Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 167
________________ तिलकमखरी । १३१ भ्रुकुटिधूमान्धकारपरिगतं दधानम् [य], ऊर्ध्वस्थितेन स्थिरतडित्तन्तु संतानस्थानकविडम्बिना कपिशभासुरेण केशभारेण भर्त्सयन्तमुपरि जाज्वल्यमान ज्वालाखण्डमुत्पातधूमदण्डम् [र], आयतनभिन्तिसङ्गिना बलिप्रदीपप्रभाप्रकाशितेन केशनखदशनवर्तमात्मनो निर्विशेषच्छायेन प्रतिच्छायापुरुषेण पार्श्वचारिणा सानुचरमिव दृश्यमानम् [ल ], घोणयाप्युत्फुल्लस्फारपुटया धृतातिविकटपत्रपुटयेव पीयमानवदननिर्यद्रसामोदम् [व], दशनमालयाऽप्यन्तरालप्रविष्टकुणपास्थिशकलया सकलत्रिभुवनाभ्यवहाराय सहायीकृतानन्तदन्तयेवाक्रान्तमुखकुहरम् [श ], चरणाङ्गुलीभिरपि स्फुरितपाण्डुनिम्नोदरनखाभिर्मुखार्पितकपालकर्पराभिरिव प्रतीष्यमाणोत्तरीयनरचर्मक्षरत्क्षतजकणवर्षम् [ष], अस्थिनूपुरैरपि पदप्रयोग मुखरैर्भयप्रस्तुतस्तुतिभिरिव सतत सेवितचरणम् टिप्पनकम् — कुणपं- मृतकम् [श] 1 कीदृशं तत् ? आभोगिना विस्तारिणा, ललाटस्थलेन ललाटकुडयेन, सद्यः स्थापितं स्वस्मिन् विलिख्य धृतम्, कमिव ? .नरजाङ्गलानां मनुष्यमांसानाम्, पचनाय पाकार्थम्, उपसंगृहीतं सञ्चितम् सहजभृकुटिधूमान्धकारपरिगतं सहजे - खाभाविक्यौ, ये भ्रुकुटी - भ्रूलतिके, तद्रूपधूमान्धकारेण परिगतं व्याप्तम्, चिताग्निमिव श्मशानामिमिवेत्युत्प्रेक्षा [य]। पुनः कीदृशं तम् ? केशभारेण स्वकीय केशकलापेन, उपरिजाज्वल्यमानज्वालाखण्डम् उपरि जाज्वल्यमानाः--देदीप्यमानाः, ज्वालानां खण्डा भागा यस्य तादृशम्, उत्पातधूमदण्डं धूमो दण्डो यस्य स धूमदण्डः, अभिः, उस्पाते- प्रलयवेलायां, धूमदण्डः - उत्पातधूमदण्डः, प्रलयामिः तं भर्त्सयन्तं तिरस्कुर्वन्तम् कीदृशेन तेन ? कपिशभासुरेण कपिशेम-कृष्णपीतवर्णेन, भासुरेण-दीप्रेण च, पुनः ऊर्ध्वस्थितेन उपरि लम्बितेन, अत एव स्थिरतडितन्तुसन्तानस्थानकविडम्बिना स्थिरस्य - स्थायिनः - तडित्तन्तु सन्तानस्य - विद्युद्रश्मिसमूहस्य यत् स्थानकं -स्थानम्, तद्विड म्बिना--तदनुकारिणा [र]। पुनः कीदृशं तम् ? पार्श्वचारिणा पार्श्वगामिना, प्रतिच्छायापुरुषेण प्रतिविम्बात्मकपुरुपेण, सानुचरमिव अनुचरसहितमित्र, दृश्यमानं प्रतीयमानम् कीदृशेन तेन ? आयतनभित्तिसङ्गिना मन्दिरकुड्यसंक्रामिणा, पुनः बलिदीपप्रभाप्रकाशितेन बलिवीपानां पूजोपकरणदीपानाम्, प्रभाभिः प्रकाशितेन, पुनः केशनखदशनवर्ज केशान् नखान् दशनानि-दन्तांश्च, वर्जयित्वा, आत्मनः स्वस्य, निर्विशेषच्छायेन सदृशकान्तिशालिना, कृष्णवर्णेनेत्यर्थः, केशादीनां तु कपिश वर्णत्वादिना तद्वर्जनमिति बोध्यम् [ ल ] । पुनः कीदृशं तम् ? उत्फुल्लस्फारपुटया उत्फुल्लौ-विकसितौ, स्फारौ च, पुटौ - पुढाकारपार्श्वद्वयं यस्यास्तादृश्या, अत एव धृतातिविकटपत्रपुटयेव धृतौ, अतिविकटीविकरालौ, पत्रपुटौ यया तयेवेत्युत्प्रेक्षा, घोणया नासिकया, पीयमानवदन निर्यद्र सामोदं पीयमानः- प्रायमाणः, वदनात् मुखात्, , निर्यत्याः - निर्गच्छन्त्याः, वसायाः - मज्जायाः, आमोदः - अतिगन्धो येन तादृशम् [व] । पुनः कीदृशं तम् ? अन्तरालप्रविष्टकुणपास्थिशकलया अन्तराले - मध्ये, प्रविष्टानि, कुणपस्य - शवस्य, अस्थनाम्, शकलानि - खण्ड यस्यां तादृश्या, अत एव सकलत्रिभुवनाभ्यवहाराय सकलस्य - समग्रस्य, त्रिभुवनस्य - स्वर्ग - मर्त्य- पाताललोकानाम्, अभ्यवहाराय - भक्षणाय, सहायीकृतानन्तदन्तयेव सहायीकृताः - सहायरूपेणाश्रिताः, अनन्ताः - असंख्याः, दन्ता यया तादृश्यैवेत्युत्प्रेक्षा, दशनमालया दन्तपङ्कया, आक्रान्तमुखकुहरम् आक्रान्तः - व्याप्तः, मुखकुहरः - मुखविवरं यस्य तादृशम् [ श ] । पुनः कीदृशं तम् ? स्फुरितपाण्डुनिम्नोदर नखाभिः स्फुरिताः - दीताः, पाण्डवः पाण्डुवर्णाः, निम्नोदराः-गभीरमध्यभागाः, नखा यासु तादृशीभिः, भत एव मुखार्पितकपालकर्पराभिरिव मुखे अर्पितः, कपालरूपःशिरःस्थास्थिरूपः, कर्परः–तत्संज्ञककटाहाख्यपात्र विशेषो याभिस्ताभिरिवेत्युत्प्रेक्षा "कर्परस्तु कटाहे स्यात्” इति हैमः, "कपालोsस्त्री शिरोऽस्थिन स्यात्" इत्यमरः, चरणाङ्गुलीभिरपि प्रतीष्यमाणोत्तरीयनरचर्मक्षरत्क्षतजकणवर्षे प्रतीध्यमाणं - धार्यमाणम्, उत्तरीयभूतात्, नरचर्मणः - मनुष्य चर्म सकाशात्, क्षरता - स्यन्दमानानाम्, क्षतजकणानां रुधिरकणानाम्, वर्षं वृष्टिर्येन तादृशम् [ष] । पुनः कीदृशं तम् ? पदप्रयोगमुखरैः पदप्रयोगेण-पादविक्षेपेण, मुखरैःशब्दायमानैः, अत एव भयप्रस्तुतस्तुतिभिरिव भयेन - सेन्यभयेन, प्रस्तुता - प्रारब्धा, स्तुतिर्यैस्तादृशैरिवेत्युत्प्रेक्षा,

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196