Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 173
________________ १३७ तिलकमञ्जरी। चिरं विचारय घ चेतसा, यदि संभवन्ति कतिचिदिह पूर्वसूचिता गुणाः, प्रीयते वा चक्षुरुत्तमाङ्गलक्षणविधिविचक्षणस्य, तन्न किञ्चिदन्यान्वेषणेन' []। स पुनरब्रवीत-नृपवरिष्ठ! सुष्ठु शुभलक्षणम् , सुष्टु चक्षुष्यम् , किं विलोक्यते । किं वा विचार्यतेऽस्य जायस्येव जातरूपस्य रूपशोभासौभाग्यम् , भाग्यवानहं यस्य प्रार्थनामन्तरेण समुपस्थितमिदम्' इति व्याहृत्य वामकरतलवर्तिनः कपालस्य कर्णवर्ती निर्दयावृत्तिकषणप्रकीर्णवह्रिस्फारविस्फुरत्स्फुलिङ्गवातामुत्पातमेघलेखामिव विमुक्तघनरुधिरबिन्दुवर्षाममर्षवक्रीकृतकृतान्तभ्रुकुटिविकराला कालायसकर्तिकां निजघर्ष,हर्षोत्तालकृततुमुलकिलिकिलारवश्व साटोपमेत्य विकटपातिभिः पदैरनतिनिकटमवनमितपूर्वकाय: विषयकम् , उद्यमं प्रयत्नम् , कुतश्चित् कस्मादपि, जनात् , अशृण्वता श्रुतिगोचरतामनापादयता । तत् तस्माद्धेतोः, यदि पितृप्रयोजनं पितृतर्पणरूपं प्रयोजनम् , अतिमात्रम् अतिशयेन, न अवसीदति भ्रंशते, वा अथवा, पूर्वसूचितः अनुपदमावेदितः, पुण्यदिवसः कृष्णचतुर्दशीरूपः पितृतर्पणप्रयुक्तपुण्यकालः, अनभ्यर्णवर्ती अनिकटवर्ती, यहीति शेषः, तत् तर्हि, कतिचिद् दिनानि कतिपयदिनानि, प्रतीक्षख तदर्थ यापय, यावत् यावदिनपर्यन्तम् , क्वचित् क्वचित् स्थाने, 'तदवाप्तिः तदुपलब्धिर्भवति । अथ यदि कालातिपातः समयातिक्रमः, न सहाः सोढुमशक्यः, तत् तर्हि, इदमेव प्रत्यक्षभूतमेव, मे मम, शिरः-कपालं स्वीकुरु, गृहाणेल्यर्थः, केवलं किन्तु, विलोकय पश्य, मत्कपालमित्यर्थः, च पुनः, घेतसा विचारय पर्शलोचय, एतद्गुणानित्यर्थः, यदि इह मदीयकपाले, पूर्वसूचिताः पूर्वमावेदिताः, कतिचित् कतिपये, गुणाः सम्भवन्ति उपलभ्यन्ते, वा अथवा, उत्तमाङ्गलक्षणविधिविचक्षणस्य उत्तमानस्य-शिरसः, यानि लक्षणानिचिहानि, तद्विधौ-तनिरूपणे, विचक्षणस्य-निपुणस्य, भवत इति शेषः, चक्षुः प्रीयते तदवलोकनेन सन्तुष्यति, तत् तर्हि, अन्यान्वेषणेन अन्यस्य कपालस्य गवेषणेन, न किञ्चित् किमपि, प्रयोजनमिति शेषः [ऋ] । सः वेतालः, पुनः, अब्रवीत् उक्तवान् , किमित्याह-नृपवरिष्ठ! नृपश्रेष्ठ!, सुष्टु सम्यक्, विस्पष्टमिति यावत् , शुभलक्षणं शुभानि-राजो आनि यस्मिंस्तादृशम् , तावकीनं शिर इति यावत. सष्ठ सम्यक, चक्षष्यं चक्षुःप्रियम्, तदिति शेषः, जातरूपस्येव सुवर्णस्येव, जात्यस्य मुन्दरस्य, अस्य शिरसः, रूपशोभासौभाग्यं रूपसौन्दर्यसौष्ठवम् , तत्सौन्दर्यातिशय इति यावत् , किं किमर्थं विलोक्यते दृश्यते, किं वा किमर्थं वा विचार्यते निरूप्यते, तत् सर्व वृथेति भावः, अहं भाग्यवान् भाग्यशाली, अस्मीति शेषः, यस्य मम, प्रार्थनाम् अन्यस्य याच्याम् , प्रयासमिति यावत् , अन्तरेण विनैव, इदं शिरः, समुपस्थितं समुपनतम् । इति इत्थम् , व्याहत्य उक्त्वा, वामकरतलवर्तिनः वामहस्तस्थितस्य, शीर्षांपरितनास्थिरूपकपरस्य, कर्णवतों कर्णलेखायाम, कालायसकर्तिकां कालायसं-लोहविशेषः, तन्मयी कर्तिकां-तत्संज्ञकमनविशेषम् , निजघर्ष निघृष्टवान् , छेदनार्थ तत्र संघृष्टवान् इति यावत् , कीदृशीम् ? निर्दयाऽऽवृत्तिकषणप्रकीर्णवह्निस्फारविस्फुरत्स्फुलिङ्गबातां निर्दयं-दयारहितं यथा स्यात् तथा, आवृत्त्या पौनःपुन्येन, यत् कषणंधर्षणम् , तेन प्रकीर्णाः-परितो विक्षिप्ताः, ये स्फाराः-प्रचुराः, विस्फुरन्तः-प्रज्वलन्तः, स्फुलिङ्गाः-अग्निकणाः, तेषां प्रातःसमूहो यस्यां तादृशीम् ; पुनः विमुक्तरुधिरबिन्दुवर्षां विमुक्तं-निस्यन्दितम् , घन-सान्द्रम् , रुधिरबिन्दुवर्ष-शोणितबिन्दुवृष्टिर्यया तादृशीम् ; कामिव ? उत्पातमेघलेखामिव प्रलयकालिकमेघरेखामिव, तत्कालिकमेघरेखयाऽपि विस्फुलिङ्गानां रुधिरबिन्दूनां च वर्षणादिति भावः, पुनः अमर्षवक्रीकृतकृतान्त कुटिविकरालाम् अमर्षेण-रोषेण, वक्रीकृता-कुटिलीकृता, या कृतान्तस्य यमराजस्य, भ्रुकुटि:-नयनोपरि रोमराजिः, तामिव विकराला भीषणाम् , भ्रकोटिविकरालमिति पाठे भ्रुवो या कोटि:-कोणः, तद्वद्विकरालामिनि व्याख्येयम् , “कृतान्तो यमुनाभ्राता शमनो यमराड् यमः" इति, "कोणः पाल्यश्रिकोटयः" इति चामरः । च पुनः, हर्षोत्तालकृततुमुलकिलकिलारवः हर्षोत्तालेन-हर्षोत्कर्षेण, कृतः, तुमुल:-- सान्द्रः, किलकिलारवः-किलकिलात्मकशब्दो येन तादृशः सन् ; विकटपातिभिः विकट-भयानकं यथा स्यात् तथा, पतन्तिअधोनिविशन्ते यानि तानि विकटपातीनि, तादृशैः, पदैः पादैः, अनतिनिकटं किञ्चिन्निकटम् , साटोपम् आटोपेन-आडम्बरेण, सहितं यथा स्यात् तथा, एत्य आगत्य, अवनमितपूर्वकायः अवनमितः-नम्रीकृतः पूर्वकायः-कायस्य खशरीरस्य, १८तिलक

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196