Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
११८
टिप्पनक-परागविवृतिसंवलिता सिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमानश्रवणदुष्टहाकष्टशध्दा दृष्टा [ ऊ] | मन्दिरमपि तदीयमप्रवृत्तोत्सवं धृतानुचितवेषनिर्व्यापारनिःशेषकलत्रं चित्रशालास्वसंपाद्यमानहरिचन्दनपङ्कोपलेपं मणिकुट्टिमेष्वक्रियमाणकनकपङ्कजोपहारक्षेपं द्वारतोरणरणरणायमानचण्डपवनेरितशुष्ककतिपयप्रवालवन्दनमालं मृङ्गपटहादिवाद्यध्वनिशून्यनिःशेषनाट्यशालमभूयमाणचारणमिथुनमङ्गलोच्चारमनाकर्ण्यमानकिनरकन्यकावल्लकीझाङ्कारमप्रमत्तविबुधयोधशतसंरक्ष्यमाणगोपुरप्राकारमसुरापहारभीलभव्याप्सरःपरिहतस्वेच्छाविहारमुद्यानवापीध्वनारभ्यमाणविभ्रममजनमुद्विग्नसकलपरिजनं दृष्टम् [ऋ]। इदं चारिष्ठमतिकष्टमप्रतिविधेयं विधिवशात् तत्रो. पजातं तस्य तत्कलत्रस्य वा प्रधानस्य अचिरकालभाविनं विनाशमवश्यतया निवेदयति, न हि येषु केषु.
पुनः सन्तापविधुरविषधरवधूसततप्रार्थ्यमानचन्दनलतागृहावस्थाना सन्तापेन-सम्यक् तापेन, विधुराभिःध्याकुलाभिः, विषधरवधूभिः-भुजङ्गीभिः, सततं प्रार्थ्यमानम्-अपेक्ष्यमाणम् , चन्दनलतागृहावस्थान-चन्दनलतामयगृहेऽवस्थितिर्यस्यां तादृशी, पुनः स्थानस्थानपूज्यमामविभसिद्धायतनदेवताप्रतिमा स्थाने स्थाने-प्रतिदेवस्थानमित्यर्थः, पूज्यमाना-अर्च्यमाना, खिन्ना-परितापवशेन खेदान्विता, सिद्धायतनस्य-सिद्धमन्दिरस्थ, तत्रप्रतिष्ठितेत्यर्थः, देवताप्रतिमा यस्यां तादृशी, पुनः प्रतिमन्दिरं मन्दिरे मन्दिरे, आकर्ण्यमानश्रवणदुष्टहाकष्टशब्दा आकर्ण्यमानाः-श्रूयमाणाः, श्रवणदुष्टाः-श्रुतिकटुत्वदोषान्विताः, हाकष्ट शब्दाः-हा कष्टं हन्त ! दुःखमित्येतदर्थकाः शब्दा यस्यां तादृशी
सदीयं सुमालिदेवसम्बन्धि, मन्दिरमपि भवनमपि, दृष्टं दर्शनगोचरतां नीतम् , मदीयैरनु चरैरिति शेषः, कीदृशम् ? अप्रवृत्तोत्सवम् अप्रवृत्तः-निवृत्तः, उत्सवः-शुभकर्म यस्मिंस्तादृशम् , पुनः धृतानुचितवेषनिर्व्यापारनिःशेषकलत्रं धृतः-अगत्या रचितः, अनुचितः-देवाङ्गनाऽयोग्यः, वेषः कृत्रिमरूपं येन तादृशम् , निापार-चिन्तावशेन व्यापारविमुखम् , निःशेष-समग्रम् , कलत्रम्-अन्तःपुरवर्गों यस्मिंस्तादृशम् , पुनः चित्रशालासुचित्रणालयेषु, असम्पाद्यमानहरिचन्द नपङ्कोपलेपम् असम्पाद्यमानः-अक्रियमाणः, हरिचन्दनपङ्कस्य दिव्यचन्दनद्रवस्य, उपलेपो यस्मिंस्तादृशम् , पुनः