SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२० टिप्पनक - पराग विवृतिसंवलिता हृदयदस्यवो रम्भालास्यकरणप्रयोगाः, विप्रयोगोन्मुखं तुम्बुरुमुखेन श्रवणरन्धमधुरगान्धारग्राममुच्छेनाश्रवणम्, उच्छन्नकल्पा कल्पतरुलताछन्नेषु नाकमन्दाकिनीकच्छेषु स्वेच्छाविहारक्रीडा, कोडीकृतं मनुष्यलोकावतारस्मरणपीडया निबिडमन्तःकरणम्, आकारितदुःखसंहतिरभिमुखीभूता सपरिजनेव गर्भवासनरकगतिः [ल]। ईदृशे व सर्वतः समुपस्थितेऽतिदुर्निवारव्यसनजा ते सर्वतोमुखप्रसृत दुर्विषहशोकसंततौ संतापकारिणि कातराणां वैकुव्यदायिनि क्लीयानामुपजनितसंसारसुखवैमुख्ये विवेकिनमुदीरितपरोपकार बुद्धाबुदारचेतसामतिदारुणदशापाके कथविदुपजात संगमस्य सुरपतिप्रशंसाश्रवणदिवसादारभ्य प्रतिदिवसमभिलषितदर्शनप्रा प्ते राकारदर्शनेनैव प्रशमितसकलहृदयोद्वेगतमसो महात्मनः सर्वात्मना प्रियं कर्तुमन्तःकरणमुत्सहते मदीयम्, मन्दायते च त्रिभुवनातिशायिसत्त्वमलुब्धतां च तावक प्रागुपश्रुतां विचिन्त्य प्रत्याख्यानलाघवमुत्प्रेक्षमाणम्, अतो न शक्नोमि सर्वथै द्रष्टुमशक्यतां गताः प्राप्ताः । तुम्बुरुमुखेन तुम्बुरुनामकगन्धर्व विशेषमुखेन, श्रवणरन्ध्रमधुरगान्धारमा ममूर्च्छनाश्रवणं श्रवणरन्ध्रमधुरं कर्णविवरप्रियम्, गान्धारो रागविशेषः, ग्राम: - "यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते " ॥ इत्यन्यत्र परिभाषितस्वरसङ्घातविशेषः, मूच्र्छना - "खरः संमूच्छितो यत्र रागतप्रतिपद्यते । मूर्च्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम्" ॥ इत्यन्यत्रोक्तमामजन्य खरावस्थाविशेषः, तासां श्रवण-श्रवणसुखम् विप्रयोगोन्मुखं विरहोद्यतम्, कल्पतरुलताच्छन्नेषु कल्पतरुलतया - कल्पवृक्षपङ्ख्या, आच्छन्नेषु - पिहितेषु, नाकमन्दाकिनी कच्छेषु स्वर्गङ्गातटेषु, स्वेच्छाविहारक्रीडा यथेच्छभ्रमणात्मिका कीडा, उच्छिन्नकल्पा निवृत्ताया, मनुष्यलोकावतारस्मरणपीडया मनुष्यलोके -मर्त्यभुवने, अवतारस्य - आगमनस्य, स्मरणेन या पीडा तथा, निबिडम् अत्यन्तं यथा स्यात् तथा, अन्तःकरणं क्रोडीकृतम् आक्रान्तम्, आकारितदुःखसंहतिः आकारिता - आहूता, दुःखसंहतिः-दुःखसमूहो यया तादृशी, गर्भावासनरकगतिः गर्भवास एवं नरकगतिः- नरकप्राप्तिः, सपरिजनेव परिवारसहि तेव, अभिमुखीभूता सम्मुखीभूता [ ऌ ] । च पुनः, ईदृशे अनुपदमुपवर्णिते, सर्वतः समन्ततः, समुपस्थिते