________________
तिलकमखरी ।
१३१
भ्रुकुटिधूमान्धकारपरिगतं दधानम् [य], ऊर्ध्वस्थितेन स्थिरतडित्तन्तु संतानस्थानकविडम्बिना कपिशभासुरेण केशभारेण भर्त्सयन्तमुपरि जाज्वल्यमान ज्वालाखण्डमुत्पातधूमदण्डम् [र], आयतनभिन्तिसङ्गिना बलिप्रदीपप्रभाप्रकाशितेन केशनखदशनवर्तमात्मनो निर्विशेषच्छायेन प्रतिच्छायापुरुषेण पार्श्वचारिणा सानुचरमिव दृश्यमानम् [ल ], घोणयाप्युत्फुल्लस्फारपुटया धृतातिविकटपत्रपुटयेव पीयमानवदननिर्यद्रसामोदम् [व], दशनमालयाऽप्यन्तरालप्रविष्टकुणपास्थिशकलया सकलत्रिभुवनाभ्यवहाराय सहायीकृतानन्तदन्तयेवाक्रान्तमुखकुहरम् [श ], चरणाङ्गुलीभिरपि स्फुरितपाण्डुनिम्नोदरनखाभिर्मुखार्पितकपालकर्पराभिरिव प्रतीष्यमाणोत्तरीयनरचर्मक्षरत्क्षतजकणवर्षम् [ष], अस्थिनूपुरैरपि पदप्रयोग मुखरैर्भयप्रस्तुतस्तुतिभिरिव सतत सेवितचरणम्
टिप्पनकम् — कुणपं- मृतकम् [श] 1
कीदृशं तत् ? आभोगिना विस्तारिणा, ललाटस्थलेन ललाटकुडयेन, सद्यः स्थापितं स्वस्मिन् विलिख्य धृतम्, कमिव ? .नरजाङ्गलानां मनुष्यमांसानाम्, पचनाय पाकार्थम्, उपसंगृहीतं सञ्चितम् सहजभृकुटिधूमान्धकारपरिगतं सहजे - खाभाविक्यौ, ये भ्रुकुटी - भ्रूलतिके, तद्रूपधूमान्धकारेण परिगतं व्याप्तम्, चिताग्निमिव श्मशानामिमिवेत्युत्प्रेक्षा [य]। पुनः कीदृशं तम् ? केशभारेण स्वकीय केशकलापेन, उपरिजाज्वल्यमानज्वालाखण्डम् उपरि जाज्वल्यमानाः--देदीप्यमानाः, ज्वालानां खण्डा भागा यस्य तादृशम्, उत्पातधूमदण्डं धूमो दण्डो यस्य स धूमदण्डः, अभिः, उस्पाते- प्रलयवेलायां, धूमदण्डः - उत्पातधूमदण्डः, प्रलयामिः तं भर्त्सयन्तं तिरस्कुर्वन्तम् कीदृशेन तेन ? कपिशभासुरेण कपिशेम-कृष्णपीतवर्णेन, भासुरेण-दीप्रेण च, पुनः ऊर्ध्वस्थितेन उपरि लम्बितेन, अत एव स्थिरतडितन्तुसन्तानस्थानकविडम्बिना स्थिरस्य - स्थायिनः - तडित्तन्तु सन्तानस्य - विद्युद्रश्मिसमूहस्य यत् स्थानकं -स्थानम्, तद्विड म्बिना--तदनुकारिणा [र]। पुनः कीदृशं तम् ? पार्श्वचारिणा पार्श्वगामिना, प्रतिच्छायापुरुषेण प्रतिविम्बात्मकपुरुपेण, सानुचरमिव अनुचरसहितमित्र, दृश्यमानं प्रतीयमानम् कीदृशेन तेन ? आयतनभित्तिसङ्गिना मन्दिरकुड्यसंक्रामिणा, पुनः बलिदीपप्रभाप्रकाशितेन बलिवीपानां पूजोपकरणदीपानाम्, प्रभाभिः प्रकाशितेन, पुनः केशनखदशनवर्ज केशान् नखान् दशनानि-दन्तांश्च, वर्जयित्वा, आत्मनः स्वस्य, निर्विशेषच्छायेन सदृशकान्तिशालिना, कृष्णवर्णेनेत्यर्थः, केशादीनां तु कपिश वर्णत्वादिना तद्वर्जनमिति बोध्यम् [ ल ] । पुनः कीदृशं तम् ? उत्फुल्लस्फारपुटया उत्फुल्लौ-विकसितौ, स्फारौ च, पुटौ - पुढाकारपार्श्वद्वयं यस्यास्तादृश्या, अत एव धृतातिविकटपत्रपुटयेव धृतौ, अतिविकटीविकरालौ, पत्रपुटौ यया तयेवेत्युत्प्रेक्षा, घोणया नासिकया, पीयमानवदन निर्यद्र सामोदं पीयमानः- प्रायमाणः, वदनात् मुखात्, , निर्यत्याः - निर्गच्छन्त्याः, वसायाः - मज्जायाः, आमोदः - अतिगन्धो येन तादृशम् [व] । पुनः कीदृशं तम् ? अन्तरालप्रविष्टकुणपास्थिशकलया अन्तराले - मध्ये, प्रविष्टानि, कुणपस्य - शवस्य, अस्थनाम्, शकलानि - खण्ड यस्यां तादृश्या, अत एव सकलत्रिभुवनाभ्यवहाराय सकलस्य - समग्रस्य, त्रिभुवनस्य - स्वर्ग - मर्त्य- पाताललोकानाम्, अभ्यवहाराय - भक्षणाय, सहायीकृतानन्तदन्तयेव सहायीकृताः - सहायरूपेणाश्रिताः, अनन्ताः - असंख्याः, दन्ता यया तादृश्यैवेत्युत्प्रेक्षा, दशनमालया दन्तपङ्कया, आक्रान्तमुखकुहरम् आक्रान्तः - व्याप्तः, मुखकुहरः - मुखविवरं यस्य तादृशम् [ श ] । पुनः कीदृशं तम् ? स्फुरितपाण्डुनिम्नोदर नखाभिः स्फुरिताः - दीताः, पाण्डवः पाण्डुवर्णाः, निम्नोदराः-गभीरमध्यभागाः, नखा यासु तादृशीभिः, भत एव मुखार्पितकपालकर्पराभिरिव मुखे अर्पितः, कपालरूपःशिरःस्थास्थिरूपः, कर्परः–तत्संज्ञककटाहाख्यपात्र विशेषो याभिस्ताभिरिवेत्युत्प्रेक्षा "कर्परस्तु कटाहे स्यात्” इति हैमः, "कपालोsस्त्री शिरोऽस्थिन स्यात्" इत्यमरः, चरणाङ्गुलीभिरपि प्रतीष्यमाणोत्तरीयनरचर्मक्षरत्क्षतजकणवर्षे प्रतीध्यमाणं - धार्यमाणम्, उत्तरीयभूतात्, नरचर्मणः - मनुष्य चर्म सकाशात्, क्षरता - स्यन्दमानानाम्, क्षतजकणानां रुधिरकणानाम्, वर्षं वृष्टिर्येन तादृशम् [ष] । पुनः कीदृशं तम् ? पदप्रयोगमुखरैः पदप्रयोगेण-पादविक्षेपेण, मुखरैःशब्दायमानैः, अत एव भयप्रस्तुतस्तुतिभिरिव भयेन - सेन्यभयेन, प्रस्तुता - प्रारब्धा, स्तुतिर्यैस्तादृशैरिवेत्युत्प्रेक्षा,