Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 164
________________ (१२८ टिप्पनक-परागविवृतिसंवलिता उल्बणास्थिपन्थिना जानुयुगलेन क्षीणमांसेन च निकाममूरुकाण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षम् [ड], अधृणाञ्चनादाननोद्वान्तगरेण जरदजगरेण गाढीकृतक्षतजक्काथरक्ताद्रशार्दूलचर्मसिचयम् [6], असृक्प्रवाहपाटलया वैतरणीसरित्सलिलवेणिकयेव पृथुलदीर्घया रोमलतया सीमन्तितकरालकुक्षिकुहरपातालम् [ण], आईपकपटलश्याममतिकृशतया कायस्य दूरदर्शितोन्नतीनां पशुकानामन्तरालद्रोणीषु निद्रायमाणशिशुसरीसृपं सीरगतिमार्गनिर्गताविरलविषकन्दलं साक्षादिवाधर्मक्षेत्रमुरःप्रदेशं दर्शयन्तम् [त], अचिरखण्डिनं मन्त्रसाधकमुण्डमिन्दुखण्डश्रद्धया धवलकुटिलान् दंष्ट्रानिर्गमानपहरन्तमासादितं विधुन्तुदमिव गलावलम्बित बिभ्राणम् [थ], अतिभारविघटिताङ्गुलीसंनिवेशगलितमुच्छलितरुधिरच्छटाच्छोटितायतनस्तम्भकुम्भिकसाशाकरिकुम्भस्थलास्थिस्थूलमतिदूरलुठितमपि रक्तासवकपालमनुभावदर्शितात्यद्भुतभुजायामेन पाणिना वामेन . टिप्पनकम् - अघृणाशन-निर्दयखचनम् [6]। सीर-हलम् [त]। विधुन्तुदं राहुम् , [थ]। वैतरणी नदी, [ण ]। पशुकानां पंशुलीनाम् , नेत्यर्थः । पुनः कीदृशम् ? उल्वणास्थिग्रन्थिना उल्वणा-स्थूलतया व्यक्तेत्यर्थः, अस्थिग्रन्थिः-अस्थिरूपा-प्रन्धिर्यस्मिन् तादृशेन, जानुयुगलेन जोरुमध्यावयवद्वयेन, निकामम् अत्यन्तं यथा स्यात् तथा, क्षीणमांसेन अल्पमांसेन, ऊरकाण्डद्वयेन सक्थिदण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षः विश्राणितः-सम्पादितः, परस्परगुणस्य, प्रकर्षः-उत्कर्षो यस्मिंस्तादृशम् ड] । पुनः कीदृशम् ? अघृणाचनात् निर्दयगमनात्, आननोद्वान्तगरेण आननात्-मुखात्, उद्वान्तम्उगीर्णम् , गर्र-विषं येन तादृशेन, जरदजगरेण जरता-जीर्णेन, परिणतविषेणेति यावत् . अजगरेण-सर्पराजेन, गाढीकृतक्षतजकाथरकाशार्दूलचर्मसिचयं गाढीकृतानि सान्द्रीकृतानि, यानि क्षतानि - व्रणानि, तेभ्यो जातैः, काथरक्तैः-परिगतरुधिरैः, आर्द्रः-क्लिन्नः, शार्दूलचर्मसिचयः-व्याघ्रचर्मोत्तरीयवस्त्रं यस्य तादृशम् [6] ! पुनः कीदृशम् ? रोमलतया रोमावल्या, सीमन्तितकरालकुक्षिकुहरपातालं सीमन्तितं-सीमन्तः-केशवेशः, स सजातो यस्मिंस्तादृशम् , करालम्, कुक्षिकुहररूपम्-उदरविवररूपं पातालं यस्य तादृशम् , कीदृश्या तया? असृक्प्रवाहपाटलया