Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 148
________________ ११२ टिप्पनक-परागविवृतिसंवलिता ततस्तिमिरशिबिरैरिव शरीरप्रभारोषितैः कृततुमुलकोलाहलम् ह], अम्बरागमनसमीरणशोषितसुधाशीकरसेकेन मर्त्यलोकषट्चरणहठचुम्बनशङ्कयेव निबिडसंकोचितमुखीभिर्मन्दारकलिकाभिरन्तरान्तरा दन्तुरितेन किन्नदारूढम्लानिना पारिजातकुसुमशेखरेण विराजमानम् [क्षि], अनेकसुरपादपप्रसूनपरिमलमुचः श्वासपवनानतिदीर्घकालमाघ्रातानाखण्डलक्रीडावनमारुतानिव जवागमनखेदादनबरतमुद्धमन्तमेकं वैमानिकमपश्यत् ज्ञ] । आलोकनमात्रेणैव तं प्रत्युपजातदिव्यतानिश्चयस्य चक्षुर्निमेषादिलिङ्गदर्शनोनीतस्वर्गच्यवनसमयस्य रूपसंपन्निरूपणादात्मनि श्लथीभूतचारुताभिमानग्रन्थेः पार्थिवस्याभून्मनसि–'अहो प्रभावः सुरलोकभूमीनाम् ? यत्र खलु संभूतानि पुण्यभागिनां शरीराण्यप्येवंविधानि भवन्ति यानि चरमास्वपि दशासु ताबदास्तामुपसर्पितुं द्रष्टुमप्यनलमनलमिव वैद्युतं पुमांसः, तथाहि-अस्य वपुषि प्रकामसौम्येऽपि स कोऽपि स्वभाव टिप्पनकम्-अनलम् असमर्थम् , अनलमिव अग्निमिव [अ]। चरणप्रणोदैः-चरणाघातैः, दलिताः-बहिर्जिगमिषया विश्लेषिताः-दलपुटा:-संश्लिष्टपत्राणि यैस्तादृशैः, पुनः कमलगर्भशयनानि कमलमध्यरूपशय्याः, अपहाय २ त्यक्त्वा त्यक्त्वा, धावद्भिः आमोदलिप्सया भ्रमद्भिः, कैरिव ? शरीरप्रभारोषितैः शरीरप्रभया-तदीयशरीरदीप्या, रोषितैः-विद्वेषितैः, तिमिरशिबिरैः अन्धकारसैन्यावासैरिवेत्युत्प्रेक्षा [ह] । पुनः कीदृशम् ? पारिजातकुसुमशेखरेण पारिजातस्य-तत्संज्ञकदिव्यवृक्षस्य, यत् कुसुमं-पुष्पम् , तन्मयेन, शेखरेण-शिरोमाल्येन, विराजमानं सुशोभमानम् , कीदृशेन तेन ? अम्बरागमनसमीरणशोषितसुधाशीकरसेकेन अम्बरात्-आकाशात् , आगमनेन-अवतरणेन, तद्वेगेनेति यावत् , यः समीरणः-वायुः, तेन शोषितः, सुधाशीकरसेकः-अमृतकणक्षरणं यस्मिंस्तादृशेन, पुनः मन्दारकलिकाभिः मन्दारनामकदेववृक्षकोरकैः, अन्तरा अन्तरा मध्ये मध्ये, दन्तुरितेन उन्नमितेन, उपचितेनेति यावत् , कीदृशीनिस्ताभिः ? मर्त्यलोकषट्चरणहठचुम्बनशङ्कयेव मर्त्यलोकस्य-मर्त्यभुवनसम्बन्धिनो ये, षट्चरणाः-भ्रमराः, तैः, हठेन-बलात्कारेण, यचुम्बन-मकरन्दपिपासया ओष्ठसंयोजनम् , तस्य शङ्कयेव-संशयेनेवेति हेतूत्प्रेक्षा, निबिडसंकोचितमुखीभिः निविडम्-अत्यन्तं यथा