________________
१२९
तिलकमञ्जरी। तथैवोर्ध्वस्थितमाददानम् [द], दक्षिणेन च प्रतिक्षणव्यापारितनिशितकतिकेन वामकक्षान्तरक्षिप्तकन्धरस्य दृढनिरुद्धनिःश्वासनिर्गमत्वादध्वरपशोरिव तत्तदतिकरुणमन्तःक्रन्दतो दत्तनिष्फलकपाणघातस्य वेतालसाधकस्य साधितमुत्सर्पता परिकराशीविषवदनविषपावकेन गात्रपिशितमुत्कृत्योत्कृत्य कीकशोपदंशमनन्तम् [ध], कवलितपिशितचर्वणायासचम्बलेन कपिलतासंविभागदानाय त्रिभुवनोदरचारिणीनामचिररोचिषामारब्धसंज्ञासमाहानेनेव क्षयानलवर्चसा कूर्चकचकलापेन कवचितमखिलरोमरन्ध्रनिर्गलद्रुधिरगण्डूषमित्र प्रलम्बपृथुलं चिबुकमुद्ब्रहन्तम् [न], अतिकठिनखर्वपर्वभिरङ्गुलीवेणुदण्डिकाभिः परिगृहीतैः कुटिलतीक्ष्णायताप्रकोटिभिः
टिप्पनकम्-साधितं पक्वम् , कीकसोपदंशम् अस्थिसालनकम् [ध] । कवचितं वेष्टितम् [न]।
mma
पाणिना वामपाणिद्वारा, तथैव पूर्ववदेव, ऊर्ध्वस्थितम् उपरिस्थितम् , कीदृशेन तेन पाणिना ? अनुभावदर्शितात्यद्भुतभुजायामेन अनुभावेन-सामर्थ्यवशेन, दर्शितः, अत्यद्भुतः-अत्याश्चर्यावहः, भुजस्य-बाहोः, आयामः-देध्यं येन तादृशेन [द]। पुनः कीदृशं तम् ? प्रतिक्षणव्यापारितनिशितकर्तिकेन प्रतिक्षणम् , व्यापारिता-प्रयुक्ता, निशिता-तीक्ष्णा, कर्तिका-शस्त्रविशेषो येन तादृशेन, दक्षिणेन पाणिना, गात्रपिशितं शरीरमांसम् , उत्कृत्य उत्कृत्य उच्छिद्य उच्छिद्य, कीकसोपदंशं कीदृशं पिशितम् ? साधितं पक्वम् , केन ? उत्सर्पता ऊर्ध्व प्रसरता, परिकराशीविषवदनविषपावकेन परिकरा:-परिवारभूताः, ये आशीविषाः-सर्पविशेषाः, तेषां यानि वदनानि-मुखानि, तेभ्यो निर्गतं यद् विषं तद्रूपो यो पावकः-अग्निः, तेन, कीकसेन-अस्थ्ना, उपदश्य, अस्थ्ना सहेति यावत् , अनन्तं भुञ्जानम् , “कीकसं कुल्यमस्थि च" इत्यमरः, किंसम्बन्धि तत् पिशितम् ? वेतालसाधकस्य वेतालसिद्धिव्यापृतस्य पुरुषस्य, कीदृशस्य तस्य ? वामकक्षान्तरक्षिप्तकन्धरस्य वामकक्षान्तरे-वामपामध्यभागे, क्षिप्ता-निवेशिता, कन्धरा-प्रीवा यस्य तादृशम् , पुनः दृढनिरुद्धनिःश्वासनिर्गमत्वात् दृढं यथा स्यात् तथा निरुद्धः, निःश्वासनिर्गमः-निःश्वासनिःसरणं यस्य तत्त्वाद्धेतोः, अध्वरपशोरिव यज्ञपशोरिव, तत तत अनेकविधम्, अतिकरुणं यथा स्यात् तथा, अन्तः हृदि, ऋन्दतः रुदतः, पुनः दत्तनिष्फलकृपाणघातस्य दत्तः-कृतः, निष्फल:-निरर्थकः, निष्फलस्य-फलकरहितस्य वा, कृपाणस्य-खड्गस्य, घातः प्रहारो यस्मिंस्ताहशस्य [घ]। पुनः कीदृशम् ? प्रलम्बपृथुलं प्रलम्बम्-अतिदीर्घम् , पृथुलं-विस्तृतं च, चिबुकम् ओष्ठाधोभागम् , उद्ध. हन्तम् उद्-ऊर्ध्वम् , वहन्तं-धारयन्तम् , कीदृशं चिबुकम् ? कूर्चकचकलापेन श्मश्रुकेशसमूहेन, कवचितं व्याप्तम् , कीदृशेन तेन ? कवलितपिशितचर्मणायासचञ्चलेन कवलितं-भक्षितम् , यत् पिशितं-वेतालसाधकशरीरमांसम्, तस्य चर्मणायासेन-चर्वणप्रयासेन हेतुना, चञ्चलेन-चपलेन, पुनः त्रिभुवनोदरचारिणीनां त्रिभुवनमध्यसञ्चरणशीलानाम् , अचिररोचिषां विद्युताम् , कपिलतासंविभागदानाय कपिलतायाः-कपिलवर्णस्य, यः संविभागः सम्यविभागः, तस्य दानाय सम्पादनाय, आरब्धसंशासमाहानेनेव आरब्धम् , संज्ञया-अर्थसूचकचेष्टया, समाह्वानं सम्यगाह्वानं येन तादृशेनेवेत्युत्प्रेक्षा, पुनः क्षयानलवर्चसा क्षयः-प्रलयः, तत्कालिको योऽनलः-अमिः, तत्तुल्यं वर्चः-तेज्ञो यस्य तादृशेन, पुनः कीदृशं चिबुकम् ? अखिलरोमरन्ध्रनिर्गलद्रधिरगण्डूषमिव अखिलेभ्यः-समग्रेभ्यः, रोमरन्ध्रेभ्यः, निर्गलतः-निःसरतः, रुधिरस्य, गण्डूषं-चुलुकमिवेत्युत्प्रेक्षा [न]। पुनः कीदृशम् ? कररुहकुद्दालैः करे-हस्ते, रोहन्ति-उद्भवन्ति ये ते कररुहाः-नखाः, तद्रूपैः कुद्दालैः-खननास्त्रविशेषः, कृतोद्यम कृतप्रयासम् , किं कर्तुमिव ? असुरकन्यारिरंसया असुराणांपातालवासिदैत्यानाम् , याः कन्याः, ताभिः सह, रिरंसया-रमणेच्छया, रसातलगतान् पातालनिविष्टान् , अलीकसाध. कान् मिथ्यासाधकजनान् , उद्धर्तुमिव ऊर्वमानेतुमिवेत्युत्प्रेक्षा, कीदृशैस्तैः कुद्दालैः ? अतिकठिनखर्वपर्वभिः अतिकठिन-परमकठोरम् , खर्व-हखं च, पर्व-प्रन्थिर्यासां तादृशीभिः, अङ्गुलीवेणुदण्डिकाभिः अङ्गुलिरूपाभिः, वेणुदण्डिकाभिः भदौः, परिग्रहीता भवलम्बितैः, पुनः कुटिलतीक्ष्णायताम्रकोटिभिः कुटिला वक्ररूपा, तीक्ष्णा-निधिता, भायता