Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी ।
प्रकृतिः, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशतयुपेतोऽपि सकलभूभारधारणक्षमः, रक्षिताखिलक्षितितपोवनोऽपि त्रातचतुराश्रमः [श ], सर्वसागरैरिवोत्पादित गाम्भीर्यः, सर्वगिरिभिरिवाविर्भावितोन्नतिः, सर्वज्वलनैरिव जनितप्रतापः, सर्वचन्द्रोदयैरिव रचित कीर्तिः, सर्वमुनिभिरिव निर्मितोपशमः, सर्वकेसरिभिरिव कल्पितपराक्रमः, सर्वमणिमत्रौषधैरिवोपबृंहितप्रभावः [ष], पृथ्वीमय इव स्थैर्ये तिग्मांशुमय
६३
अकृशानुभावोपेतः महाप्रभावयुक्तः । गरः- विषम्, सगरः - चक्रवर्ती । यः शत्रुघ्नः रामभ्राता, स कथं विश्रुतकीर्तिः विगतश्रुतकीर्त्यभिधानभार्यः, अन्यत्र अरिहन्ता प्रख्यातकीर्तिश्च । शेषः - नागराजः, न निषेधे, अन्यन्त्र शेषाः - सर्वाः, श्राश्रमाः- वनस्थानाति, अन्यत्र ब्रह्मचर्यादयः [श ]1
भावोपेतः कृशानुभावम् - अभिभावम्, अभित्वमित्यर्थः, उपेतः- प्राप्तः, यद्वा कृशानुभावेन, उपेतः- युक्त इति कृशानुभावोपेतः, न कृशानुभावोपेत इत्यकृशानुभावोपेतः, अग्निभिन्न इति यावदिति विरोधः, तदुद्धारे तु समिद्-युद्धम्, तद्व्यतिकरेण - तत्सम्बन्धेन, तत्कर्तृत्वेनेत्यर्थः, स्फुरितः - परितः प्रकाशितः, प्रतापः - क्षात्रतेजो यस्य तादृशः अथ च अकृशानुभावोपेतः अकृशेनविपुलेन, अनुभावेन-प्रभावेण, उपेतः - युक्तः, “इन्धनं त्वेध इध्ममेधः समित् स्त्रियाम्” इति, “समुदायः स्त्रियः संयंत् समित्याजि -समिद्युधः" इति चामरः, “ द्वन्द्वं समाघात समाह्वया ऽभिसम्पात सम्मई- समित्प्रघातः । आस्कन्दना -ऽऽजिप्रप-नान्यनीकमभ्यागमश्च प्रविदारणं च” इति, “समिदिन्धनमेषेध्मतर्पणैधांसि भस्म तु" इति चाभिधानचिन्तामणिश्च । पुनः सगरान्वयप्रभवोऽपि गरेण - विषेण, सहितः सगरः सर्पः, तदन्वयः - तद्वंशः प्रभवः - उत्पत्तिस्थानं यस्य तदन्वये प्रभव उत्पत्तिर्यस्य वा तादृशोऽपि, अमृतशीतलप्रकृतिः अमृतस्येव शीतला प्रकृतिः स्वभावो यस्य तादृश इति विरोधः, तदुद्वारे तु सगरः- तत्संज्ञकस्तद्वंशमूलभूतश्चक्रवर्ती नृपस्तद्वंशजः । पुनः शत्रुघ्नोऽपि दशरथकनिष्ठपुत्रोऽपि, विश्रुतकीर्तिः विरहितः श्रुतकीर्त्य - श्रुतकीर्तिनाम्या शत्रुघ्नपन्या इति विश्रुतकीर्तिरिति विरोधः, तदुद्धारे तु शत्रुघ्रः शत्रुहन्ता, अथ च विश्रुतकीर्तिः विख्यातकीर्तिः । पुनः अशेषशच्युपेतोऽपि शेषस्य - शेषनागस्य, शक्तिः शेषशक्तिः, तया उपेतः- युक्त इति शेषशतयुपेतः, न शेषशक्त्युपेत इति अशेषशक्त्युपेतः, तादृशोऽपि शेषशक्तिशून्योऽपि इति यावत् सकलभूभारधारणक्षमः सकलासमग्रा, या भूः - पृथ्वी, तद्भारधारणे- तद्भारवहने, क्षमः -शक्त इति विरोधः, तदुद्धारे तु अशेषाभिः - सकलाभिः, शक्तिभिः, उपेतः - सहितः, अथ च सकलाया भुवो भारधारणे - रक्षणादिभार ग्रहणे क्षमः । पुनः रक्षिताखिलक्षितितपोवनोऽपि रक्षितानि - लता पादपादिच्छेदनाद् वारितानि, क्षितितपोवनानि क्षितेः पृथिव्याः खाधिकृतायाः, तपोवनानि - तपोऽधिष्ठानभूतानि वनानि येन तादृशोऽपि, त्रातचतुराश्रमः त्राता रक्षिताश्चत्वार आश्रमाः- तपखिनिवासमठा येनेति विरोधः, तदुद्धारे तु रक्षिताश्चत्वारो ब्रह्मचर्यादय आश्रमा येन तादृशः, “आश्रमो ब्रह्मचर्यादौ वानप्रस्थे मठे स्त्रियाम्" इति मेदिनी, "ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये । आश्रमोsस्त्री” इत्यमरश्च [श ] । पुनः कीदगसौ राजा ? सर्वसागरैरिव सम्भूय सप्तसमुदैरिव, न तु केनचिदेकेन समुद्रेणेति कर्तुत्प्रेक्षा, उत्पादित गाम्भीर्यः उत्पादितं स्वनिष्ठगाम्भीर्यौपम्येनोद्भावितम् गाम्भीर्यम्-अन्तरप्रवेश्यत्वं यस्य तादृशः । निरतिशयगाम्भीर्यशालीत्यर्थः । पुनः सर्वगिरिभिरिव सम्भूय सर्वपर्वतैरिवेति कर्तुत्प्रेक्षा, आविर्भावितोन्नतिः आविर्भाविता - लोके प्रकटिता, उन्नतिः - उच्चता यस्य तादृशः, परमोच्च इत्यर्थः । पुनः सर्वज्वलनैरिव गाईपत्यादिसकलाग्निभिरिव, जनितप्रतापः उत्पादिततेजाः । पुनः सर्वचन्द्रोदयैरिव सर्वेषां चन्द्राणाम् उदयैरिव, रचितकीर्तिः रचिता निर्मिता कीर्तिश्चन्द्रिकाबदुजवला यस्य तादृशः, अतिवेलविपुलोज्ज्वलकीर्तिशालीत्यर्थः । पुनः सर्वमुनिभिरिव सर्वे न तु कश्चिदेव ये मुनयस्तैरिव, निर्मितोपशमः सम्पादितबाह्याभ्यन्तरेन्द्रियोपशमः, निरतिशयशमदमसम्पन्न इत्यर्थः ।
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196