Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता मनःप्रसादयितुमचिरेण देव्याः, तदस्मदुपचारपूर्वमद्यप्रभृति सर्वमुपकल्पय क्रियाकल्पम् , अन्यथा वृथा
शो भविष्यति तवैष सेवावेशः' [111 इति वादिनस्तस्य वचनमनुवर्तमानो मेदिनीपतिर्विहस्य किछिसोपहासमवदत्- 'सर्वमुपपन्नमभिहितम् , उपदिष्टमक्लिष्टया युक्त्या, प्रबोधिता वयम् , यथा निदर्शितः सूक्ष्मदर्शिना तथैवैष सेवामार्गः, परिग्रहजने संनिधौ सति कोऽधिकारः प्रभूणामप्रपूजायाम् ? महती मूढता । गाढमविवेकविलसितम् , अप्रतिविधेया वैधेयतेयम् , यदस्माभिः सर्वसेव्यगुणसंपदुपेतं भवन्तमपहाय प्रमादादिदोषोपहतचित्तवृत्तिभिरियमप्रत एव देवता सेवितुमुपक्रान्ताः, कृतश्च पूजाविधेरकरणेन कियानप्यबहुमानः [ई] । अथवा जन्मनः प्रभृत्यकृतपरसेवानामत्र लवमात्रोऽपि नास्माकं दोषः, तवैव प्रमत्तताऽसौ, बजानतापि नीतिमार्गमादित एव नोपदिष्टोऽस्मभ्यमेष क्रमः, किमिदानी कुर्मः, प्रस्तुतमिदं कर्म, कृतश्च
टिप्पनकम्-वैधेयता मूर्खता [ई] । कल्पः अनुष्ठानम् [उ] ।
मनहासकारिणा विद्वज्जनकर्तृकोपहासप्रयोजकेन, निरवधिक्लेशैकफलेन निरवधिः-अवधिरहितः, क्लेश एव-आराधनापेक्षितकष्टमेव, एकं फलं यस्य तादृशेन, फल्गुना असारभूतेन, तुच्छेनेति यावत् , अनेन, सेवाप्रकारेण आराधनक्रमेण, मलं किमपि न प्रयोजनम् । यदि, स्फुटमेव स्पष्टमेव, निःसंकोचमेवेत्यर्थः, उत्कृष्टम् उत्तमम् , फलम् , ईप्ससि प्राप्तुमिच्छसि; पा अथवा, विघ्नविरहितजपध्यानादिकर्म निर्विघ्नजपादिक्रियाम् ; लिप्ससे लन्धु-सम्पादयितुमित्यर्थः, इन्छसि; वा अथवा, देव्याः लक्ष्म्याः , अचिरेण अविलम्बेन, मनः, प्रसादयितुं वरप्रदानोन्मुखीकर्तुम् , कामयसे वाञ्छसि; तत् तर्हि, अद्यप्रभृति अद्यारभ्य, अस्मदुपचारपूर्वकम् आस्माकीनपूजनपूर्वकम् , सर्व क्रियाकलापम् भाराधनक्रमम् , उपकल्पय प्रकल्पय, अन्यथा इत्थमकरणे, तव एष सेवाऽऽवेशः आराधकत्वाभिमानः, वृथा व्यर्थ एवं, क्लेशः क्लेशमात्रफलकः, भविष्यति [.] | इति अनया रीत्या, वादिनः प्रतिपादयितुः, तस्य वेतालस्य, वचनं वाक्यम् , अनुवर्तमानः अनुसरन् , मेदिनीपतिः मेघवाहननृपतिः, विहस्य हासं कृत्वा, किञ्चित् ईषत् , सोपहा. सम् उपहासपूर्वकम् , अवदत् उक्तवान् । सर्वम् , उपपन्नम् युक्तिपूर्णम् , अभिहितम् उक्तम् , त्वयेति शेषः । अक्लि. ध्या सरलया, युक्त्या उपपत्त्या, हितं हितकरं कर्म, उपदिष्टं कर्तव्यत्वेनावेदितम् , वयं प्रबोधिताः अनवधाननिद्रा. मुन्मोच्य जागारिताः, सावधानीकृता इत्यर्थः, सूक्ष्मदर्शिना तत्त्वदर्शिना, त्वयेति शेषः, यथा यादृशः, निदर्शितः पोधितः, तथैव तादृश एव, एष सेवामार्गः आराधनप्रकारः । परिग्रहजने अनुचरलोके, सन्निधौ. निकटस्थिते सति, प्रभूणां मुख्यदेवानाम् , अग्रपूजायां प्रथमपूजायाम् , कः अधिकारः ? कोऽपि नेत्यर्थः । महती अत्यन्ता, मूढता मूर्खता, ममेति शेषः. गाढम अत्यन्तम. अविवेकविलसितम अविचारविलासः, इयम्, वैधेयता जडता, अविवेकितेत्यर्थः, मप्रतिविधेया अप्रतिकार्या । यत् यस्माद्धेतोः, सर्वसेव्यगुणसम्पदुपेतं सर्वेषाम् , सेव्यगुणानाम्-उपास्योचितगुणानाम् , सम्पदा-आधिक्येन, उपेतं-युक्तम् , भवन्तं त्वाम् , अपहाय वर्जयित्वा, प्रमादादिदोषोपहतचित्तवृत्तिभिः प्रमादादिदोषैः-अनवधानादिदोषैः, उपहताः-दूषिताः, चित्तवृत्तयो मनोवृत्तयो येषां तादृशैः, अस्माभिः, अग्रत एव प्रथममेव, स्वत्सेवनात् पूर्वमेवेति यावत् , इयं लक्ष्मीः, देवता देवी, सेवितुम् उपासितुम् , उपक्रान्ता प्रारब्धा । च पुनः, पूजाविधेः आराधनप्रकारस्य, अकरणेन अननुष्ठानेन, कियानपि कतिपयोऽपि, अबहुमानः अपमानः, कृतः, तवेति शेषः [ई] । अथवा जन्मनः प्रभृति जन्मारभ्य, अकृतपरसेवानाम् अननुष्ठितान्यहीयाराधनानाम् , अस्माकम् , लषमात्रोऽपि लेशमात्रोऽपि, न, दोषः अपराधः, अस्तीति शेषः, तवैव प्रत्युत त्वदीयैव, असौ अनुपदोक्का, प्रमत्तता अनवधानता, यत् यस्मात् कारणात् , नीतिमार्ग नीतिरीतिम् , जानताऽपि अवगच्छताऽपि, त्वयेति शेषः, अस्मभ्यम् , मादित एव पूर्वत एव, एष क्रमः भाराधनाप्रकारः, न उपदिष्टः न आवेदितः । इदानीम् आराधनारम्भोत्तरकालेडसिन्, किं कुर्मः प्रतिकुर्मः, न किमपीत्यर्थः, इदम् आराधनात्मकम् , कर्म अनुष्ठानम् । प्रस्तुतम् आरब्धम् , मनति
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196