SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११८ टिप्पनक-परागविवृतिसंवलिता सिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमानश्रवणदुष्टहाकष्टशध्दा दृष्टा [ ऊ] | मन्दिरमपि तदीयमप्रवृत्तोत्सवं धृतानुचितवेषनिर्व्यापारनिःशेषकलत्रं चित्रशालास्वसंपाद्यमानहरिचन्दनपङ्कोपलेपं मणिकुट्टिमेष्वक्रियमाणकनकपङ्कजोपहारक्षेपं द्वारतोरणरणरणायमानचण्डपवनेरितशुष्ककतिपयप्रवालवन्दनमालं मृङ्गपटहादिवाद्यध्वनिशून्यनिःशेषनाट्यशालमभूयमाणचारणमिथुनमङ्गलोच्चारमनाकर्ण्यमानकिनरकन्यकावल्लकीझाङ्कारमप्रमत्तविबुधयोधशतसंरक्ष्यमाणगोपुरप्राकारमसुरापहारभीलभव्याप्सरःपरिहतस्वेच्छाविहारमुद्यानवापीध्वनारभ्यमाणविभ्रममजनमुद्विग्नसकलपरिजनं दृष्टम् [ऋ]। इदं चारिष्ठमतिकष्टमप्रतिविधेयं विधिवशात् तत्रो. पजातं तस्य तत्कलत्रस्य वा प्रधानस्य अचिरकालभाविनं विनाशमवश्यतया निवेदयति, न हि येषु केषु. पुनः सन्तापविधुरविषधरवधूसततप्रार्थ्यमानचन्दनलतागृहावस्थाना सन्तापेन-सम्यक् तापेन, विधुराभिःध्याकुलाभिः, विषधरवधूभिः-भुजङ्गीभिः, सततं प्रार्थ्यमानम्-अपेक्ष्यमाणम् , चन्दनलतागृहावस्थान-चन्दनलतामयगृहेऽवस्थितिर्यस्यां तादृशी, पुनः स्थानस्थानपूज्यमामविभसिद्धायतनदेवताप्रतिमा स्थाने स्थाने-प्रतिदेवस्थानमित्यर्थः, पूज्यमाना-अर्च्यमाना, खिन्ना-परितापवशेन खेदान्विता, सिद्धायतनस्य-सिद्धमन्दिरस्थ, तत्रप्रतिष्ठितेत्यर्थः, देवताप्रतिमा यस्यां तादृशी, पुनः प्रतिमन्दिरं मन्दिरे मन्दिरे, आकर्ण्यमानश्रवणदुष्टहाकष्टशब्दा आकर्ण्यमानाः-श्रूयमाणाः, श्रवणदुष्टाः-श्रुतिकटुत्वदोषान्विताः, हाकष्ट शब्दाः-हा कष्टं हन्त ! दुःखमित्येतदर्थकाः शब्दा यस्यां तादृशी सदीयं सुमालिदेवसम्बन्धि, मन्दिरमपि भवनमपि, दृष्टं दर्शनगोचरतां नीतम् , मदीयैरनु चरैरिति शेषः, कीदृशम् ? अप्रवृत्तोत्सवम् अप्रवृत्तः-निवृत्तः, उत्सवः-शुभकर्म यस्मिंस्तादृशम् , पुनः धृतानुचितवेषनिर्व्यापारनिःशेषकलत्रं धृतः-अगत्या रचितः, अनुचितः-देवाङ्गनाऽयोग्यः, वेषः कृत्रिमरूपं येन तादृशम् , निापार-चिन्तावशेन व्यापारविमुखम् , निःशेष-समग्रम् , कलत्रम्-अन्तःपुरवर्गों यस्मिंस्तादृशम् , पुनः चित्रशालासुचित्रणालयेषु, असम्पाद्यमानहरिचन्द नपङ्कोपलेपम् असम्पाद्यमानः-अक्रियमाणः, हरिचन्दनपङ्कस्य दिव्यचन्दनद्रवस्य, उपलेपो यस्मिंस्तादृशम् , पुनः