Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 161
________________ तिलकमञ्जरी। कोमलकरामलिना प्रथमाभिभाषणेन, तेन सुरपतिप्रशंसाप्रकाशनपुरःसरेण विस्तरयता बस्तत्वकमनेन तेन च दूरं परिहृतदिव्यतावलेपस्पृहणीयेन प्रतिप्राणाय भूयोभूयः कृतेन प्रणयप्रार्थनेन चूरमावर्जितानाः प्रकृतिनिःस्पृहोऽपि परोपचारेष्वतिस्पृहयालुरिव सत्वरमुपसृत्य प्रसार्य करयुगलमयतस्तं जग्राह [अ] . देवोऽप्यसावलक्षितगतिस्तस्मिन्नेव क्षणे झटित्यदर्शनमगमत् । तिरोभूते च तस्मिन्नुपजातविस्मयो नरपतिनिरीक्ष्य चक्षुषा निश्चलेन तं हारमुत्तरीयाश्चलैकदेशे बबन्ध । प्रविश्य च शक्रोवतारायतनमध्यमाराध्य भगवन्तमतिचिरमादिदेवमागत्य निजसदनमुपपाद्य भक्त्यतिशयेन श्रियः सायंतनी सपर्यामभिमुखीभूय तन्मुखनिहितनिश्चललोचनो निषसाद । निजगाद च-भगवति! त्वचरणारविन्दसेवानुभावोऽयम् , यदस्मादृशामपि मनुष्यमात्राणामशेषत्रिभुवनमाननीया घासबसमानौजसो वैमानिकाः संनिधिमभिलषन्ति, योगिज्ञानगोचरं चात्मनो रूपमध्यक्षविषयीकुर्वन्ति, प्रकटितसंभ्रमाश्च दृष्टिदानसंभाषणादिना बहुमानेन तदने, करयुगलं हस्तद्वयम् , प्रसार्य च तं हारे जग्राह गृहीतवान् । कीदृशः सन् ? दूर दूरे, आवर्जितमनाः आकृष्टः .हृदयः सन्, केन? चर्मचक्षषां चर्मोपहितचक्षुरिन्द्रियवताम्, बाह्यशामित्यर्थः, आध्यात्मिक ष्टशून्यानामिति यावत: अगोचरेण अप्रत्यक्षभूतेन, तेन तत्कालमनुभूतेन, तस्य देवस्य, साक्षात् प्रत्यक्षात्मना, निजदिव्यरूपाविष्करणेन निज-खकीयम् , यद् दिव्यं-वर्गीय, दिव्यस्य-देवसम्बन्धि वा, रूपं-स्वरूपम् , तस्य, आविष्करणेन-प्रकटनेन, पुनः सितो. नेदपूर्वेण मन्दहासोद्गमपूर्वकेण, वक्षसि वक्षःस्थले, रचितकोमलकराञ्जलिना रचितः-निर्मितः, कोमलयोः करयोः, अजलिः-सम्पुटो यत्र तादृशेन; तेन तत्कालमनुभूतेन प्रथमाभिभाषणेन प्राथमिकालापेन, पुनः सुरपतिप्रशंसाप्रकाशनपुरस्सरेण सुरपतिना-देवेन्द्रकर्तृका, या प्रशंसा-तस्य राज्ञो गुणकीर्तनम् , तस्य प्रकाशनमनुवादस्तत्पूर्वकेण, विस्तरवता विस्तीर्णेन, तेन तत्कालमनुभूतेन खवृत्तान्तकथनेन स्वस्य-राज्ञः, वृत्तान्तस्य वर्णनेन, च पुनः, दरंदरे, परिहतदिव्यतावलेपस्पृहणीयेन परिहृतः-परिवर्जितो यो, दिव्यतावलेपः-देवत्वाभिमानः, तेन स्पृहणीयेन-मनोहारिणा, प्रतिमाहणाय स्वीकारयितुम् , भूयो भूयः पुनः पुनः, कृतेन विहितेन, तेन तत्कालमनुभूतेन प्रणयप्रार्थनेन [ ] । ___ असौ देवोऽपि, अलक्षितगतिः अलक्षिता-अदृष्टा, गतिः-गमनं यस्य तादृशः, तस्मिन्नेव क्षणे तत्कृतहारग्रहणक्षण एक, झटिति शीघ्रम् , अदर्शनम् अन्तर्ध्यानम् , अगमत् । तस्मिन् देवे, तिरोभूते अन्तर्हिते सति, उपजात. विस्मयः उपजातः-उत्पन्नः, विस्मयः-सद्योऽदर्शनाश्चयं यस्य तादृशः, नरपतिः मेघवाहननृपतिः, निश्चलेन स्थिरेण, चक्षुषा, तं हार निरीक्ष्य दृष्ट्या, उत्तरीयाञ्चलैकदेशे उत्तरीयस्य-स्कन्धोपरिधृतवस्त्रस्य, यदञ्चलम्-अग्रभागः, तदेकदेशे सदेककोणे, बबन्ध बद्धवान् । च पुनः, शक्रावतारायतनमध्यं शकावतारायतनस्य-शकावतारमन्दिरस्प, मध्यं-मध्यभागम् , प्रविश्य, अतिचिरम् अतिदीर्घकालम् , भगवन्तम् , आदिदेवम् आदिनाथम् ; आराध्य अर्चित्वा, निजसदनं खभवनम् , आगत्य, भत्त्यतिशयेन परमभक्त्या, श्रियः लक्ष्म्याः , सायन्तनी सायंकालिकीम् , सपर्याम् अाम् उपपाद्य अनुष्ठाय, अभिमुखीभूय लक्ष्म्याः सम्मुखीभूय, तन्मुख निहितनिश्चललोचनः तस्याः-लक्ष्म्याः, मुखे, निहिते-स्थापिते, निश्चले-स्थिरे, लोचने यस्य तादृशः सन् , निषसाद उपविवेश । च पुनः, निजगाद निगदितवान् । किमित्याह -भगवति! अयम् अनुपदमनुभूतः खयमुपेतवैमानिकसाक्षात्कारसंलापादिः; त्वचरणारविन्दसेवानुभाव: त्वचरणारविन्दयोः, सेवायाः-आराधनायाः, अनुभावः-फलम् , यत् यस्माद्धेतोः, अशेषत्रिभुवनमाननीयाः अशेषस्यसमस्तस्य, त्रिभुवनस्य-वर्ग-मल पाताललोकानाम् , माननीयाः-पूजनीयाः, वासवसमानौजसः वासवेन- इन्द्रेण, समानसदृशम् , भोजः-शक्तिर्येषां तादृशाः, वैमानिकाः विमानवासव्यदेवाः, अस्साहशाम् अस्मद्विधानाम् , मनुष्यमात्राणां साधारणमनुष्याणामपि, सन्निधि सङ्गमम् , अभिलषन्ति कामयन्ते, च पुनः, योगिज्ञानगोचरं योगिमात्र प्रत्यक्षविषयम्, आत्मनः खस्य, देवस्ये यर्थः, रूपं स्वरूपम् , अध्यक्षविषयी कुर्वन्ति मानवसामान्य रत्यक्षविषयतामादयन्ति, च पुनः, प्रकटितसम्भ्रमाः प्रकटितः-आविष्कृतः, सम्ञमा कौतुकं यैस्तादृशाः सन्तः, दृष्टिदानसम्भाषणादिना दृष्टिदान-दृष्टिपातः, सम्भाषणं-प्रेमालापः, सदादिमा, बहुमान भूयसाऽऽदरेण, महिमानं महनम् . भारोपवन्ति

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196