________________
टिप्पनक-परागविवृतिसंवलिता [स], आभरणभुजगैरपि ज्वलदुन्मयूखफणमणिभिरात्तप्रदीपैरिवावगाह्यमानकजलकालकायप्रभान्धतमसम् [ह], मांसेनापि खादनभीतेनेव सास्रेण परित्यक्तसर्वावयवम् [क्ष], अवयवानप्यस्थिसारानतिविकृतरूपदर्शनभयात् पलायितुकामानिव स्नायुप्रन्थिगाढनद्धान् दधानम् , आजानुलम्बमानशवशिरोमालमेकं वेतालम् [ज्ञ],
तं च क्रमानुसारिण्या दृशा चरणयुगलादामस्तकं प्रत्यवयवमवलोक्य किञ्चित्कृतस्मितो नरपतिरुवाच'महात्मन् ? अनेन ते प्रवृद्धेन सहसाकाशसंनिभप्रभाभारभरितककुभा स्फुटोत्फुल्लनयननासापुटेन मुखप्रवृत्तसंततास्रस्रोतसा प्रकटितकरालदंष्ट्रामण्डलेन विदारितविकटसृक्कणा निकामभीषणश्रवणेन वपुषेव भुवनत्रयत्रास
टिप्पनकम्-अस्त्रं- रुधिरं नयनवारि च [क्ष ] । सायुः- नशा [२] ॥
टिप्पनकम्-मुखप्रवृत्तसंतप्तास्रस्रोतसा एकत्र मुखे, अन्यत्र मुखात्, अस्त्रं- नेत्रवारि रुधिरं च । निकामभीषणश्रवणेन श्रवणौ-कर्णी, श्रवणम्-भाकर्णनम्, शेषाणि विशेषणानि द्वयोरपि समानार्थानि [अ]।
अस्थिनूपुरैरपि अस्थिमयपादालङ्करणविशेषैरपि, सततसेवितचरणं सततं-निरन्तरम् , सेवितौ-अलङ्कृती, चरणौ यस्य तादृशम् [स] । पुनः कीदृशं तम् ? ज्वलदुन्मयूखफणमणिभिः ज्वलन्तः स्फुरन्तः, उन्मयूखाः-उद्-उद्गच्छन्तः, मयूखाः-किरणा येषां तादृशाः, फणमणयः-फणागतमणयो येषां तादृशैः, अत एव आत्तप्रदीपैरिव आत्ताः-गृहीताः, प्रदीपा यैस्तादृशैरिवेत्युत्प्रेक्षा, आभरणभुजगैरपि अलङ्करणभूतसपैरपि, अवगाहमानकजलकालकायप्रभान्धतमसम् अवगायमानं--प्रविश्योद्भिद्यमानम् , कजलकालस्य-कज्जलवत्कृष्णवर्णस्य, कायस्य-शरीरस्य, प्रभारूपम् , अन्धतमसंगाढान्धकारो यस्य तादृशम् [ह ] । पुनः कीदृशं तम् ? सास्रेण अनेण-रुधिरेण, अश्रुणा च, सहितेन, मांसेनापि, खादनभीतेनेव वैतालिककर्तृकभक्षणभयान्वितेनेनेत्युत्प्रेक्षा, परित्यक्तसर्वावयवं परित्यक्ताः-विमुक्ताः, सर्वेऽवयवाःअशानि यस्य तादृशम् [A] । कीदृशं तम् ? पुनः अस्थिसारान् अस्थिमात्रावशेषान् , अतिविकृतरूपदर्शनभयात् अतिविकृतस्य-परमविकरालभूतस्य, रूपस्य-तदीयाकारस्य, दर्शनजन्यभयात् , पलायितुकामानिव पलायितुमिच्छूनिव, नायुग्रन्थिगाढनद्धान् स्नायुप्रन्थिभिः-नाडीग्रन्थिरूपरज्जुभिः, गाढं-सुदृढं यथा स्यात् तथा, नद्धान्-निगडितान् , भवयवानपि, दधानं धारयन्तम् । पुनः कीदृशं तम् ? आजानुलम्बमानशवशिरोमालम् आजानु-जानुपर्यन्तम् , लम्ब.. माना-नमन्ती, शवशिरोमाला-मृतमस्तकमाला यस्य तादृशम् । एक बेतालं दानवजातीयम् , अद्राक्षीत् दृष्टवान् [श] ॥
च पुनः, तं वेतालम् , क्रमानुसारिण्या क्रमेण संचरन्त्या, दृशा दृष्ट्या, आचरणयुगलात् पादद्वयमारभ्य, आमस्तकं मस्तकपर्यन्तम् , प्रत्यषयवं सर्वावयवावच्छेदेन, अवलोक्य निरीक्ष्य, किश्चित् ईषत् , कृतस्मितः कृतमन्दहासः सन् , नरपतिः मेघवाहनो राजा, उवाच उक्तवान् । किमित्याह-महात्मन् ! भगवन् !, ते तव, अनेन हर्षाट्टहासेन हर्षजनितमहाहासेन, मे मम, अतिमहत् अत्यधिकम् , कुतूहलम् औत्सुक्यम् , आश्चर्यमिति यावत् , जनितम् उत्पादितम् , कीदृशेन तेन ? प्रवृद्धेन परमोत्कटेन, सहसा शीघ्रम् , आकाशसन्निभप्रभाभारभरितकुकुभा आकाशसन्निभायाः-विस्तारेण वर्णेन वा आकाशतुल्यायाः, प्रभायाः-कान्तेः, भारेण-पुजेन, भरिताः-पूरिताः, ककुभः-दिशो येन तादृशेन, पुनः स्फुटोत्फुल्लनयननासापुटेन स्फुट-स्पष्टं यथा स्यात् तथा, उत्फुल्ले-उन्मीलिते, नयने नासापुटौ च यस्मिंस्तादृशेन, पुनः मुखप्रवृत्तसन्ततास्रोतसा मुखे, प्रवृत्तं-प्रादुर्भूतम् , सन्तत-निरन्तरम् , अलस्रोतःभनुप्रवाहो येन तादृशेन, पुनः प्रकटितकरालदंष्ट्रामण्डलेन प्रकटित-व्यक्तम् , कराल-भीषणम् , दंष्ट्रामण्हलं-वृहान्तभण्डलं यस्मिंस्तादृशेन, पुनः विदारितविकटसृक्कणा विदारिते-विश्लेषिते, सृक्कणी-ओष्ठप्रान्तभागी यस्मिंस्तादृशेन, पुनः निकामभीषणश्रवणेन निकामभीषणम्-अत्यन्तभीषणम् , श्रवणम्-आकर्णनं यस्य तादृशेन, पुनः भुवनभयत्रासकारिणा भुवनत्रयभयङ्करेण, केनेव ? वपुषेव खशरीरेणेव, अत्र पक्षे मुखप्रवृत्तसन्ततानस्रोतसा मुखात् प्रवृत्तं सततम् असस्रोतः-रुधिरप्रवाहो यत्र तादृशेन, निकामभीषणश्रवणेन निकामं भीषणौ श्रवो-को यत्र तादृशेन, इति