________________
तिलकमहरी।
११७ घलया जिनायतनयात्रासु त्रिदशलोकादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती परमरम्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव कौतुकादितस्ततो विचरद्भिरनुचरैर्मदीयैस्तदीयसंनिधावष्यनाथेवोद्वसितेव प्रनष्टसकलपूर्वशोभा, भूतैरिवाधिष्ठिता, कृतान्तदूतैरिव कटाक्षिता, कलिकालेनेव कवलिता, समग्रपापग्रहपीडाभिरिव क्रोडीकृता, सर्वतोविजृम्भिताविच्छिन्नमलिनच्छाया, चिन्ताविसंस्थुलगृहस्थगीर्वाणपरिहतसर्वनिजनिजव्यापारा, गलितगर्वगन्धर्वशिथिलितगीतगोष्ठीस्वरविचारा, विषण्णसाध्यपरिषदा, विखिन्नसिद्धनिषिध्यमानगानोन्मुखमुखरकिनरकुला, पानकेलिनिरपेक्षपक्षिशून्यीकृतोपवनतरुखण्डलतामण्डपा, नष्टहर्षकिंपुरुषनिर्भय॑मानपरिरम्भणायातवल्लभतरुणीगणा, रणरणकगृहीतगृहदेवता, वनदेवतासदुःखदृश्यमानतत्क्षणम्लानकल्पपादपा, संतापविधुरविषधरवधूसततप्रार्थमानचन्दनलतागृहावस्थाना, स्थानस्थानपूज्यमानखिन्न
टिप्पनकम्-साध्याः- देवविशेषाः, आधिः- मानसी पीडा, सिद्धाः- देवविशेषाः, गुटिका सिद्धादयो वा [1] ।
बलये-प्राकारमण्डलं यस्यास्तादृशी, पुनः जिनायतनयात्रासु जिनमन्दिरयात्रासु, त्रिदशलोकात् त्रिदशाना-देवानाम् , लोकात् , उपागतानाम् अवतीर्णानाम् , अमरमिथुनानां देवदम्पतीनाम् , निवासस्थानं निवासासदम् , परमरम्यां अतिमनोहारिणी, अपरा अन्या, अमरावतीव इन्द्रपुरी इव, रतिविशाला तत्संज्ञिका, नामेति वाक्यालङ्कारे, तस्य सुमालिदेवस्य, नगरी अस्ति । सा रतिविशाला नगरी च, अद्य अस्मिन् दिने, प्रातरेव प्रातःकाल एव, कौतुकात् अपूर्व वस्तुदर्शनौत्सुक्यवशात् , इतस्ततः अन तत्र स्थाने, विचरद्भिः विहरद्भिः, मदीयैः मत्सम्बन्धिभिः, अनुचरैः भूत्यैः, दृष्टा दशेनगोचरतां गमिता, केव? तदीयसन्निधावांप सुमालिदेवस्य तत्रास्तित्वेऽपि, अनाथेव खामिशून्या इव, पुनः उद्वसितेव विध्वस्तेब, प्रनष्टसकलपूर्वशोभा प्रनष्टा-प्रकर्षण लुप्ता, सकला-सममा, पूर्वा-पुरातनी, शोभा-छविर्यस्यातादृशी, पुनः भूतैः उपहावकदेवयोनिविशेषः, अधिष्ठितेव आक्रान्तेव, कृतान्तदूतैः यमदूतैः, कटाक्षितेव स्वकटाक्षपातत्रासितेव, पुनः कलिकालेन कलियुगेन, कवलितेव निगी व, पुनः समनपापग्रहपीडाभिः समग्राणां-सर्वेषाम् , पापग्रहाणां-शनैश्चराद्यशुभप्रहाणाम् , तत्प्रयुक्ताभिरिति यावत् , पीडाभिः अशुभैः, क्रोडीकुता आक्रान्ता इव । कीदृशी' सा नगरी ? सर्वतोविजृम्भिताविच्छिन्नमलिनच्छाया सर्वतः-सर्वदेशावच्छेदेन, विजृम्भिता-व्याप्ता, अविच्छिन्नासान्द्रा, मलिना-अन्धकारमयी, छाया-कान्तिर्यस्यास्तादृशी, पुनः चिन्ताविसंस्थुलगृहस्थगीर्वाणपरिहतसर्वनिजनिजव्यापारा चिन्तया विसंस्थुलैः-शिथिलः, गृहस्थगीर्वाणैः-गृहवासिदेवैः, परिहृतः सर्वः, निजो निजः-स्वः स्वः, व्यापारो यस्यां तादृशी, पुनः गलितगर्वगन्धर्वशिथिलितगीतगोष्ठीस्वरविचारा गलितः-नष्टः, गर्वः-गायकत्वाभिमानो येषां तादृशैः, गन्धः, शिथिलितः-मान्यमापादितः, गीतगोट्या-गानसभायाम् , स्वरविचार:-स्वरशास्त्रचर्चा यस्यां तादृशी, पुनः
रिषदा विषण्णा-स्विन्ना, साध्यानाम-"मनोमन्ता तथा प्राणो भरोऽपानश्च वीर्यवान् । निर्भयो नरकश्चैव दंशो नारायणो वृषः ॥ प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः"। इत्यन्यत्रोक्तानां देवविशेषजातीयानाम्, परिषदासभा यस्यां तादृशी, पुनः विखिन्नसिद्धनिषिध्यमानगानोन्मुखमुखरकिन्नरकुला विखिन्ना:-विशेषेण खेदाकुलाः, ये सिद्धाः-देवविशेषाः, तैनिषिध्यमान-निवार्यमाणम् , यद् गानं तम्मादुन्मुख-विभुखम् , मुखराणा-गानरतानाम् , किनराणांगायकदेवविशेषाणाम् , कुलं-समूहो यस्यां तादृशी, पुनः पानकेलिनिरपेक्षपक्षिशून्यीकृतोपवनतरखण्डलतामण्डपा पानकेली-नवपल्लवस्यन्दिरसपानक्रीडायाम्, निरपेक्षाः-तद्विषयकापेक्षाशून्याः, ये पक्षिणतेः शून्यीकृतः-विरहितः, उपवनतरुखण्ड:-केलिकाननवृक्षसमूहः, लतामण्डपः-लतान्तरितदेशश्च यस्यां तादृशी, पुनः नष्टहर्षकिंपुरुषनिर्भय॑मानपरिरम्भणायातवल्लभतरुणीगणा नष्टः हर्षो रमणेच्छा येषां तादृशैः किंपुरुषैः-देवविशेषः, निर्भय॑मानः-वाग्भिस्तिरस्किममाणः, परिरम्भणाय-आलिङ्गनाय, आगतः-उपस्थितः, हलभतरुणीनां-प्रिययुवतीनाम् , गण:--समूहो यस्यां तादृशी, पुनः रणरणकगृहीतगृहदेवता रणरणकेन उद्वेगेन, गृहीता-आक्रान्ता, गृहदेवता-गृहाधिष्ठातृदेवता यस्यां तादृशी, पुनः । बनदेवतासदुःखदृश्यमानतत्क्षणम्लानकल्पपादपा वनदेवताः-वनाधिष्ठातृदेवताः, ताभिः सदुःख-सविषादम. दृश्यमानाः-स्वखदृष्टिगोचरीक्रियमाणाः, तत्क्षण-तत्कालम् , म्लाना:-म्लानिमायनाः, कल्पपादपाः-कल्पवृक्षा यस्यां ताहशी,