असृजां-रुधिराणाम् , प्रवाहेण, पाटलया-रकवर्णया, पुनः पृथुलदीर्घया विस्तृतया आयतया च, कयेव? वैतरणीसरित्सलिलवेणिकयेव वैतरण्याःतमाभ्याः सरितः, यमद्वारस्थनद्याः, सलिलवेणिकयेव-जलावर्तेनेव पातालपक्षे सलिलरूपया वेण्या केशपाशेनेति [ण] 1 पुनः कीदृशम् ? उरःप्रदेशं वक्षःप्रदेशम् , दर्शयन्तम् , कीदृशं तं प्रदेशम् ? आर्द्रपङ्कपटलश्यामम् आई यत् पडपटलं-कर्दमसमूहः, तद्वत् श्याम-नीलवर्णम् , पुनः कायस्य शरीरस्य, अतिकृशतया कार्यातिशयेन हेतुना, दूरदर्शितोन्नतीनां दूराद् दर्शिता-प्रकटिता, उन्नतिः-उच्चत्वं यासां तादृशीनाम् , पशुकानाम् उभयपार्श्वलम्बमानानामस्माम् , पंशुलीनामित्यर्थः, अन्तरालद्रोणीषु मध्यभूतासु, द्रोणीषु-वैणवपात्रविशेषेषु, निद्रायमाणाः-स्वापसुखमनुभवन्तः, शिशुसरी. सुपाः-बालसा यस्मिंस्तादृशम् , किमिव ? सीरगतिमार्गनिर्गताविरलविषकन्दलं सीरस्य-हलस्य, यो गतिमार्गः-गमनमार्गः, तस्माभिर्गतानि, विषकन्दलानि-विषमयनवाङ्कुरा यस्मिंस्तादृशम् , साक्षाद् अधर्मक्षेत्रमिव अधर्मभूमिमिवेत्युम्प्रेक्षा [त]। पुनः कीदृशं तम् ? अचिरखण्डितं तत्क्षणच्छिन्नम् , मन्त्रसाधकमुण्डं मन्त्रसिद्धिप्रयोजकं मुण्डम् , गलावलम्बितं गले-ग्रीवायाम् , अवलम्बितं-लम्बमानाकारेण, बिभ्राणं धारयन्तम् , कमिव? इन्दुखण्डश्रद्धया अर्धचन्द्रप्रीत्या, सदुज्येति यावत्, कुटिलान् वकरूपान् , दंष्ट्रानिर्गमान् दंष्ट्रानिर्गततेजःपुञ्जान् , अपहरन्तं प्रसन्तम् , आसादितं कुत्रचिनिगृह्य गृहीतम्, विधुन्तुदमिव राहुमिवेत्युत्प्रेक्षा [थ]। पुनः कीदृशं तम् ? वामेन दक्षिणेतरेण, पाणिना हस्तेन, रक्तासवकपालं रक्तस्य-रक्तवर्णस्य रुधिररूपस्य वा, आसवस्य-मद्यस्य, कपालं-पात्रम् , आददानं गृहन्तम् , कीदृशं तत् ? अतिभारविघटिताङ्गुलीसनिवेशगलितम् अतिभारेण-भारातिशयेन, विघटितः-विश्लेषितः, यः, अडलिसन्निवेशः-अजलीनां सम्पुटीभावः, तेन गलितं-पतितम् , पुनः उच्छलितरुधिरच्छटाछोटिताऽऽयतनस्तम्भकुम्भिकम् उच्छलितया-उद्वेलितया, रुधिरच्छटया-शोणितधारया, आछोटिता-उत्सिता, आयत्नस्य-मन्दिरस्य, स्तम्भाना-स्थूणानाम् , कुम्भिका-कुम्भाकारविभागो येन तादृशम् , पुनः आशाकरिकुम्भस्थलास्थिस्थूलम् आशाकरिणां-दिग्गजानाम् , यादि कुम्भस्थलानि-मस्तकस्थलानि, तेषाम् अस्त्रिवत् स्थूलम्, पुनः अतिदूरलुण्ठितमपि अत्यन्तदूरे प्रक्षिप्तमपि, वामेन

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196