Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 168
________________ टिप्पनक-परागविवृतिसंवलिता [स], आभरणभुजगैरपि ज्वलदुन्मयूखफणमणिभिरात्तप्रदीपैरिवावगाह्यमानकजलकालकायप्रभान्धतमसम् [ह], मांसेनापि खादनभीतेनेव सास्रेण परित्यक्तसर्वावयवम् [क्ष], अवयवानप्यस्थिसारानतिविकृतरूपदर्शनभयात् पलायितुकामानिव स्नायुप्रन्थिगाढनद्धान् दधानम् , आजानुलम्बमानशवशिरोमालमेकं वेतालम् [ज्ञ], तं च क्रमानुसारिण्या दृशा चरणयुगलादामस्तकं प्रत्यवयवमवलोक्य किञ्चित्कृतस्मितो नरपतिरुवाच'महात्मन् ? अनेन ते प्रवृद्धेन सहसाकाशसंनिभप्रभाभारभरितककुभा स्फुटोत्फुल्लनयननासापुटेन मुखप्रवृत्तसंततास्रस्रोतसा प्रकटितकरालदंष्ट्रामण्डलेन विदारितविकटसृक्कणा निकामभीषणश्रवणेन वपुषेव भुवनत्रयत्रास टिप्पनकम्-अस्त्रं- रुधिरं नयनवारि च [क्ष ] । सायुः- नशा [२] ॥ टिप्पनकम्-मुखप्रवृत्तसंतप्तास्रस्रोतसा एकत्र मुखे, अन्यत्र मुखात्, अस्त्रं- नेत्रवारि रुधिरं च । निकामभीषणश्रवणेन श्रवणौ-कर्णी, श्रवणम्-भाकर्णनम्, शेषाणि विशेषणानि द्वयोरपि समानार्थानि [अ]। अस्थिनूपुरैरपि अस्थिमयपादालङ्करणविशेषैरपि, सततसेवितचरणं सततं-निरन्तरम् , सेवितौ-अलङ्कृती, चरणौ यस्य तादृशम् [स] । पुनः कीदृशं तम् ? ज्वलदुन्मयूखफणमणिभिः ज्वलन्तः स्फुरन्तः, उन्मयूखाः-उद्-उद्गच्छन्तः, मयूखाः-किरणा येषां तादृशाः, फणमणयः-फणागतमणयो येषां तादृशैः, अत एव आत्तप्रदीपैरिव आत्ताः-गृहीताः, प्रदीपा यैस्तादृशैरिवेत्युत्प्रेक्षा, आभरणभुजगैरपि अलङ्करणभूतसपैरपि, अवगाहमानकजलकालकायप्रभान्धतमसम् अवगायमानं--प्रविश्योद्भिद्यमानम् , कजलकालस्य-कज्जलवत्कृष्णवर्णस्य, कायस्य-शरीरस्य, प्रभारूपम् , अन्धतमसंगाढान्धकारो यस्य तादृशम् [ह ] । पुनः कीदृशं तम् ? सास्रेण अनेण-रुधिरेण, अश्रुणा च, सहितेन, मांसेनापि, खादनभीतेनेव वैतालिककर्तृकभक्षणभयान्वितेनेनेत्युत्प्रेक्षा, परित्यक्तसर्वावयवं परित्यक्ताः-विमुक्ताः, सर्वेऽवयवाःअशानि यस्य तादृशम् [A] । कीदृशं तम् ? पुनः अस्थिसारान् अस्थिमात्रावशेषान् , अतिविकृतरूपदर्शनभयात् अतिविकृतस्य-परमविकरालभूतस्य, रूपस्य-तदीयाकारस्य, दर्शनजन्यभयात् , पलायितुकामानिव पलायितुमिच्छूनिव, नायुग्रन्थिगाढनद्धान् स्नायुप्रन्थिभिः-नाडीग्रन्थिरूपरज्जुभिः, गाढं-सुदृढं यथा स्यात् तथा, नद्धान्-निगडितान् , भवयवानपि, दधानं धारयन्तम् । पुनः कीदृशं तम् ? आजानुलम्बमानशवशिरोमालम् आजानु-जानुपर्यन्तम् , लम्ब.. माना-नमन्ती, शवशिरोमाला-मृतमस्तकमाला यस्य तादृशम् । एक बेतालं दानवजातीयम् , अद्राक्षीत् दृष्टवान् [श] ॥ च पुनः, तं वेतालम् , क्रमानुसारिण्या क्रमेण संचरन्त्या, दृशा दृष्ट्या, आचरणयुगलात् पादद्वयमारभ्य, आमस्तकं मस्तकपर्यन्तम् , प्रत्यषयवं सर्वावयवावच्छेदेन, अवलोक्य निरीक्ष्य, किश्चित् ईषत् , कृतस्मितः कृतमन्दहासः सन् , नरपतिः मेघवाहनो राजा, उवाच उक्तवान् । किमित्याह-महात्मन् ! भगवन् !, ते तव, अनेन हर्षाट्टहासेन हर्षजनितमहाहासेन, मे मम, अतिमहत् अत्यधिकम् , कुतूहलम् औत्सुक्यम् , आश्चर्यमिति यावत् , जनितम् उत्पादितम् , कीदृशेन तेन ? प्रवृद्धेन परमोत्कटेन, सहसा शीघ्रम् , आकाशसन्निभप्रभाभारभरितकुकुभा आकाशसन्निभायाः-विस्तारेण वर्णेन वा आकाशतुल्यायाः, प्रभायाः-कान्तेः, भारेण-पुजेन, भरिताः-पूरिताः, ककुभः-दिशो येन तादृशेन, पुनः स्फुटोत्फुल्लनयननासापुटेन स्फुट-स्पष्टं यथा स्यात् तथा, उत्फुल्ले-उन्मीलिते, नयने नासापुटौ च यस्मिंस्तादृशेन, पुनः मुखप्रवृत्तसन्ततास्रोतसा मुखे, प्रवृत्तं-प्रादुर्भूतम् , सन्तत-निरन्तरम् , अलस्रोतःभनुप्रवाहो येन तादृशेन, पुनः प्रकटितकरालदंष्ट्रामण्डलेन प्रकटित-व्यक्तम् , कराल-भीषणम् , दंष्ट्रामण्हलं-वृहान्तभण्डलं यस्मिंस्तादृशेन, पुनः विदारितविकटसृक्कणा विदारिते-विश्लेषिते, सृक्कणी-ओष्ठप्रान्तभागी यस्मिंस्तादृशेन, पुनः निकामभीषणश्रवणेन निकामभीषणम्-अत्यन्तभीषणम् , श्रवणम्-आकर्णनं यस्य तादृशेन, पुनः भुवनभयत्रासकारिणा भुवनत्रयभयङ्करेण, केनेव ? वपुषेव खशरीरेणेव, अत्र पक्षे मुखप्रवृत्तसन्ततानस्रोतसा मुखात् प्रवृत्तं सततम् असस्रोतः-रुधिरप्रवाहो यत्र तादृशेन, निकामभीषणश्रवणेन निकामं भीषणौ श्रवो-को यत्र तादृशेन, इति

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196