Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 174
________________ १३८ टिप्पनक-परागविवृतिसंवलिता प्रकोष्ठचलितपन्नगप्रतिसरेण समुपनिन्ये सव्येतरकरण [ऋ । क्षोणीपतिरप्यजातसंक्षोभः स्तिमितबद्धलक्ष्येण चक्षुषा चिरमवेक्ष्य तां सधीरमुवाच-'क्षपाचरेन्द्र ! दिव्यमायुधमिदं नाईति करस्पर्शमस्मद्विधानाम् , विधानेन महता धार्यमेतन्न यथाकथञ्चित्, अतस्तिष्ठतु तवैव हस्ते, त्वत्प्रयोजनमसावेव मे सर्वदा सविधवर्ती निर्वर्तयिष्यति निसर्गनिष्कपः कृपाणः' इति वदन्नेव सविधवर्तिनः कुशस्रस्तरस्य शिरसि तत्क्षणमेव निक्षिप्तमाक्षेपदूरविक्षिप्ताक्षवलयेन दक्षिणपाणिना जग्राह कृपाणम् । आमेचकांशुमिषविमुक्तपटुविषच्छटाभीणं च विचकर्ष संकर्षणानुज इव कलिन्दतनयातरङ्गात् कालियमिन्द्रनीलखण्डखचिताञ्चर्मकोशात् । निष्ठुरकराङ्गुष्ठतर्जनीकोटिमार्जितातितीक्ष्णश्लक्ष्णधारे च तत्र प्रसन्नधबलायतामायुधार्चिर्विषये च विकचविचकिलस्रग्बन्धुरां बबन्ध दृष्टिम् । आबद्धपरिकरश्च कृत्वा देवतायाः प्रणाममूर्ध्वधृतनिष्कम्पजक्वेन वामाक्षिणा तिर्यगावर्जितेन च टिप्पनकम्-प्रतिसरः- कङ्कणम् [ ऋ]। पूर्वभागो येन तादृशः सन् ; प्रकोष्ठचलितपन्नगप्रतिसरेण प्रकोष्ठे - कूपराधःप्रदेशे, चलिताः-पनगप्रतिसराः-सर्परूपहस्तकरणानि यस्मिंस्तादृशेन, सव्येतरकरेण दक्षिणहस्तेन, समुपनिन्ये समीपं प्रापितवान् , उपहारीकृतवानित्यर्थः [ऋ]| क्षोणीपतिरपि मेघवाहननामा पृथ्वीपतिरपि, अजातसंक्षोभः अनुत्पनभयसम्भ्रमः, स्तिमितबद्धलक्ष्येण स्तिमितेन-स्थैर्येण, बद्ध-सम्बद्धम् , लक्ष्य-दृश्यं येन तादृशेन, चक्षुषा नेत्रेण, तां कर्तिकाम् , चिरं दीर्घकालम् , अवेक्ष्य दृष्ट्वा, सधीरं धीरेण-गम्भीरेण खरेण, सहितं यथा स्यात् तथा, उवाच उक्तवान् , किमित्याह-क्षपाचरेन्द्र! दानवेन्द्र 1, दिव्यं दिवि-खर्गे, भवम् , देवसम्बन्धीत्यर्थः, इदं पुरोवर्ति, दीयमानमिति यावत् , आयुधम् अस्त्रम् , अस्मद्विधानाम् अस्मत्सदृशाना सामान्यजनानाम् , करस्पर्श हस्तसंयोगम्, न अर्हति तदयोग्यमित्यर्थः, महता विधानेन विधिना नियमेन. पतत आयुधम् , धार्य धारयितुं योग्यम् , यथाकथञ्चिद येन केनापि प्रकारेण. न. धार्यमिति शेषः । अतः अस्माद्धेतोः, तवैव त्वदीय एव हस्ते न त्वन्यदीय इत्यर्थः, तिष्ठतु अस्तु । सर्वदा सदैव, मे मम, सविधवर्ती निकटवर्ती सन् , निसर्गनिष्कृपः खभावतः