Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 100
________________ ६४ टिप्पनक-परागविवृतिसंवलिता इव तेजसि, सरस्वतीमय इव वचसि, लक्ष्मीमय इव लापण्ये, सुधामय इव माधुर्ये, तपोमय इवासाध्यसाधनेषु [स], अनर्तितो लक्ष्मीमदविकारैरखलीकृतो व्यसनचक्रपीडाभिरनाकृष्टो विषयमाहैरयश्रितः प्रमदाप्रेमनिगडैरजडीकृतः परमैश्वर्यसन्निपातेन [ ह ], गिरावाप्तप्रतिष्ठः सततमवनेचरतः, श्रितविशुद्धसाधुसमाचारोऽपि सर्वकालमुळ भुजङ्गतया भ्राजितः [क्ष ], सार्वभौमो राजा मेघवाहनो नाम [ ज्ञ] । टिप्पनकम्-ग्राहः-जलचरः, सन्निपात:-ज्वरविशेषः [ह]। यो गिरौ पर्वते, आप्तप्रतिष्ठः प्रासावस्थितिः, स कथम् अवनेचरतः अविद्यमानवनेचरभावः? अन्यत्र गिरा वाचा, अवाप्तप्रतिष्ठः, अवने रक्षणे, च, रतः, यः श्रितविशुद्धसाधुसमाचारः स कथम् उा बृहत्या, भुजङ्गतया राजितः? अन्यत्र उर्ध्या पृथिव्या, भुजं बाहुम् , गतया प्राप्तया, शोभितः [A] । पुनः सर्वकेसरिभिरिव निखिलसिंहै रिव, कल्पितपराक्रमः सम्पादितशौर्यः, निरतिशयशौर्यशालीत्यर्थः । पुनः सर्वमणिमन्त्रौषधैरिव सर्वे ये मणयो मन्त्राश्च सर्वाणि च यान्यौषधानि च, तैः, उपबृंहितप्रभावः उपबृंहितः-वर्धितः, प्रभावो यस्य तादृशः अप्रतिमप्रभावशालीत्यर्थः । अत्र सर्वत्र हेतूत्प्रेक्षाऽलङ्कारः [ष]। पुनः कीदृगसौ राजा ? स्थैर्ये स्थिरताविषये विकारः प्रचुर पृथ्वीको वा पृथ्वीमयः, स इवेति हेतूत्प्रेक्षा । पुनः तेजसि तेजोविषये, तिग्मांशमय इव तिग्माः-तीक्ष्णाः, अंशवः-किरणा यस्यासौ तिग्मांशुः सूर्यः, तद्विकार इव तत्परिणाम इवेत्यर्थः, तत्प्राचुर्यवानिव वा। पुनः वचसि वाग्वैभवविषये, सरस्वतीमय इव सरखतीपरिणाम इव । पुनः लावण्ये सौन्दर्याशे, लक्ष्मीमय इव लक्ष्मीपरिणाम इव । पुनः माधुर्य मधुरतांशे, सर्वप्रियत्वांश इत्यर्थः, अमृतमय इव अमृतपरिणाम इव । पुनः असाध्यसाधनेष असाध्यस्य-साधयितुमशक्यस्य कार्यस्य, साधनेषु-निष्पादनेषु, तपोमय इव तपसः परिणाम इव, तपसा सर्वसिद्धिस्मरणात् [स]। पुनः कीदृगसौ राजा? लक्ष्मीमदविकारैः सम्पत्तिगर्वोद्गारैः, अनर्तितः अनटितः, सम्पत्तौ विद्यमानायामपि तद्र्वानुद्गमैनात्र विशेषोक्तिरलङ्कारः, एवमुत्तरत्रापि कतिपयवाक्ये । पुनः व्यसनचक्रपीडाभिः व्यसनाना-सुरापानादिदुष्कर्मणाम् , चक्रस्य-समूहस्य पीडाभिः-व्यासङ्गव्यथाभिः, अखलीकृतः न नीचतां नीतः, "व्यसनं विपदि भ्रंशे दोषे कामजकोपजे" इत्यमरः । पुनः विषयग्राहैः विषिण्वन्ति खस्मिन् निबध्नन्ति ये ते विषया रूपरसादयः, तद्रूपैः, ग्राहैः-जलजन्तुप्रवरैः, अनाकृष्टः खव्यासजद्वारा अनाकुलितः। पुनः प्रमदाप्रेमनिगडैः प्रमदासु-प्रमदो हर्षोऽस्ति यासा तासु, प्रसन्नप्रकृतिकासु स्त्रीषु, ये प्रेमाणः-प्रीतयः, व्यासङ्गा इत्यर्थः, तद्रूपैः, निगडैः-शृङ्खलैः, अयन्त्रितः अबद्धः, प्रमदाखनासक्त इत्यर्थः । पुनः परमैश्वर्यसन्निपातेन परमम्-अतिशयितम् , यदैश्वर्यं तत्सन्निपातेन-तत्सम्बन्धेन, यद्वा तद्रूपेण सन्निपातेनज्वरविशेषेण, तदुष्मणेत्यर्थः, अजडीकृतः न व्यामोहितः [ह] । पुनः कीदृगसौ राजा ? गिरावाप्तप्रतिष्ठोऽपि गिरौपर्वते, आप्तप्रतिष्ठोऽपि प्राप्तशाश्वतिकस्थितिकोऽपि, सततं नित्यम् , अवनेचरतः अविद्यमानवनेचरताक इति विरोधः, तदुद्धारे तु गिरा वाचा, अवाप्तप्रतिष्ठः प्राप्तप्रतिष्ठः, अथ च सततं सदैव, अवने दीनजनरक्षणे, रतः, च पुनः । पुनः श्रितविशुद्धसमाचारोऽपि श्रितः-प्राप्तः, विशुद्धानां-विशेषेण शुद्धानाम् , पवित्रचरित्रशालिनां साधुजनानामित्यर्थः, समाचारः-सम्यगाचरणं येन तादृशोऽपि, सर्वकालं सततम् , उा प्रचुरया, भुजङ्गतया विटतया, भ्राजितः प्रकाशित इति विरोधः, तदुद्धारे तु उाः पृथिवीरूपविलासिन्याः, भुजङ्गतया विटवद् भोक्तृतया, खामितयेत्यर्थः, भ्राजितः शोभितः, यद्वा भुजं बाहुम्, गतया प्राप्तया, उा पृथिव्या, भ्राजितः शोभितः, “भुजङ्गः सर्प-षिङ्गयोः" इति हैमः [A]। सार्वभौमः सर्वभूमेः-समप्रपृथिव्याः, ईश्वरः, चक्रवतीत्यर्थः, यद्वा सर्वभूमौ विदितः, नामेति वाक्यालङ्कारे द्रष्टव्यः [२]

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196