________________
१३.
टिप्पनक-परागविवृतिसंवलिता कररुहकुहालैरसुरकन्यारिरंसया रसातलगतानलीकसाधकानुद्धर्तुमिव कृतोद्यमम् [प], विपुलवर्तिमण्डलमालोललवपाशं श्रवणयुग्ममूर्ध्वलितपुच्छनालनिबिडालिङ्गिताङ्गमुत्फुल्लफणाकपरं कालसर्पद्वयमिवोद्वहन्तम् [क], शिखिकणारुणया तिर्यग्विसर्पिण्या फणमणिकिरणमालया जटालीकृतसरलभोगनालाभ्यामलघुना निष्पतन्तमोघेन घोणापुटश्वासमुभयतः पातुमवतीर्णाभ्यां कर्णाभरणविषधराभ्यां द्विधाप्यधाकृतोष्टपृष्ठलोमलेखम् [व], मुहुरुदश्चता मुहुर्यञ्चता मुहुः प्राञ्चता तिर्यगजगरदेहदीर्घपृथुलेन जिलालताण ललाटचिबुकसकप्रान्तगतमामङ्गरागमेदःकर्दममास्वादयन्तम् [भ], अन्तर्वलितपिङ्गलोग्रतारकेण करालपरिमण्डलाकृतिना नयनयुगलेन यमुनाप्रवाहमिव निदापदिनकरप्रतिबिम्बगर्भोदरेणावर्तद्वयेनातिभीषणम् [म], आमोगिना ललाटस्थलेन सद्यःस्थापितमसृक्पङ्कपश्चाङ्गुलं पचनाय नरजाङ्गलानामुपसंगृहीतं चिताग्निमिव सहज
टिप्पनकम्-विधापि अधाकृतोष्ठपृष्ठलोमलेखं कृष्णत्वेन तिरस्कृता, अधस्ताद् विहिता च [व]। जागलं-मांसम् [य]।
दीर्घा च, अप्रकोटिः-अग्रभागो येषां तादृशः [प]। पुनः कीदृशं तम् ? श्रवणयुग्मं कर्णयुगलम् , उद्वहन्तं धारयन्तम्, कीदृशं तत् ? विपुलवर्तिमण्डलं विपुलं-बृहद्रूपम् , वर्तिमण्डलं-विवरमण्डलं यस्मिन् तादृशम्, पुनः आलोललवपाशम् आलोल:-आ-समन्तात् , लोल:-चञ्चलः, लवपाशः-लोमसमूहो यस्मिंस्तादृशम् , "लवः कालभिदि छिदि । विलासे रामले लेशे तथा किजल्क-पक्ष्मणोः। गोपुच्छलोमखपि च" इति हैमः, अत एव ऊर्शवलितपुच्छनालनिबिडालिहिताङ्गम् ऊर्ध्ववलितम्---उपरि प्रसृतम् , यत् पुच्छरूपं नालं-दण्डः, तेन निबिडम् - अत्यन्तं यथा स्यात् तथा, आलिजित–परिवेष्टितम् , अझंगात्रं यस्य तादृशम् , पुनः उत्फुल्लफणाकर्परम् उत्फुल्लं-विकखरं स्थूलमिति यावत्, फणाकरे-फणारूप करें कपालः, मूर्धन्यमस्थीति यावत् , यस्य तादृशम् , कालसर्पद्वयमिव प्रलयकालिकसर्पयुग्ममिवेत्युत्प्रेक्षा [फ]। पुनः कीदृश तम् ! कर्णाभरणविषधराभ्यां कर्णाभरणे-कर्णाभूषणे, तद्रूपाभ्यां विषधराभ्यां- सर्पाभ्याम् , द्विधापि दक्षिणवामभागाभ्यामपि, यद्वा द्युति-भाररूपप्रकारद्वयेनापि, अधःकृतोष्ठपृष्ठलोमलेखम् अधःकृता-न्यूनतामापादिता, अधोदेशस्थापिता च, ओष्ठपृष्ठस्य-ओष्ठोर्श्वभागस्य, लोमलेखा-श्मश्रुश्रेणी याभ्यां तादृशम् , कीदृशाभ्यां ताभ्याम् ? फणमणिकिरणमालया फणगतमणीनाम् , किरणमालया-रश्मिसमूहेन, जटालीकृतसरलभोगनालाभ्यां जटालीकृतं-व्याप्तम् , सरलम्-ऋजु. रूपम् , भोगनालं-शरीरदण्डो ययोस्तादृशाभ्याम् , पुनः अलघुना महता, ओघेन प्रवाहरूपेण निष्पतन्तं निर्गच्छन्तम् , घोणापुटश्वासं नासापुटवायुम् , उभयतः उभयपार्वतः, पातुं पानकर्मीकर्तुम् , अवतीर्णाभ्याम् उपनताभ्याम् , “घोणा नासा च नासिका" इत्यमरः [व] । पुनः कीदृशं तम् ? अङ्गरागमेदःकर्दमम् अङ्गविलेपनात्मकं यन्मेदः-मांसजधातुविशेषः, तस्य कर्दम-पकम् , आखादलिहन्तम् , कीदृशं तम् , मुहुर्मुहुः वारं वारम् , उदञ्चता उद्गच्छता, न्यञ्चता अधो गच्छता, प्राञ्चता तिर्यग्गच्छता, तिर्यगजगरदेहदीर्घपृथुलेन तिर्यक्-कुटिलाकारेण स्थितः, योऽजगरः-महासर्पः, तस्य देहवत् , दीर्धेण-आयतेन, पृथुलेन-विशालेन च, जिह्वालताग्रेण जिह्वारूपाया लताया अग्रभागेन, ललाट-चिबुकएक्कप्रान्तगतं ललाटस्य--कपालस्य, चिबुकस्य-ओष्ठाधोभागस्य, सृकणोः-ओष्ठान्तभागयोश्च, प्रान्ते-एकदेशे गतं--स्थितम् , "प्रान्तावोष्ठस्य सृक्कणी" इत्यमरः, पुनः आर्द्रार्द्रम् अत्यन्तमार्द्रम् [भ] । पुनः कीदृशं तम् ? नयनयुगलेन नेत्रद्वयेन, अतिभीषणम् अत्यन्तभयङ्करम् , कीदृशेन तेन ? अन्तज्वलितपिकलोग्रतारकेण अन्तः-मध्ये, ज्वलिते-दीप्ते, पिजलेपीतवर्णे, उप्रे-भीषणे च, तारके-कनीनिके यस्य तादृशेन, पुनः करालपरिमण्डलाकृतिना कराला-भीषणा, परिमण्डला-वर्तुला च, आकृतिः-आकारो यस्य तादृशेन, केन कमिव ? निदाघदिनकरप्रतिबिम्बगोदरेण निदाघदिनकरस्वप्रीष्मकालिकसूर्यस्य, प्रतिबिम्ब, गर्भः-अन्तःस्थिती यस्य तादृशमुदर-मध्य यस्य तादृशेन, आवर्तद्वयेन चक्राकारेण जलभ्रमणद्वयेन, यमुनायाः-तन्नान्या नद्याः, प्रवाहमिवेति प्रतिबिम्बोपमा [म]। पुनः कीदृशं तम् ? असृक्पङ्कपश्चाङ्गलम् असक्पङ्कस्य-रुधिरकर्दमस्य, तन्मयमिति यावत् , पच्चाङ्गुलं-पञ्चानामङ्कुलीनां तदाकृतिचिहानां समाहारम्, दधानं धारयन्तम्,