Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 159
________________ तिलकमञ्जरी। १२३ ग्योपभोगा भव्यतामस्य भावयता दिव्यदर्शनममोघमिति घोषणां जनस्य किश्चिदरितार्थां चिकीर्षता क्षणमात्रपरिचितमात्मानमीषदनुस्मरणविषयता नेतुमभिलषता प्रीतिप्रगुणितस्य चात्मनस्तरलतां तिरोधातुमक्षमेणायमुपनीयते, न पुनरुपकाराय प्रीतये वा, सर्वस्खदानेनापि देहिनामुपकुर्वतः परेण प्रार्थितां पृथिवीमपि तृणगणनया परित्यजतः किं तद्वस्तु यत्प्रदानेन प्रीतिरुपकारो वा भविष्यति भवतः, सर्वथा दत्तोऽयं मया [ओ]। 'विपत्प्रतीकारासमर्थः क्षीणायुषोऽस्य भिषगिव कथं रिक्थमाहरामि ? अलङ्कारः क्षत्रियकुलस्य याचकद्विज इव कथं प्रतिग्रहमङ्गीकरोमि ? गृहाभ्यागतेनामुना दीयमानं दुर्गतगृहस्थ इव गृह्णन्नपरं लधिमानमासादयिष्यामि, सुरैरपि कृतस्तुतिराभरणखण्डस्य कृते करं प्रसारयनस्यैव वैमानिकस्योपहास्यता यास्यामि' इत्यनेकविकल्पविप्रलम्धमनसा त्वया मनस्विनां वरेण त्रिदशनाथेऽपि भगवति कदाचिदकृतप्रणयभङ्गस्य मे न कार्यः प्रथम. प्रार्थनाभङ्गः, प्रहीतव्यो निर्विचारेण [ औ] । यस्मादुपरोधभीरुत्वादगृह्यमाणोऽपि भवता दूरीभूत एवैष टिप्पनकम्-रिक्थं दग्यम् । प्रणयः- प्रार्थना [ औ]। पूर्वजातेः पूर्वजन्मनः [अं]। न करोति । अस्य हारस्य, अनन्ययोग्योपभोगाम् अनन्ययोग्यः-अन्यायोग्यः, उपभोगो यस्यास्ताहशीम् , भव्यता सुन्दरताम् , भावयता आलोचयता, पुमः दिव्यदर्शनं देवस्य दर्शनम् , अमोघम् अव्यर्थम् , भवतीति जनस्य लोकस्य, घोषणां प्रवादम् , किञ्चित् , चरितार्थी सफलाम् , चिकीर्षता कर्तुमिच्छता, पुनः क्षणमात्रपरिचितं मुहूर्तमात्रदृष्टम् , मात्मानं खम्, ईषत् कि चेत्, अनुस्मरणविषयताम् अनु-पश्चात् , स्मृतिगोचरताम् , नेतुं प्रापयितुम् , अभिलषता कामयमानेन, प्रीतिप्रगुणितस्य प्रीतिपूर्णस्य, आत्मनः खस्य. तरलतां प्रीतिप्रश्टनचपलताम् , तिरोधातुम् अपल. पितम् , अक्षमेण असमर्थेन च, मयाऽपि, अयं हारः, उपनीयते तुभ्यं समर्प्यते, पुनरुपकाराय प्रत्युपकाराय, प्रीतये वा मयि प्रीतिरस्तु एतदर्थ वा, न उपनीयते, यतः सर्वखदानेनापि, देहिनां शरीरिणाम् , उपकुर्वतः उपकारं कुर्वतः, परेण भन्येन, प्रार्थतां याचिताम् , पृथिवीमपि अखण्डभूमण्डलमयि, तृणगणनया तृणबुड्या, परित्यजतः ददतः, भवतः, प्रीतिरुपकारो वा, यत्प्रदानेन यत्समर्पणेन, तद्वस्तु किम् अस्तीति शेषः, न किमपीत्यर्थः, अयं हारः, सर्वथा सर्वप्रकारेण, न किश्चित् खत्वं रक्षित्वति यावत्, दत्तः तुभ्यमर्पितः [ओ]। इत्यनेकविधविकल्पविप्रलब्धमनसा इति-एतादृशैः, अनेकविधैः, विकल्पः, विप्रलब्ध-वञ्चितं मनो यस्य तादृशेन सता, मनस्विनां प्रशस्तमनसाम् , वरेण श्रेष्टेन, स्वया, मे मम, प्रथमप्रार्थनामतः प्रथमायाः, प्रार्थनायाः-हारग्रहणयाच्यायाः, भङ्गः-उच्छेदः, न, कार्यः कर्तुमुचितः, कीदृशस्य मे ? भगवति, त्रिदशनाथेऽपि इन्द्रेऽपि, तद्विषयेऽपीत्यर्थः, कदाचित कस्मिंश्चिदवसरे, अकृतप्रणयमङ्गस्य अकृतप्रेमभन्जस्य । कीदृशा अनेकविकल्पाः ? क्षीणायुषः अल्पावशिष्टायुषः, अस्य देवस्य, विपत्प्रतीकारासमर्थः विप. तीना-दुःखानाम् , प्रतीकारे-निवारणे, असमर्थोऽहम् , भिषगिव तादृशवैद्य इव, ऋक् धन हाररूपम् , कथं केन प्रकारेण, गृहामि स्वीकरोमि !, किच क्षत्रियकुलस्य क्षत्रियवंशस्य, अलङ्कारः भूषणभूतः, अहमिति शेषः, याचकविज इव याचनात्मकवृत्तिमान् विप्र इव, कथं प्रतिग्रहं दीयमानवस्तुग्रहणम् , अङ्गीकरोमि खीकरोमि, किच महाभ्यागतेनं महहातिषिभूतेन, अमुना देवेन, दीयमानं समप्यमाणं वस्तु, दुर्गतगृहस्थ इव दरिद्रगृहपतिरिव, राहन, अपरं पूर्वोक्तातिरिकम् , लब्धिमानं नीवत्वम् , आसादयिष्यामि प्राप्स्यामि, सुरैरपि, कृतस्तुतिः कृता स्तुतिः-वदान्यत्वप्रशंसा यस्य तादृशः, अहमिति शेषः, आभरणखण्डस्य एकमात्रस्याभूषणस्य, कृते, करं खहस्तम् , प्रसारयन् , अस्यैव दातुरेव वैमानिकस्य देवस्य, उपहास्यताम् उपहासयोग्यताम् , यास्यामि प्राप्स्यामि । निर्विचारेण प्रहणाग्रहणविचारशल्येन, भवतेति शेषः, ग्रहीतव्यः, एष हार इति शेषः [औ] । पसाद यतः, उपरोपभीरवाद् मीयान्तःपुरमयात्, भवसा, भरखमाणोऽपि भखीक्रियमाणोऽपि, पषा

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196