स्यात्तथा, सोचितं-मुद्रितम् , मुखं याभिस्तादृशीभिः, पुनः कीदृशेन तेन ? किञ्चिदारूढम्लानिना किश्चित् आरूढा-प्राप्ता, म्लानिः-मालिन्यं येन तादृशेन [क्ष ] । पुनः कीदृशम् ? जवागमनखेदात् जवेन-वेगेन, यदागमनम् , तज्जन्यश्रमात् , अनवरतं निरन्तरम् , श्वासपवनान् नासावायून् , उद्धमन्तं निर्गमनागमनमुखेन शब्दाययन्तम् , 'उद्वमन्तम्' इति पाढे त्यजन्तम् , कीदृशांस्तान् ? अनेकसुरपादपप्रसूनपरिमलमुचः अनेकसुरपादपानाम्-अनेकदेववृक्षाणाम् , यानि प्रसूनानि-घातकुसुमानि, तत्परिमलमुचः-तदामोदविस्तारिणः, कानिव ? अतिदीर्घकालं बहुकालपर्यन्तम् , आघ्रातान् समन्तात् घ्राणजप्रत्यक्षगोचरीकृतान् , आखण्डलक्रीडावनमारुतान् आखण्डलस्य-इन्द्रस्य, यत् क्रीडावनं-नन्दनवनम् , तन्मारूतानिव-तदीयविविधकुसुमसौरभाव्यवायूनिवेत्युत्प्रेक्षा, एतावद्विशेषणविशिष्टम् , एकम् , वैमानिक देवविशेषम् , अपश्यत् अद्राक्षीत् [२] - आलोकनमात्रेण केवलदर्शनेनैव, न तु प्रभनेत्यर्थः, तं प्रति निरुक्तव्यक्तिविषये, उपजातदिव्यतानिश्चयस्य उपजातः-प्रादुर्भूतः, दिव्यतायाः-देवत्वस्य निश्चयो यस्य तादृशस्यः पुनः चक्षुर्निमेषादिलिङ्गदर्शनोनीतखर्गच्यवनसमयस्य चक्षुर्निमीलनादिरूपस्य लिङ्गस्य-आसन्नवर्गच्यवनलक्षणस्य, दर्शनेन, उन्नीतः-अनुमितः, खर्गच्यवनसमयः-वर्गतथ्युतिकालप्राप्तियेन तादृशस्य; पुनः रूपसम्पनिरूपणात् सौन्दर्यसम्पदर्शनात् , आत्मनि खस्मिन् , श्लथीभूतचारुताभिमानग्रन्थेः श्लथीभूता चारुताभिमानग्रन्थिः-सौन्दर्याभिमानरूपा ग्रन्थिर्यस्य तादृशस्य; पार्थिवस्य मेघवाहनस्य, मनसि, अभूत् , आश्चर्यमिति शेषः । किमित्याह-अहो आश्चर्यजनकः, सुरलोकभूमीनां स्वर्गभूमीनाम् , प्रभावः माहा. त्म्यम् , यत्र यस्यां भूमौ, खलु निश्चयेन, सम्भूतानि समुत्पन्नानि, पुण्यभागिनां पुण्यशालिनाम् , शरीराणि अपि का कथा बुद्धि-वैभवादीनाम् , एवंविधानि ईदृशानि, भवन्ति सम्पद्यन्ते, चरमावपि अन्तिमास्वपि, दशासु स्वर्गच्यवनावस्थासु, यानि शरीराणि, उपसर्पितुं सन्निधातुम् , आस्ताम् असम्भाव्यान्येव, किन्तु पुमांसः पुरुषाः, वैद्युत विद्युत्सम्बन्धिनम् , अनलमिव अग्निमिव, द्रष्टुमपि दूरतो दृष्टिपथमवतारयितुमपि, अनलम् असमर्थाः, । तावदिति

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196