मणिकुट्टि मेषु मणिबद्धभूमिघु, अक्रियमाणकनकपङ्कजोपहारक्षेपम् अक्रियमाणः कनकपङ्कजाना-सुवर्णमयकमलानां तद्रूपाणाम् , उपहाराणाम् उपहरणीयवस्तूनाम् , क्षेपः-निवेशो यस्मिंस्तादृशम् , पुनः द्वारतोरणरणरणायमानचण्डपवनेरितशुष्ककतिपयप्रवालवन्दनमालंद्वारतोरणेषु-बहिरेिषु, रणरणायमानैः-ध्वनद्भिः, चण्डपवनैः-उद्धतवायुभिः, ईरिता-कम्पिता, उत्क्षिप्तेत्यर्थः, शुष्का-जीणो, कतिपया, प्रवालाना-नवपत्राणाम्, वन्दनमाला-तोरणमाला यस्मिस्तादृशम्, पु हादिवाद्यध्वनिशून्यनिःशेषनाट्यशालं मृदङ्ग-पटहादीनां-मृहङ्गढक्कादीनाम् , वाद्यानां ध्वनिभिः, शून्या-विरहिता, निःशेषा-समग्रा, नाम्यशाला-नाट्यगृहं यस्मिंस्तादृशम् , पुनः अश्रूयमाणचारणमिथुनमङ्गलोञ्चारम् अश्रूयमाणः, चारणमिथुनेन-बन्दिदम्पतिभ्याम् , मङ्गलोच्चारः-माङ्गलिकशब्दोच्चारण यस्मिंस्तादृशम् , पुनः अनाकर्ण्यमान किन्नरकन्य. कावल्लकीहाङ्कारम् अनाकर्ण्यमानः-अश्रूयमाणः, किन्नरकन्यकानां वल्लकीझाङ्कारः-वीणाकाणो यस्मिंस्तादृशम् , पुनः अप्रमत्तविवुधयोधशतसंरक्ष्यमाणगोपुरप्राकारम् अप्रमत्तेन-अवहितेन, विवुधयोधानां-देवभटानाम् , शतेन संरक्ष्यमाण:-असुरप्रवेशाद्वार्यमाणः, गोपुरप्राकार:-पुरद्वारदेशस्थदर्गभूमियस्मिंस्तादृशम्, पुनः असूरापहारभीतभव्याप्सरस्परिहतस्वेच्छाविहारम् असुरैः-राक्षसः, अपहारात-अपहरणात् , भीताभिः, भव्याभिः-मनोहारिणीभिः, अप्स. रोभिः-खर्वेश्याभिः, परिहृतः-त्यक्तः, स्वेच्छाविहारः-यदेच्छभ्रमणं यस्मिंस्तादृशम् , पुनः उद्यानवापीषु क्रीडाकाननान्तर्ग'तपुष्करिणीषु, अनारभ्यमाणविभ्रममजनम् अनारभ्यमाणम्-अननुष्ठीयमानम्, विभ्रममजनं-सविलासनानं यस्मिंस्तादृशम् । पुनः उद्विग्नसकलपरिजनम् उद्विग्नाः-उद्धान्ताः, सकला:-अशेषाः, परिजना:-बान्धवा यस्मिंस्तादृशम् [क]। इदं च अनुपदवर्णितप्रकारकं च, अतिकष्ट परमदुःखावहम् , पुनः अप्रतिविधेयम् अप्रतिकार्यम् , अरिष्टम् अशुभम् , विधिवशात् देवयोगात , तत्र तस्यां नगर्याम् , उपजातम् उत्पन्नम् , “अरिष्टमशुभे तके सूतिकागार आसवे" इति विश्व-मेदिन्यौ । तस्य सुमालिदेवस्य, प्रधानस्य पट्टभूतस्य, तत्कलत्रस्य तद्भार्याया चा, अचिरकालभाविनम् अविलम्बभाविनम् , विनाशं मृत्युम् , अवश्यतया ध्रुवतया, निवेदयति सूचयति । हि यतः, येषु केषुचित् साधारणे
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy