Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 172
________________ २३६ टिप्पनक-परागविवृतिसंवलिता त्वया हि बहवः कृताः संग्रामाः, हताश्च संख्यातीताः क्षत्रियक्षोणीपतयः, तत्र येन कदाचिदपि नानुभूतो भङ्गः संगरेषु, न दर्शितं वैमुख्यमर्थिजनप्रार्थनासु, न कृतः प्रणामः प्राणसंशयेऽपि शत्रोः, तस्य भुवनत्रयश्लाघनीयचरितस्य नरपतेः प्रकृत्यैव पावनमतिप्रशस्तललितललाटलेखाक्षरमरूक्षच्छविच्छत्रसहशाकारमर्पय मे कपालकपरं प्रत्यग्रमेकम् , . यदपवर्जितैरसृग्भिः पुण्यासु कृष्णचतुर्दशीषु दुर्विनीतक्षत्रियनरेन्द्रनिहतस्य जनयितुर्जामदग्न्यमुनिरिव मुहुर्मुहुः करोमि तर्पणम्' [ऊ] । इति ब्रुवाणं च किश्चिद् विहस्य पुनरुवाच नक्तञ्चर नृपतिः-प्रेतनाथ ! नान्यथोदितं भवता, तथ्यमेवेदम् , कृताः शतकृत्वो मया संग्रामाः, हताश्च संख्यातीताः क्षत्रियक्षोणीपतयः, किं त्वनेकराजकार्यव्यापृततया कदाचिदकुर्वता दिव्यकार्यपर्यालोचनम् , अतीन्द्रियझानविकलतया स्वयमनावेदितम्, अजानता परेषां हृदयगतमर्थम् , अशृण्वता च युष्मद्विधानामन विषये कुतश्चिदप्यर्थित्वमुद्यमं च धर्मक्रियाकल्पविषयम् , अल्पमपि न कृतस्तत्कपालानां संग्रहः, तद्यदि नातिमात्रमवसीदति पितृप्रयोजनम् , अनभ्यर्णवर्ती वा पूर्वसूचितः पुण्यदिवसः, तत् प्रतीक्षस्व कतिचिदिनानि, यावत् कचित् तदवाप्तिर्भवति । अथ न सह्यः कालातिपातः, तदिदमेव मे स्वीकुरु शिरः, केवलं विलोकय, लाभः, सिद्धैव सम्पनैव, तावदिति वाक्यालङ्कारे, निराकुलः अव्यग्रः सन् , आस्व उपविश, केवलं किञ्चन किञ्चित् , याचे त्वां प्रार्थये, हि यतः, त्वया बहवः बहुतराः, संग्रामाः युद्धानि, कृताः विहिताः, च पुनः, संख्यातीताः असंख्याः, क्षत्रियक्षोणी णीपतयः क्षत्रियपृथ्वीपतयः, हताः मारिताः, तत्र हतक्षत्रियनृपेषु मध्ये, येन नृपेण, सङ्गरेष युद्धेषु, भङ्गः पराजयः, कदाचिदपि कस्मिंश्चिदपि काले, न अनुभूतः प्राप्तः, अर्थिजनप्रार्थनासु याचकजनयाच्यासु, तद्याच्यमानवस्तुवितरणे, वैमुख्यम् औदासीन्यम् , न दर्शितं प्रकटितम् , अपि तु यथाकामं समर्पितमित्यर्थः, प्राणसंशयेऽपि प्राणापायसन्देहेऽपि, शत्रोः प्रणामः खरक्षार्थ प्रणिपातः, न कृतः विहितः, तस्य तादृशस्य, भुवनत्रयश्लाघनीयचरितस्य भुवनत्रये-लोकत्रये, श्लाघनीयं-प्रशंसनीयम् , चरितं यस्य तादृशस्य, नरपतेः राज्ञः, एक प्रत्यग्रम् अभिनवम् उन्नतं वा, कपालकर्परं मूर्धन्यास्थिकटाहम् , मे मह्यम् , अर्पय देहि, कीदृशम् ? प्रकृत्यैव स्वभावत एव, पावनं पवित्रम् , पुनः अतिप्रशस्तललाटलेखाक्षरम् अतिप्रशस्तानि-अत्यन्तप्रशस्तानि, ललितानि-सुन्दराणि च, ललाटलेखाक्षराणि-ललाटरेखारूपाणि अक्षराणि यस्मिस्तादृशम् , पुनः अरूक्षच्छवि अरूक्षा-स्निग्धा, छवि:-कान्तिर्यस्य तादृशम् , पुनः छत्रसदृशाकारं छत्रसदृशवर्तुलाकारम् । यदपवर्जितैः येन कपालकर्परेण, अपवर्जितैः-गृहीतैः, असृम्भिः शोणितैः, पुण्यासु पवित्रासु, कृष्णचतुर्दशीषु, दुर्विनीतक्षत्रियनरेन्द्रनिहतस्य दुर्विनीतेन-दुष्टविनीतेन, मायाविनेत्यर्थः, क्षत्रियेण-तज्जातिकेन, नरेन्द्रेण-नृपेण, पक्षे मनुष्यश्रेष्ठेन मन्त्रवादिनेत्यर्थः, निहतस्य-मारितस्य, जनयितुः पितुः, जामदग्न्यमुनिरिव जमदग्नरपत्यं जामदग्न्यः परशुरामः, स चासौ मुनिरिव, मुहुर्मुहुः अनेकवारम् , तर्पणं तृप्तिजनक्रक्रियाम् , करोमि, [] | इति अनुपदोक्तम् , बुवाणं कथयन्तम् , नक्तश्चरं राक्षसम् , नृपतिः मेघवाहनः, किञ्चित् ईषत् , विहस्य हासं विधाय, पुनः पुनरपि, उवाच उक्तवान् । किमित्याह-प्रेतनाथ! वेतालाधिपते !, भवता त्वया, अन्यथा मिथ्या, न उदितम् उक्तम् , अपि तु इदं त्वदुक्तम् , तथ्यमेव सत्यमेव, मया शतकत्वः शतं वारान् , संग्रामाः युद्धानि, कृताः, च पुनः, संख्यातीताः असंख्येयाः, क्षत्रियक्षोणीपतयः क्षत्रियभूमिपतयः हताः व्यापादिताः, किन्तु अल्पमपि ईषदपि, तत्कपालानां क्षत्रियनृपकपालानाम् , संग्रहः सञ्चयः, न कृतः, कीदृशेन मया ? अनेकराजकार्यव्यापृततया अनेकानि-बहुनि, यानि राजकार्याणि तत्र व्याप्ततया- व्यासक्ततया, कदाचित् कस्मिंश्चित् काले, दिव्यकार्यपालोचनं दिव्यकार्यस्य-देवसम्बन्धिनस्तदुपयोगस्य, पर्यालोचनं-विचारम् , अकुर्वता; पुनः अतीन्द्रियज्ञानविकलतया अतीन्द्रियवस्तुविषयकज्ञानशून्यतया, स्वयं खेनैव, अनावेदितम् अनवगतम् , परेषां भवादृशामन्येषाम् , हृदयगतम् आन्तरिकम् , अर्थ प्रयोजनम्, अजानता अन्यद्वाराऽपि अनवगच्छता; च पुनः, अत्र अस्मिन् , पूर्वोक्तप्रकारके इति यावत् , विषये माराधनका, युष्मद्विधानां भवाइशानाम, भर्थित्वं याचकत्वम् च पुना, धर्मक्रियाकल्पविषयं धार्मिककार्यक्रम

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196