________________
तिलकमञ्जरी। चिदनर्थोपनिपातेषु कदाचिदपि दिव्यानामास्पदेषु संपद्यन्त ईदृशाः पदार्थानां प्रकृतिविपर्ययास्तन्निवासिनां च विबुधलोकानामन्तरत्यन्तशोकातङ्कशंसिनो हृदयायासाः । तेन च मया तत्र गत्वा द्रष्टव्योऽसौ, कदाचिदप्यदृष्टदीर्घमद्विरहदुःखः सखा सुखयितव्यः सर्वकालमभिलषितमदर्शनो निजदर्शनेन, शमयितव्या दिव्यलोकच्यवनसुलभा सर्वभावानां विनश्वरस्वभावतावेदनेन हृदयेऽस्य दाहकारिण्यतिवेदना, देयो दिन्यशक्त्यनुरोधेन सुगतिसाधनेषु धर्मकार्येषु सविशेषमुपदेशः, ततस्तेन सह पूर्वानुभूतसुखदुःखवृत्तान्तकथाव्यतिकरण नीत्वा विभावरीमेतां विभातकाले कथमपि प्रार्थितपुनर्दर्शनेन पुनरपि प्रतीपं निवर्तितव्यम् [] | कर्तव्यं च किमपि कालोचितमकृतकालक्षेपेण ख्यातेः सुखस्य चामुष्मिकस्य साधकं कुशलानुष्ठानम् , यतो ममापि निष्ठितप्रायमायुः, अल्पावशेषा दिशलोकस्थितिः, उपस्थितो दीर्घकालप्ररूढगाढप्रणयैर्नाकिभिः साकमात्यन्तिको विरहः, समासन्नीभूतमुवंशीप्रमुखसुरवधूमुखारविन्दादर्शनम् , अदृश्यतां गतात्रिदशपतिसदसि
टिप्पनकम्-आमुष्मिकस्य पारत्रिकस्य [ल]।
कालेऽपि,
वित्यर्थः, अनर्थोपनिपातेषु अशुभागमेषु, कदाचिदपि कस्मिंश्चिदपि समये, दिव्यानां देवानाम् , आस्पवेषु स्थानेषु, इशाः दर्शितप्रकाराः, पदार्थानां वस्तूनाम् , प्रकृतिविपर्ययाः खभाववैपरीत्यानि, न सम्पद्यन्ते न जायन्ते, च किञ्च, तन्निवासिनां तद्वास्तव्यानाम् , विबुधलोकानां देवजनानाम् , अन्तः अन्तःकरणे, अत्यन्तशोकातङ्कशंसिनः अत्यन्तसन्तापसूचकाः, हृदयायासाः हृदयोद्वेगाः, न सम्पद्यन्ते । तेन उक्तहेतुना, मया, तत्र तस्यां रतिविलासाया नगर्यामिति यावत्, गत्वा उपस्थाय, असी सुमाली, द्रव्यः दृष्टिगोचरीकर्तव्यः, कदाचिन अष्टमद्विरहदुःखः अदृष्टम्-अननुभूतम् , मतिरहदुःखं येन तादृशः, पुनः सर्वकालं सततमेव, अभिलषितमद्दर्शनः अभिलषितम्-अपेक्षितम् , मद्दर्शनं येन तादृशोऽसौ, सुमालीति शेषः,सखा सुहृत् , निजदर्शनेन खदर्शनेन, सुखयितव्यः आनन्दयितव्यः, दिव्यलोकच्यवनसुलभा देवलोकतश्युतिसमये खाभाविकी, अस्य सुमालिनः, हृदये, दाहकारिणी तापजननी, हृदयस्येति पाठे हृदयसम्बन्धितापकारिणीत्यर्थः, अतिवेदना अतिदुःखम् ; सर्वभावानां सर्वेषामुत्पत्तिम. पदार्थानाम् , विनश्वरभावावेदनेन विनाशशीलत्वोपदर्शनेन, शमयितव्या शमनीया; दिव्यशक्त्यनुरोधेन दैविकशक्त्यनुसारेण, सुगतिसाधनेषु सद्गतिप्रयोजकेषु, धर्मकार्येषु धार्मिकक्रियासु, सविशेषं यथा स्यात् तथा, उपदेशः प्रवर्तकवाक्यम् , देयः कर्तव्यः, वक्तव्य इति यावत् ; ततः तदनन्तरम् , तेन सुमालिना सह, पूर्वानुभूतसुखदुःखवृत्तान्तकथाव्यतिकरण पूर्वानुभूतानां-पूर्वोपभुक्तानाम् , सुखदुःखानां यो वृत्तान्तः-समाचारः, तत्सम्बन्धिकथाव्यतिकरेण-तरकथाप्रसङ्गेन, एताम् इमाम् , विभावरी रात्रिम् , नीत्वा व्यतीत्य, प्रभातकाले प्रातःकाले, कथमपि केनापि प्रकारेण, प्रयत्नेनापीत्यर्थः, प्रार्थितपुनदर्शनेन प्रार्थितं-वाञ्छितम् , पुनदर्शनं-पुनरपि तदीयदर्शनं येन तादृशेन मया, प्रतीपं प्रतिकूल पश्चादिति यावत् , निवर्तितव्यं प्रत्यागन्तव्यम् [ ऋ] ।
च पुनः, अक्रतकालक्षेपेण अकृतः कालक्षेपः-कालातिक्रमः, विलम्च इति यावत् येन तादृशेन, मयेति शेषः, ख्यातेः यशसः, च पुनः, आमुष्मिकस्य पारलौकिकस्य, सुखस्य सुखसाधनस्य, साधकं सम्पादकम् , कालोचितम् अवसरानुकूलम् , किमपि कुशलानुष्ठानं शुभकार्य कर्तव्यं करणीयम् । यतः यस्माद्धेतोः, ममापि मदीयमपि, आयु: दिव्यजीवनकालः, निष्ठितप्रायं समाप्तप्रायम् , खल्पावशिष्टमित्यर्थः, तदेवाह-त्रिदशलोकस्थितिः देवलोके स्थितिः, अल्पावशेषा किञ्चिदवशिष्टा, दीर्घकालप्ररूढगाढप्रणयैः दीर्घकाल-चिरकालम् ; प्ररूढः-प्रवृद्धः, गाढः-सान्द्रः, प्रणयःप्रीतियेषां तैः, नाक्रिभिः देवैः, साकं सह, आत्यन्तिकः निरन्तरः, विरहः विश्लेषः, उपस्थितः प्राप्तकालः, उर्वशी. प्रमुखसुरवधूमुखारविन्दादर्शनम् उर्वशीप्रमुखानां सुरवधूनां-देववाराङ्गनानाम् , मुखारविन्दस्य-मुखकमलस्य, अदशेन-दर्शनाभावः, समासन्नीभूतं सन्निहितम् , त्रिदशपतिसदसि इन्द्रसभायाम्, हृदयदस्यवः मनोहारिणः, रम्भालास्यकरणप्रयोगाः रम्भायाः-तमान्याः सर्वेश्यायाः, लास्यकरणे-नाट्यरचने, प्रयोगाः-व्यापाराः, अहश्यतां