Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 169
________________ विककमञ्जरी। १३३ कारिणा हर्षाट्टहासेन जनितमतिमहत् कुतूहलं मे, कथय किमेतदसमञ्जसं हस्यते [अ], स जगाद-'राजन्! न किञ्चिदन्यत् , त्वदीयमेव चेष्टितम् , त्वया हि फलमभिलष्य किञ्चिदियमस्मत्स्वामिनी श्रीरनुदिवसमासेवितुमुपक्रान्ता, सेवकाश्च फलप्राप्तिकामाः प्रथममुपचारेण गृहीतवाक्यं परिग्रहलोकमावर्जयन्ति, ततस्तेन कृतपक्षपरिग्रहेण ग्राहितसम्बन्धाः प्रभूणामसक्तमात्मभक्तिमुपदर्शयन्ति, एष तावजगति दृश्यते व्यवहारः, त्वया तु विपरीतः प्रस्तुतोऽयं सेवाविधिः[आ], तथाहि----पनवस्त्रमाल्यानुलेपनालङ्कारादिभिः सततमेनां देवतामुपचरसि, यस्तु प्रणयपात्रमस्याः सर्वदा सविधवर्ती कार्यकर्ता जनोऽयं सर्वपरिजनप्राग्रहरस्तमाहारदानमात्रयाऽपि नामन्त्रयसे, मित्रीकृते हि मयि साधकानामभीष्टसिद्धिः; किमियमैश्वर्यमदनिश्चेतना वितन्यमानमतिमहान्तमपि त्वया पूजोपचारं पश्यति ? दृष्ट्वा च किं प्रकृतिचञ्चला चेतस्यवधारयति ? कृतावधारणाऽपि किमेकान्ततो वीरपुरुषसाहसाक्षिप्तहृदया पक्षपातं गृह्णाति ? गृहीतपक्षपातापि किमवज्ञया विपक्षीकृतेन मया कृतप्रतिबन्धा बन्नाति वरप्रदानाय बुद्धिम् ? तदलमबुद्धिपूर्वकेण बुधजनहासकारिणा निरवधिक्लेशैकफलेन फल्गुनानेन सेवाप्रकारेण; यदि स्फुटमेव फलमुत्कृष्टमीप्ससि, लिप्ससे वा विघ्नविरहितं जपध्यानादिकर्म, कामयसे वा टिप्पनकम्-प्राग्रहरः प्रधानः [आ] । व्याख्येयम् , शेषाणि विशेषणानि द्वयोरपि समानि किं किमर्थम् , एतत् एवम् , असमञ्जसं विचित्रम् , इस्यते, इति कथय ब्रूहि [अ] । स वेतालः, जगाद उक्तवान् , राजन् !, किञ्चित् किमपि, अन्यत् , न, हासकारणमिति शेषः, किन्तु. त्वदीयमेव तावकीनमेव, चेष्टितं चेष्टा, हि यतः, त्वया, किञ्चित् किमपि, फलम् , अभिलष्य उद्दिश्य, अस्मत्स्वामिनी अस्माकमधिपतिरुपदेवी, इयं श्री लक्ष्मीः, अनुदिवसं प्रतिदिनम् , आसेवितुम् आराधयितुम् , उपक्रान्ता आरब्धा । फलप्राप्तिकामाः फलाभिलाषिणः, सेवकाः आराधकाः, प्रथमं पूर्वम् , उपचारेण विनयेन, गृहीतवाक्यम् आइतवचनम् , परिग्रहलोकं पार्श्ववर्तिजनम् ; आवर्जयन्ति अनुकूलयन्ति, ततः तदनन्तरम् , कृतपक्षपरिग्रहेण कृतपक्षपातेन, तेन परिग्रहलोकेन, माहितसम्बन्धाः कारितसम्बन्धाः, सेक्का इति शेषः, प्रभूणां सेव्यानाम् , असक्तम् फलासङ्गरहितं यथा स्यात् तथा, आत्मभक्तिं खभक्तिम् , उपदर्शयन्ति प्रकटयन्ति, तावदिति वाक्यालकारे, एष ईदृश एव, जगति, व्यवहारः साङ्गस्यैवाधिष्ठातृदेवस्याराधनाचारः, दृश्यते, त्वया तु विपरीतः अङ्गं वर्जयित्वा अङ्गिन एवेत्यर्थः, सेवाविधिः आराधनाक्रमः, प्रस्तुतः प्रारब्धः [आ] ! तदेव वैपरीत्यमभिव्यनक्ति-तथाहीति । एनां लक्ष्मीदेवताम् , सपनवस्त्रमाल्यानुलेपनालङ्कारादिभिः सपनेन-अभिषेकेण, वस्त्रेण, माल्येन, अनुलेपनेन-चन्दनद्रवलेपनेन, अल रसि आराधयसि. परन्तु यस्त. अस्याः लक्ष्मीदेव्याः, प्रणयपात्रं स्नेहास्पदम् , सर्वदा, सविधर्ती पार्श्ववर्ती, कार्यकर्ता, सर्वपरिजनप्राग्रहरः सर्वेषु-समस्तेषु, परिजनेषु-परिवारेषु, प्राग्रहरः मुख्यः, अयं प्रत्यक्षवका, जनः, तम् , आहारदानमात्रयाऽपि केवलाहारदानलेशेनापि, न, आमन्त्रयसे सत्करोषि । हि यतः, मयि वेताले, मित्रीकृते बलिवितरणादिना मित्रत्वमापादिते सति, साधकानाम् आराधकानाम् , अभीष्टसिद्धिः अभिलषितफलप्राप्तिः, स्यादिति शेषः । ऐश्वर्यमदनिश्चेतना ऐश्वर्याभिमानविमूढा, इयं लक्ष्मीदेवी, त्वया, वितन्यमानं विस्तार्यमाणम् , अतिमहान्तमपि अत्यन्तप्रचुरमपि, पूजोपचार पूजोपकरणम् , किं पश्यति ? नेत्यर्थः । दृष्ट्वा च दृष्टिगोचरीकृत्यापि, प्रकृतिचञ्चला स्वभावतश्चपला, लक्ष्मीदेवीति शेषः, चेतसा मनसा, किम् अवधारयति ? गणयति ?, नेत्यर्थः । कृतावधारणाऽपि कृततद्गणनाऽपि, वीरपुरुषसाहसाक्षिप्तहृदया वीरपुरुषाणां-शूरजनानाम् , साहसेन-शौर्येण, माक्षिप्तं-प्रभावितम् आकृष्टं हृदयं यस्यास्तादृशी, एकान्ततः अवश्यम् , पक्षपातं साधकपक्षावलम्बनम् , किं गृकाति? करोति !, नेत्यर्थः । गृहीतपक्षपाताऽपि कृतपक्षग्रहणाऽपि सा देवी, अवक्षया त्वत्कृतानादरेण, विपक्षीकृतेन शत्रुत्वमापादितेन, मया कृतप्रतिबन्धा कृतः, प्रतिबन्धः-वरप्रदानावरोधो यस्यास्तादृशी सती, वरप्रदानाय इष्टार्थवितरणाय, बुद्धिम् अध्यवसायम् , किं बनाति ? करोति ?, नेत्यर्थः । तत् तस्माद्धेतोः, अबुद्धिपूर्वकेण अविवेकपूर्वकेण, दुष:

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196