सम्यगुपनते, अतिदुर्निवारव्यसन जाते अतिदुःखेन निवारयितुं शक्ये, व्यसनजाते --दुःखसमूहे सति, मदीयं मामकम्, अन्तःकरणं हृदयम् तव, सर्वात्मना सर्वप्रकारेण, प्रियं हितम्, कर्तुम्, उत्सहते उत्साहमाप्नोति, कीदृशे व्यसनजाते ! सर्वतोमुखप्रसृत दुर्विषहशोके सर्वतोमुखं यथा स्यात् तथा, सर्वात्मनेत्यर्थः, प्रसृता-प्रवृद्धा, दुर्विषहा- दुस्सहा, शोकसन्ततिः- शोकसमूहो यस्मिन् तादृशे, पुनः कातराणाम् अधीराणाम्, सन्तापकारिणि अन्तर्दोहजनके, पुनः क्लीबानां निर्बलानाम आध्यात्मिकशक्तिशून्यामिति यावत्, वैक्लव्यदायिनि व्याकुलताssधायके, पुनः विवेकिनां सदसद्विचारवताम् उपजनित संसारसुखवैमुख्ये उपजनितम् - उत्पादितम्, संसारसुखवैमुख्यं वैराग्यं येन तादृशे, पुनः उदारचेतसाम् उदारहृदयानाम्, उदीरितपरोपकार बुद्धौ उदीरिता- आविष्कृता, परोपकारबुद्धिः - परहित कर्तव्यत्वबुद्धिर्येन तादृशे, पुनः अतिदारुणदशापाके व्यतिदारुणः-परमभयङ्करः, दशापाकः - देवत्वावस्थाऽवसानं यस्मिंस्तादृशेः कीदृशस्य तत्र ? कथश्चिदुपजातसङ्गमस्य कथ श्चित् केनापि प्रकारेण, उपजातः सञ्जातः, सङ्गमः - सम्मेलनं यस्य तादृशस्य पुनः सुरपतिप्रशंसाश्रवणदिवसात् सुरपतिना - इन्द्रेण, या तव प्रशंसा कृताऽऽसीत् तस्याः श्रवणस्य यो दिवसः - दिनं तस्मात् आरभ्य, प्रतिदिवस - प्रतिदिनम्, अभिलषितदर्शनप्राप्तेः अभिलषिता अभिवाञ्छिता, दर्शनप्राप्तिर्यस्य तादृशस्य, आकारदर्शनेनैव सुधाशीकरोद्वारि स्वरूपदर्शनमात्रेण, प्रशमितल कलहृदयोद्वेगतमसः प्रशमितं - प्रकर्षेण शान्तिमापादितम्, सकलं - समस्तम्, हृदयस्य-हृदयसम्बन्धि, उद्वेगतमः-सम्भ्रमरूपान्धकारो येन तादृशस्य, पुनः महात्मनः महानुभावस्य । च पुनः, त्रिभुवनातिशायिसत्त्वं त्रिभुवनातिशायि - त्रिलोकोत्तरम्, सत्त्वं खभावो यस्य तादृशम् - "सत्वं गुणे पिशाचादी बले द्रव्य-स्वभावयोः” इति . मेदिनी, मदीयमन्तःकरणम्, प्राक् पूर्वम्, उपश्रुतां श्रुतिगोचरीकृताम् तावकीं त्वदीयाम्, अलुब्धतां कापि वस्तुन्यबोलुपता, विचिन्त्य स्मृत्वा प्रत्याख्यानलाघवं प्रत्याख्याने - मदभ्यर्थ्य मानवरप्रार्थनाप्रतिषेधे, लाघवं स्वस्यापसादनम्, उत्प्रेक्षमाणं सम्भावयत्, मन्दायते तदभ्यर्थने मान्द्यमापद्यते, उत्प्रेक्ष्यमाणमिति पाठे तु उत्प्रेक्ष्यमाणं - सम्भाव्यमानं ,
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy