Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१२०
टिप्पनक - पराग विवृतिसंवलिता
हृदयदस्यवो रम्भालास्यकरणप्रयोगाः, विप्रयोगोन्मुखं तुम्बुरुमुखेन श्रवणरन्धमधुरगान्धारग्राममुच्छेनाश्रवणम्, उच्छन्नकल्पा कल्पतरुलताछन्नेषु नाकमन्दाकिनीकच्छेषु स्वेच्छाविहारक्रीडा, कोडीकृतं मनुष्यलोकावतारस्मरणपीडया निबिडमन्तःकरणम्, आकारितदुःखसंहतिरभिमुखीभूता सपरिजनेव गर्भवासनरकगतिः [ल]। ईदृशे व सर्वतः समुपस्थितेऽतिदुर्निवारव्यसनजा ते सर्वतोमुखप्रसृत दुर्विषहशोकसंततौ संतापकारिणि कातराणां वैकुव्यदायिनि क्लीयानामुपजनितसंसारसुखवैमुख्ये विवेकिनमुदीरितपरोपकार बुद्धाबुदारचेतसामतिदारुणदशापाके कथविदुपजात संगमस्य सुरपतिप्रशंसाश्रवणदिवसादारभ्य प्रतिदिवसमभिलषितदर्शनप्रा प्ते राकारदर्शनेनैव प्रशमितसकलहृदयोद्वेगतमसो महात्मनः सर्वात्मना प्रियं कर्तुमन्तःकरणमुत्सहते मदीयम्, मन्दायते च त्रिभुवनातिशायिसत्त्वमलुब्धतां च तावक प्रागुपश्रुतां विचिन्त्य प्रत्याख्यानलाघवमुत्प्रेक्षमाणम्, अतो न शक्नोमि सर्वथै
द्रष्टुमशक्यतां गताः प्राप्ताः । तुम्बुरुमुखेन तुम्बुरुनामकगन्धर्व विशेषमुखेन, श्रवणरन्ध्रमधुरगान्धारमा ममूर्च्छनाश्रवणं श्रवणरन्ध्रमधुरं कर्णविवरप्रियम्, गान्धारो रागविशेषः, ग्राम: - "यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते " ॥ इत्यन्यत्र परिभाषितस्वरसङ्घातविशेषः, मूच्र्छना - "खरः संमूच्छितो यत्र रागतप्रतिपद्यते । मूर्च्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम्" ॥ इत्यन्यत्रोक्तमामजन्य खरावस्थाविशेषः, तासां श्रवण-श्रवणसुखम् विप्रयोगोन्मुखं विरहोद्यतम्, कल्पतरुलताच्छन्नेषु कल्पतरुलतया - कल्पवृक्षपङ्ख्या, आच्छन्नेषु - पिहितेषु, नाकमन्दाकिनी कच्छेषु स्वर्गङ्गातटेषु, स्वेच्छाविहारक्रीडा यथेच्छभ्रमणात्मिका कीडा, उच्छिन्नकल्पा निवृत्ताया, मनुष्यलोकावतारस्मरणपीडया मनुष्यलोके -मर्त्यभुवने, अवतारस्य - आगमनस्य, स्मरणेन या पीडा तथा, निबिडम् अत्यन्तं यथा स्यात् तथा, अन्तःकरणं क्रोडीकृतम् आक्रान्तम्, आकारितदुःखसंहतिः आकारिता - आहूता, दुःखसंहतिः-दुःखसमूहो यया तादृशी, गर्भावासनरकगतिः गर्भवास एवं नरकगतिः- नरकप्राप्तिः, सपरिजनेव परिवारसहि तेव, अभिमुखीभूता सम्मुखीभूता [ ऌ ] ।
