Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
"तिलकमलरी।
११५ सांप्रतम् , अनुजानीहि माम्, [इ-जानीहि चं मदीयमपि लेशतो वृत्तान्तम्-अहं हि सौधर्मसुरलोकसमा ज्वलनप्रभाभिधानो वैमानिकः संप्रत्येव नाकतः प्रस्थितो गच्छन् पुरस्थितेन कियताऽपि परिजनेनानु गम्यमानो गगनपथेन पथि विलोक्य लोकोत्तरं देवतायतनमिदमिदं मनस्यकरवम्---हन्त ! स एष भगधानशेषजगन्नाभिर्नाभिकुलकरकुलालङ्कारः, कारणं सकललोकव्यवहारसृष्टः, द्रष्टा कालत्रितयवर्तिनां भावानाम्, उपदेष्टा चिरप्रनष्टस्य धर्मतत्त्वस्य, सर्वसत्त्वनिर्निमित्तबन्धुः, सेतुबन्धः संसारसिन्धोः, आद्यो धर्मचक्रवतिनाम् , आराध्यश्चतुर्विधस्यापि सुरनिकायस्य, नायकः समग्राणां गणधरकेवलिप्रमुखाणां महर्षीणामृषभनामा जिनवृषः, यस्य पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः; अवधार्थ चैतदधिकोपजातभक्तिः 'आसतामिहैव मुहूर्तमेकं भवन्तः' इति निवर्त्य पृष्टानुपातिनः सुरपदातीनतिमात्रमुत्सुको गन्तुमङ्गमात्र एवागतः । दृष्टश्चैषभगवानशेषकल्मषक्षयहेतुरादिदेवः [ई।
... टिप्पनकम्- जगन्नाभिः भुवनप्रधानः [ई ] !
. च पुनः, मदीयमपि मदागमनसम्बन्धिनमपि, वृत्तान्तं समाचारम् , लेशतः संक्षेपतः, जानीहि शृणु । किमित्याहहि निश्चयेन, अहं सौधर्मसुरलोकसमा सौधर्मः-सौधर्मनामा, यः सुरलोकः-देवलोकः, प्रथमदेवलोक इत्यर्थः, स समनिवासस्थानं यस्य तादृशः, ज्वलनप्रभाभिधानः ज्वलनस्य अमेरिव प्रभा यस्यासौ ज्वलनप्रभः, तदेवाभिधानम्-अन्वर्थनाम यस्य तादृशः, वैमानिकः विमानवास्तव्यो देवः, सम्प्रत्येव अधुनैव, नाकतः खर्गतः, प्रस्थितः कृतप्रस्थानः, पुरस्थितेन अग्रतः स्थितेन, कियताऽपि कतिपयेनापि, परिवारेण परिजनेन, अनुगम्यमानः आश्रीयमाणः सन् , गगनपथेन आकाशमार्गेण, गच्छन् , पथि मार्गे, लोकोत्तरं परमोत्कृष्टम् , इदं देवायतनं देवमन्दिरम् , विलोक्य दृश, मनसि खहृदि, इदम् अनुपदवक्ष्यमाणप्रकारकं चिन्तनम् , अकरवम् अकार्षम् । किमित्याह-हन्त ! अहो, स वक्ष्यमाणयत्पदप्रतिपाद्यत्वेनाभिप्रेतः, एच एतन्मन्दिरमधिष्ठितः, भगवान् निरतिशयैश्वर्यवान् , ऋषभनामा, जिनवृष: जिनेश्वरः, अस्तीति शेषः । कीदृशः ? अशेषजगन्नाभिनाभिकुलकरकुलालङ्कारः अशेषस्य-समप्रस्य, जगतः-महँलोकस्य, नाभिः-प्रधानभूतं यत्, नाभिकुलकरस्य-कुलकरत्वेन शास्त्रप्रसिद्धस्य नाभिराजस्य, कुलं-वंशः, तस्यालङ्कारः, 'अशेषजगन्नाभि भि०' इति पाठे तु अशेषजगन्नाभिः-निखिलविश्वप्रधान ऋषभजिन इत्यर्थो बोध्यः, "नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात्" इत्यमरः, पुनः सकलव्यवहारसृष्टेः सकललोकव्यवहाररचनायाः, कारणं रचयितेत्यर्थः, पुनः कालत्रितयवर्तिनाम् अतीताऽनागत-वर्तमानकालवर्तिनाम् , भावानां पदार्थानाम् , द्रष्टा युगपद. शेषविशेषपुरस्कारेण प्रत्यक्षयिता, पुनः चिरप्रणष्टस्य दीर्घकालादुच्छिन्नस्थापि, धर्मतत्त्वस्य, उपदेष्टा प्रवर्तयिता, पुनः सर्वसत्त्वनिनिमित्तबन्धुः सर्वेषाम्- एकेन्द्रियपर्यन्तानाम् , सत्वानां-जीवानाम् , निर्मिमित्तः-निष्कारणः, बन्धुः-हितेच्छुः, पुनः संसारसिन्धोः संसारसागरस्योत्तरणाय, सेतुबन्धः सेतुरूपो बन्धः, पुनः धर्मचक्रवर्तिनां धर्मसम्राजाम, तीर्थकुराणामिति यावत् , आधः प्रथमः, पुनः चतुर्विधस्यापि भुवनपतिव्यन्तर-ज्योतिष्क-वैमानिकेतिभेदचंतुष्टयविशिष्टस्मापि, सुरनिकायस्य देवसमूहस्य, आराध्यः उपास्यः, पुनः समप्राणाम् अखिलानाम्, गणधर-केवलिमसमां गणघरा:-त्रिपदीश्रवणमात्रेण द्वादशाशीरचयितारो मुनिविशेषाः, केवलिनः-सर्वज्ञाः, सत्प्रमुखाणां-तत्प्रभृतीनाम् , महर्षीणां महामुनीनाम् , नायकः श्रेष्ठः । यस्य जिनेन्द्रस्य, पुस पूर्वम् , स्वामिना अस्मदायभिपतिना, शक्रेण इन्द्रेण, स्वयं खेनैव, प्रतिष्ठाविधिः प्रतिष्टाकार्यम् , अनुष्टितः कृतः । च पुनः, अवधार्य चैतत् च-पुनः; एतत्-पूर्वोकवृतम्, अव. धार्य-निश्चित्य, अधिकोपजातभक्तिः अधिका-प्रचुरा, उपजाता-उद्भूता, भक्तिः-श्रद्धा मस्य तादशः सन्, "भासता. मिहैव मुहूर्तमेकं भवन्तः' मुहूर्तमेक-क्षणमेकम् , भवन्तः-मदनुचराः, इहैव-अत्रैव, आसतां-तिष्ठन्तु, इति अनेन वाक्येन, पृष्ठानुपातिनः खानुगामिनः, सुरपदातीन् पद्षां गन्तन देवान् , निवर्त्य अत्रागमनानिवार्य, गन्तुम्
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196