Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१४३
टिप्पनक-परागविवृतिसंवलिता भोगे शेषभुजग इव मेदिनीमिन्दुकरपाण्डुरविषि पुण्डरीके कृतावस्थानाम् [औ], अजिनीखण्डसंघरणसंक्रान्तकमलधर्ममिव सुकुमारारुणं चरणद्वितयमुद्वहन्तीम् [अं], अस्थूललघुनापि पीवरोरुणा राजमानां जवाद्वितयेन [अ],
विततमेखलागुणपिनद्धमच्छधवलं दिव्यदुकूलमम्बुजवनप्रीत्या पद्मिनीनालसूत्रेणेव कारितमलघुना जघनमण्डलेनोद्वन्तीम् [क], आयतिशालिनीभिः शक्तिभिरिव बलीभिस्तिसृभिरुद्भासितेन नीतिमार्गेणेवातिसूक्ष्मदृष्टिलक्ष्येण मध्यभागेन भ्राजमानाम् [ख], गतिविलासहसितैः सहवासिभिः क्षीरोदजलवारणैरुपनीतेन कुम्भाभोगेनेव निरङ्कुशप्रवृद्धेन स्तनभारेणोद्भासिताम् [ग], उदधिमथने सुधारसच्छटावलयमिव लग्नमानाभिलम्बं कम्बुपरिमण्डलेन कण्ठनालेन मुक्ताकलापं कलयन्तीम् [घ], अलिकुलकाणमुखरया शतमखहतै
. टिप्पनकम्-पुण्डरीके सितप॰ [औ] । अस्थूललघुनाऽपि यद् अस्थूलं- कृशम् , लघु- अविस्तीर्णम् , तत् कथं पीवरम् उरु च, अन्यत्र पीवरावूरू- बृहजङ्ग्रे यत्र तत् तथोक्तं तेन पीवरोरुणा [अ] । अतिसूक्ष्मदृष्टिलक्ष्येण एकत्र निपुणज्ञानगम्येन, अन्यत्र अतिसूक्ष्मनेत्रदर्शनोपलभ्येन [ख] । आभोगेन- विस्तारेण [ग] ।
तादृशे; पुनः इन्दुकरपाण्डुरत्विषि इन्दुकरस्येव-चन्द्रकिरणस्येव, पाण्डुरा-किश्चित्पीतश्वेता, स्विट्-कान्तिर्यस्य ताशे, इति पक्षद्वयानुगतोऽर्थः [औ] 1 पुनः कीदृशीम् ! अजिनीखण्डसश्चरणसंक्रान्तकमलधर्ममिव अब्जिनीखण्डेकमलचने, यत् सञ्चरण-विहारः, तेन हेतुना, संक्रान्तः-सम्प्राप्तः, कमलस्य, धर्मः-सौकुमार्यारुण्यरूपो गुणो येन तादृशमिव, सुकुमारारुणं सुकुमारं च-मृदुलं च, अरुणं च-रक्तं च, चरणद्वितयं चरणद्वयम् , उद्भहन्तीं धारयन्तीम् [अं]| पुनः कीदृशीम् ? अस्थूललघुनापि अस्थूलेन-कृशेन, लघुना-हवेनापि, पीवरोरुणा पीवरेण-स्थूलेन, उरुणा-विस्तृतेनेति विरोधः, तदुद्धारे तु पीवरी-ऊरू आनूपरिभागौ यस्य तादृशेन, जवाद्वितयेन जङ्काद्वयन, राजमानां शोभमानाम्
]पुनः कीदृशीम् ? विततमेखलागुणपिनद्धं विततः-विस्तृतः, यो मेखलागुणः-कटिवेष्टनरज्जुः, तेन पिनद्धं - बद्धम् , अच्छधवलम् अच्छं-निर्मलम् , धवलं शुभ्रं च, अत एव अम्बुजवनप्रीत्या कमलवनानुरागेण हेतुना, पद्मिनीनालसूत्रेण कमलिनीमृणालतन्तुना, कारितमिव निर्मापितमिव, दिव्यदुकुलम् उत्कृष्टवस्त्रम् , अलघुना स्थूलेन, जघनमण्डलेन कठ्यप्रभागमण्डलेन, उद्यहन्तीं धारयन्तीम् [क]। पुनः कीदृशीम् ? अतिसूक्ष्मदृष्टिलक्ष्येण भतिसूक्ष्मया-अतिशयसूक्ष्मया, दृष्ट्या-चक्षुषा, लक्ष्येण-प्रत्येतव्येन, मध्यभागेन कटिप्रदेशेन, भ्राजमानां शोभमानाम् , केनेव ! नीतिमार्गेणेव, तत्पक्षे अतिसूक्ष्मा दृष्टिबुद्धिर्येषां ते अतिसूक्ष्मदृष्टयः पण्डिताः, तैलेक्ष्येण-अधिगन्तव्येनेसर्थः, पुनः कीदृशेन ? आयतिशालिनीमिः देयशोभिनीभिः, तिसृभिः त्रित्वसंख्याविशिष्टाभिः, वलीभिः उदररेखाभिः, उद्भासितेन उद्दीपितेन, काभिरिव ? आयतिशालिनीभिः विस्तृतिशोभिनीभिः, तिसृभिः प्रभावोत्साहमन्त्ररूपैत्रिभिः कारणैरुद्भूताभिः, शक्तिभिः पराक्रमैरिव, नीतिमार्गो यथा तादृशीभिः शक्तिभिरुद्भासते तथैव तन्मध्यभागस्तादृशीभिर्वलिभिरुद्भासित आसीदिति भावः [ख] | पुनः कीदृशीम् ? निराशप्रवृद्धेन निरङ्कुशं-निष्प्रतिबन्धं यथा स्यात् तथा, प्रवृद्धेनसमेधितेन, स्तनभारेण कुचमण्डलगौरवेण, उद्भासिताम् उज्वलिताम् , केनेव ? गतिविलासहसितैः गतिविलासेनगमनविभ्रमेण, गमनसौष्ठवेनेति यावत् , हसितैः-तिरस्कृतैः, जितैरिति यावत् , सहवासिभिः क्षीरसागररूपैकस्थानवासिमिः, क्षीरोदजलधारणैः क्षीरसागरसम्बन्धिजलहस्तिभिः, उपनीतेन उपहृतेन, कुम्मामोगेन मस्तकविस्तारेण, इवेत्यु. स्प्रेक्षा [ग] 1 पुनः कीदृशीम् ? उदधिमन्धने सागरालोडनकाले, लग्नं सम्बद्धम् , सुधारसच्छटावलयमिव अमृतरसच्छविमण्डलमिवेत्युत्प्रेक्षा, आनाभिलम्ब नाभिपर्यन्तं लम्बमानम् , मुक्ताकलापं मौक्तिकमालाम्, कम्बुपरिमण्डलेन शङ्खवद्वर्तुलाकारेण, कण्ठनालेन ग्रीवायष्टिकया, कलयन्तीं धारयन्तीम् [घ]। पुनः कीदृशीम् ? अलिकुलकाणमुखरया अलीनां-भ्रमराणाम् , कुलं-पुनः, तस्य काणैः गुञ्जनात्मकध्वनि विशेषः, मुखरया-वाचालया, अत एव शतमखहृतैरावणादिसहोदरोदम्तदानाय शतमखेन-इन्द्रेण, हृताः-अपहृताः, ये ऐरावतादयः-इस्ति विशेषादया,
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196