क्रूरः, असौ कृपाणः खगः, त्वत्प्रयोजनं कपालार्पणरूपं प्रयोजनम्-इष्टम् , निर्वर्तयिष्यति सम्पादयिष्यति । इति इत्थम् , वदन्नेव, स राजेति शेषः, कुशप्रस्तरस्य दर्भमयकटस्य, शिरसि अग्रभागे, निक्षिप्तं स्थापितम् , कृपाणं कोशोपहितखड्गम् , आक्षेपदूरविक्षिप्ताक्षवलयेन आक्षेपेण-तिरस्कारेण, अवक्षिप्तं-दूरे विक्षिप्तम् , अक्षवलयं-जपमाला येन तादृशेन, दक्षिणपाणिना दक्षिणहस्तेन, जग्राह गृहीतवान् ; च पुनः, आमेचकांशुमिषविमुक्तपटुविषच्छटाभीषणम् आ-समन्तात् , मेचकांशूनां-श्यामकिरणानाम् , मिषेण-व्याजेन, विमुक्ताविकीर्णा, या पटुः-तीव्रा, विषच्छटा-विषच्छविः, तया भीषणं-भयङ्करं यथा स्यात् तथा, इन्द्रनीलखण्डखचितात् इन्द्रनीलसंज्ञकश्याममणिखण्डैः, खचितात्-व्याप्तात् , चर्मकोशात् चर्मभयकोशात् , विचकर्ष आकृष्य उद्धृतवान् , के कस्मात् क इव ? कालियं तन्नामकं सर्पम् , कलिन्दतनयातरङ्गात् कलिन्दस्य-पर्वतविशेषस्य, तनया-पुत्री यमुना, तस्यास्ततो निर्गमेन तत्पुत्रीत्वव्यपदेशात् , तस्याः, तरजातू-तरजसकाशात् , सङ्कर्षणानज इय सङ्कर्षणस्य-बलरामस्य, अनुजः-श्रीकृष्णचन्द्र इव । च पुनः, दृष्टिं नेत्रम् , वबन्ध बद्धवान् , स्थिरीचकारेत्यर्थः, क कीदृशीं दृष्टिम् ? निष्ठुर. कराङ्गुष्ठतर्जनीकोटिमार्जितातितीक्ष्णलक्षणधारे निष्ठुरस्य-कठोरस्य, करस्य-तदीयहस्तस्य, अनुश्रुतर्जन्योः कोटिभ्याम्-अग्रभागाभ्याम् , मार्जिता-विशोधिता, अतितीक्ष्णा, श्लक्ष्णा-स्निग्धा च, धारा यस्य तादृशे, तत्र तस्मिन् कृपाणे, प्रसन्नधवलायतां कृपाणानुगुण्येन प्रसना-स्वच्छाम् , धवलां-शुभ्राम् ,आयता-दीर्घा च, कृपाणाकारेण परिणतामिति यावत्, च पुनः श्रायुधाचावषये आयुधस्य-प्रकृतस्य कृराणस्य, यानि अचषि-किरणाः, तद्विषये-तत्सम्बन्धविचारणा यामू, विकचविचकिलस्रग्बन्धरा तरिकरणकलापानुगुण्येन विकचा-विक्रखरा, विच किलत्रक्-मल्लिकाकुसुममाला, तद्वदू बन्धुरामू-उन्नतानताम् , तत्तुल्याकारेण परिणतामिति यावत् । च पुनः, आबद्धपरिकर: आबद्धः-आ समन्ताद्, बद्धः-सम्पादितः, परिकरः-सुदृढगात्रबन्धो येन तादृशः सन् , देवताया:लक्ष्मीदेव्याः,प्रणामं प्रणामं कृत्वा, ऊवधृतनिष्कम्पजवेन कीम्-उपरि, धृता-धारिता, निष्कम्पा-निश्चला, जङ्घा येन तादृशेन, वामाद्रिणा वामचरणेन, तिर्यक्-कुदिलं यथा स्यात्

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196