च पुनः, ईदृशे अनुपदमुपवर्णिते, सर्वतः समन्ततः, समुपस्थिते सम्यगुपनते, अतिदुर्निवारव्यसन जाते अतिदुःखेन निवारयितुं शक्ये, व्यसनजाते --दुःखसमूहे सति, मदीयं मामकम्, अन्तःकरणं हृदयम् तव, सर्वात्मना सर्वप्रकारेण, प्रियं हितम्, कर्तुम्, उत्सहते उत्साहमाप्नोति, कीदृशे व्यसनजाते ! सर्वतोमुखप्रसृत दुर्विषहशोके सर्वतोमुखं यथा स्यात् तथा, सर्वात्मनेत्यर्थः, प्रसृता-प्रवृद्धा, दुर्विषहा- दुस्सहा, शोकसन्ततिः- शोकसमूहो यस्मिन् तादृशे, पुनः कातराणाम् अधीराणाम्, सन्तापकारिणि अन्तर्दोहजनके, पुनः क्लीबानां निर्बलानाम आध्यात्मिकशक्तिशून्यामिति यावत्, वैक्लव्यदायिनि व्याकुलताssधायके, पुनः विवेकिनां सदसद्विचारवताम् उपजनित संसारसुखवैमुख्ये उपजनितम् - उत्पादितम्, संसारसुखवैमुख्यं वैराग्यं येन तादृशे, पुनः उदारचेतसाम् उदारहृदयानाम्, उदीरितपरोपकार बुद्धौ उदीरिता- आविष्कृता, परोपकारबुद्धिः - परहित कर्तव्यत्वबुद्धिर्येन तादृशे, पुनः अतिदारुणदशापाके व्यतिदारुणः-परमभयङ्करः, दशापाकः - देवत्वावस्थाऽवसानं यस्मिंस्तादृशेः कीदृशस्य तत्र ? कथश्चिदुपजातसङ्गमस्य कथ श्चित् केनापि प्रकारेण, उपजातः सञ्जातः, सङ्गमः - सम्मेलनं यस्य तादृशस्य पुनः सुरपतिप्रशंसाश्रवणदिवसात् सुरपतिना - इन्द्रेण, या तव प्रशंसा कृताऽऽसीत् तस्याः श्रवणस्य यो दिवसः - दिनं तस्मात् आरभ्य, प्रतिदिवस - प्रतिदिनम्, अभिलषितदर्शनप्राप्तेः अभिलषिता अभिवाञ्छिता, दर्शनप्राप्तिर्यस्य तादृशस्य, आकारदर्शनेनैव सुधाशीकरोद्वारि स्वरूपदर्शनमात्रेण, प्रशमितल कलहृदयोद्वेगतमसः प्रशमितं - प्रकर्षेण शान्तिमापादितम्, सकलं - समस्तम्, हृदयस्य-हृदयसम्बन्धि, उद्वेगतमः-सम्भ्रमरूपान्धकारो येन तादृशस्य, पुनः महात्मनः महानुभावस्य । च पुनः, त्रिभुवनातिशायिसत्त्वं त्रिभुवनातिशायि - त्रिलोकोत्तरम्, सत्त्वं खभावो यस्य तादृशम् - "सत्वं गुणे पिशाचादी बले द्रव्य-स्वभावयोः” इति . मेदिनी, मदीयमन्तःकरणम्, प्राक् पूर्वम्, उपश्रुतां श्रुतिगोचरीकृताम् तावकीं त्वदीयाम्, अलुब्धतां कापि वस्तुन्यबोलुपता, विचिन्त्य स्मृत्वा प्रत्याख्यानलाघवं प्रत्याख्याने - मदभ्यर्थ्य मानवरप्रार्थनाप्रतिषेधे, लाघवं स्वस्यापसादनम्, उत्प्रेक्षमाणं सम्भावयत्, मन्दायते तदभ्यर्थने मान्द्यमापद्यते, उत्प्रेक्ष्यमाणमिति पाठे तु उत्प्रेक्ष्यमाणं - सम्भाव्यमानं
,
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196