Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१२२
टिप्पनक - परागविवृति संचलिता
'प्रियसुन्दर्याः कण्ठदेशे, तयाऽध्यतिशयितशीतरश्मिरोचिषमस्य शुचितागुणं शचीप्रसादं च बहु मम्यमानयां मुक्त्वाऽन्यानि कन्धराभरणानि धारितः सुचिरम्, अद्य तु कापि धर्म्ये कर्मणि नियुज्य तामागच्छता मया विरहविनोदार्थमारोप्य कण्ठे सुहृद्दर्शनोत्कण्ठितेनानीतः [ ए ] । तदेष संप्रति स्वभावधवलरुचिः कालच्छायाकवलितमरुच्येव मोक्तुकामो मामवाप्य कथमपि पुण्यपरिणत्या प्राच्यया संयोजितं त्वां मुक्तामयवपुषमशेषतो मुक्तामयस्त्रासविरहितमपेतत्रासः स्वच्छाशयमतिस्वच्छो गुणवन्तमतिशयोऽचलगुणः प्राप्नोतु सदृशवस्तुसंयोप्रीति [ ऐ] । अस्य हि परित्यक्तसुरलोकवासस्य दूरीभूतदुग्धसागरोदर स्थितेस्त्वद्वसतिरेव स्थानम्, 1 न हि त्र्यम्बकजटाकलापमन्तरिक्षं वा विहाय क्षीणोऽपि हरिणलक्ष्मा क्षितौ पदं बध्नाति, मयाऽप्यनन्ययो
टिप्पनकम् - मुकामयवपुषं मुक्तरोगतनुम्, मुक्तामयः मौक्तिकनिर्मितः । श्रासविरहितं भववर्जितम्, अपेतत्रासः अपगतत्रासदोषः । आशय:- चित्तम् । गुणवन्तं दीप्रतादिगुणयुक्तम्, अतिशयोज्ज्वलगुणः अतिनिर्मलचरकः [ ] 1
!
अतिभूरिकालपर्यन्तम्, मण्डनं भूषणं कृत्वा, लखीप्रेमहृतहृदयया सख्यां यत् प्रेम-स्नेहः, तेन हृतम्-आकृष्टं हृदयं यस्याः तया, प्रियसुन्दर्याः प्रियन्तुः- श्यामा लता, तद्वत् सुन्दर्याः, मत्प्रियायाः मद्भार्यायाः खसख्याः, कण्ठदेशे, अर्पितः निहितः, "श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली" इत्यमरः । तथा मद्भार्यया अपि, अति. शयितशीतरश्मिरोचिषम् अतिशयितं - तिरस्कृतम्, शीतरश्मेः - चन्द्रस्य, रोचिः - प्रकाशो येन तादृशम्, अस्य हारस्य, शुचितागुणम् उज्वलतारूपं गुगम्, शचीप्रसादं शच्याः - इन्द्राण्याः, प्रसाद - प्रसन्नतां च, बहु मन्यमानया अधिक मन्यमानया, अन्यानि तदितराणि, कन्धराभरणानि ग्रीवाऽलङ्करणानि, मुक्त्वा त्यक्त्वा, सुचिरम् अतिदीर्घकाल यात्रत्, धारितः ग्रीवायां परिहितः । अद्य अस्मिन् दिने तु तां खप्रियाम्, क्वापि कस्मिंश्चित् धर्म्ये धर्मादनपेते, धार्मिके इत्यर्थः, कर्मणि कार्ये, नियुज्य तत्कर्तृत्वेन नियम्य, सुहृद्दर्शनोत्कण्ठितेन मित्रदेवदर्शनोत्सुकेन, आगच्छता अत्रागमनं कुर्वता, मया, विरहविनोदार्थं तद्विरहेऽपि तदीयवस्तुना यो विनोदस्तदर्थम्, यद्वा विरहस्य तद्विश्लेषजन्यदुःखस्य, यो विनोदः - विशेषेण नोदः - अपनोदनम्, तदर्थम् कण्ठे स्वग्रीवायाम्, आरोप्य धृत्वा, आनीतः अत्रोपस्थापितः [५] । तदेषः सोऽयं हारः, यतः स्वयं स्वभाव धवलरुचिः स्वभावतः स्वच्छकान्तिः, अतः, सम्प्रति दिव्यदेहावसान - समये, कालच्छाया कवलितं कालच्छायया-मरणचिह्नभूतया कृष्णकान्त्या कवलितं मामू, अरुच्या अप्रीत्या, इव, मोक्तुकामः मोक्तुमिच्छुः, प्राच्यया पूर्वानुष्ठितया पुण्यपरिणत्या सुकृतोदयेन, संयोजितं सम्बन्धितम् त्वाम्, कथमपि कथश्चिदपि, अवाप्य प्राप्य, संयुज्येत्यर्थः, सहशवस्तुसंयोगजाम् अनुरूपवस्तु सम्बन्धप्रयुताम्, प्रीतिं परस्परस्नेहम्, प्राप्नोतु अनुभवतु । कथं तयोरानुरूप्यमित्याह - खयम् अशेषतः साकल्येन मुक्तामयः मुक्तामणिमयः, स्वामपि मुक्तामयवपुषं मुक्तः - त्यक्तः, आमयः -- व्याधिर्येन तादृशं वपुः शरीरं यस्य तादृशम् खयम् अपेतत्रासः अपेतःविध्वस्तः, त्रासः-धारयितुः त्रासः - अशुभभयं येन तादृशः, त्वामपि श्रासविरहितं रिपुभयवर्जितम्, पुनः खयम् अतिस्वच्छः अतिनिर्मलः, त्वामपि स्वच्छाशयं स्वच्छः - निष्कपटः, आशयः - अन्तःकरणं यस्य तादृशम्, पुनः खयम् अतिश योजवलगुणः अतिशयेनोज्ज्वलः - स्फीतः गुणः सूत्रं यस्मिंस्तादृशः, त्वामपि गुणवन्तं दया- दाक्षिण्यादिगुणविशिष्टम्, सर्वमेतत् ‘प्राप्नोतु' इत्यनेनान्वेति [ ऐ] |
हि निश्चयेन, परित्यक्तसुरलोकवासस्य परित्यक्तः, सुरलोके देवलोके, वासः स्थितिर्येन तादृशस्य, पुनः दूरीभूतदुग्धसागरोदरस्थितेः दूरीभूता, दुग्धसागरोदरे- क्षीरसागरमध्ये, स्थितिर्यस्य तादृशस्य, अस्य हारस्य त्वद्वसतिरेव त्वद्भवनमेव स्थानम् अधुना तत्तुल्यमाहात्म्यकं द्वितीयं वासस्थानम् । हि यतः, क्षीणोऽपि क्षयावस्थोऽपि, हरिणलक्ष्मा हरिणः - मृगः, लक्ष्म- लाञ्छनं यस्य तादृशः, चन्द्रमा इत्यर्थः त्र्यम्बकजटाकलापं त्रीणि, अम्बकानि-लोचनानि यस्य तस्य, शिनस्य, जटाकलापं-जटासमूहम्, अन्तरिक्षम् आकाशं वा, विहाय क्षितौ पृथिव्याम्, पदं खस्थानम्, न बध्नाति
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196