मणिकुट्टि मेषु मणिबद्धभूमिघु, अक्रियमाणकनकपङ्कजोपहारक्षेपम् अक्रियमाणः कनकपङ्कजाना-सुवर्णमयकमलानां तद्रूपाणाम् , उपहाराणाम् उपहरणीयवस्तूनाम् , क्षेपः-निवेशो यस्मिंस्तादृशम् , पुनः द्वारतोरणरणरणायमानचण्डपवनेरितशुष्ककतिपयप्रवालवन्दनमालंद्वारतोरणेषु-बहिरेिषु, रणरणायमानैः-ध्वनद्भिः, चण्डपवनैः-उद्धतवायुभिः, ईरिता-कम्पिता, उत्क्षिप्तेत्यर्थः, शुष्का-जीणो, कतिपया, प्रवालाना-नवपत्राणाम्, वन्दनमाला-तोरणमाला यस्मिस्तादृशम्, पु हादिवाद्यध्वनिशून्यनिःशेषनाट्यशालं मृदङ्ग-पटहादीनां-मृहङ्गढक्कादीनाम् , वाद्यानां ध्वनिभिः, शून्या-विरहिता, निःशेषा-समग्रा, नाम्यशाला-नाट्यगृहं यस्मिंस्तादृशम् , पुनः अश्रूयमाणचारणमिथुनमङ्गलोञ्चारम् अश्रूयमाणः, चारणमिथुनेन-बन्दिदम्पतिभ्याम् , मङ्गलोच्चारः-माङ्गलिकशब्दोच्चारण यस्मिंस्तादृशम् , पुनः अनाकर्ण्यमान किन्नरकन्य. कावल्लकीहाङ्कारम् अनाकर्ण्यमानः-अश्रूयमाणः, किन्नरकन्यकानां वल्लकीझाङ्कारः-वीणाकाणो यस्मिंस्तादृशम् , पुनः अप्रमत्तविवुधयोधशतसंरक्ष्यमाणगोपुरप्राकारम् अप्रमत्तेन-अवहितेन, विवुधयोधानां-देवभटानाम् , शतेन संरक्ष्यमाण:-असुरप्रवेशाद्वार्यमाणः, गोपुरप्राकार:-पुरद्वारदेशस्थदर्गभूमियस्मिंस्तादृशम्, पुनः असूरापहारभीतभव्याप्सरस्परिहतस्वेच्छाविहारम् असुरैः-राक्षसः, अपहारात-अपहरणात् , भीताभिः, भव्याभिः-मनोहारिणीभिः, अप्स. रोभिः-खर्वेश्याभिः, परिहृतः-त्यक्तः, स्वेच्छाविहारः-यदेच्छभ्रमणं यस्मिंस्तादृशम् , पुनः उद्यानवापीषु क्रीडाकाननान्तर्ग'तपुष्करिणीषु, अनारभ्यमाणविभ्रममजनम् अनारभ्यमाणम्-अननुष्ठीयमानम्, विभ्रममजनं-सविलासनानं यस्मिंस्तादृशम् । पुनः उद्विग्नसकलपरिजनम् उद्विग्नाः-उद्धान्ताः, सकला:-अशेषाः, परिजना:-बान्धवा यस्मिंस्तादृशम् [क]।
इदं च अनुपदवर्णितप्रकारकं च, अतिकष्ट परमदुःखावहम् , पुनः अप्रतिविधेयम् अप्रतिकार्यम् , अरिष्टम् अशुभम् , विधिवशात् देवयोगात , तत्र तस्यां नगर्याम् , उपजातम् उत्पन्नम् , “अरिष्टमशुभे तके सूतिकागार आसवे" इति विश्व-मेदिन्यौ । तस्य सुमालिदेवस्य, प्रधानस्य पट्टभूतस्य, तत्कलत्रस्य तद्भार्याया चा, अचिरकालभाविनम् अविलम्बभाविनम् , विनाशं मृत्युम् , अवश्यतया ध्रुवतया, निवेदयति सूचयति । हि यतः, येषु केषुचित् साधारणे
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196