसेषु नावश्यम्भवन्तीत्यर्थकव्यभिचारिभावपदेन साहित्यशास्त्रप्रसिद्धरित्यर्थः । पुनः कीदृगसौ राजा ? वामेन दक्षिणेन च श्रवणेन कर्णेन उद्भासमान: उद्दीप्यमानः, कीदृशेन वामेन ? सविभ्रमं विभ्रमेण-विलासेन सहितं यथा स्यात् तथा, दोलायमानम् इतस्तत आन्दोल्यमानम्,
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196