________________
टिप्पनक-परागविवृतिसंवलिता . इदानी गन्ताऽहमधिगतनिर्वृतिविलक्षणं रामणीयकेन सकलद्वीपानामपरिजलपूरितान्तरिक्षण सर्वतः कृतपरिक्षेपं नन्दीश्वरनाम्ना नदीनाथेन नन्दीश्वराभिधानं प्रधानद्वीपम् , तत्र मे परममित्रमेकान्ततः स्नेहमयो मयैव सदृशप्रभावर्धिरतिशयेन प्रसादपात्रं वृत्रशत्रोरत्युदाररूप-बल-त्रिभवशाली सुमाली नाम देवो देवलोकतः कौतुकाकृष्ठमनसा स्वयम्प्रभाभिधानया देव्या दिव्यवनिताजनादुपश्रुतरम्यतातिशयां जिनायतनश्रियं द्रष्टुमानीतः, सांप्रतमतिशयितनन्दननुमवनेषु दधिमुखाभिधानमहाधराधरेन्द्रषोडशकपरिक्षेपणीनां जम्बूद्वीप. प्रमाणपरिमण्डलाकृतीनां पुण्डेक्षुरसशिशिरसुरभिस्वच्छस्वादुसलिलकल्लोलास्फालितविशालमणिशिलासोपानपतित्रितयरमणीयानां महापुष्करिणीनामुपान्तवर्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति [उ]| .. अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्य मणिमयमहाप्रासादशतशालिनी विततकाश्चनशिलाशाल.
अत्रागमनाय, अतिमात्रम् अत्यन्तम् , उत्सुकः उत्कण्ठितः, अङ्गमात्र एध केवलखशरीर एव, न स्वनुचरसहित इत्यर्थः, आगतः, अहमिति शेषः । च पुनः, अशेषकल्मषक्षयहेतुः निखिलदुरितध्वंसकारणम् , एष प्रत्यक्षभूतः, आदिदेव प्रथमतीर्थङ्करः, इष्टः खनयनगोचरीकृतः [ई]
अधिगतनिवृतिः प्राप्ततदर्शनानन्दः, अहम् , इदानीम् अधुना, सकलद्वीपानाम् अशेषद्वीपानां मध्ये, राम
केन शोभया, विलक्षणं विचित्रम्, अपारजलपूरितान्तरिक्षेण अपारं यजलं तेन पूरित-पूर्णतां नीतम्, अन्तरिक्षम्-आकाशं येन तादृशेन, नन्दीश्वरनाम्ना तत्संज्ञकेन, नदीनाथेन समुद्रण, सर्वतः सर्वदिक्षु, कृतपरिक्षेपं कृतपरिवेष्टनम् , नदीश्वराभिधानं नन्दीश्वरनामकम् , प्रधानद्वीपं नानाजिनायतनमण्डिततया सर्वद्वीपमुख्यभूतद्वीपम् , गन्ता गमनशीलः, अस्मीति शेषः । तत्र तस्मिन् नन्दीश्वरद्वीपे, मे मम, परममित्रं परमसखः, एकान्ततः अतिशयेन, नेहमयः प्रेमप्रचुरः, मयैव सहशप्रभावर्द्धिः सदृशाः-तुल्यरूपाः, प्रभावाः-महिमानः, अद्धयः-आध्यात्मिकसम्पदक्ष यस्य तादृशः, वृत्रशत्रा इन्द्रस्य, अतिशयेन, प्रसादपात्र प्रेमास्पदम्, अत्युदाररूपबलावभवशाल परममहनीयेन, रूपेण-दर्णेन, बलेन-शक्त्या, विभवेन-सम्पदा च, शालते-शोभते यस्तादृशः, सुमाली नाम सुमालीतिसंज्ञकः, देवः, कौतुकाकृष्टमनसा कौतुकेन-जिनायतनशोभादर्शनोत्कण्ठया, आकृष्टं वशीकृतं मनो यस्यास्तादृश्या, खयः प्रभाभिधानया स्वयम्प्रभानाम्या, देव्या, दिव्यवनिताजनात् देवीजनात् , उपश्रुतरम्यतातिशयाम् उपश्रुतःश्रवणकर्मीकृतः, रम्यतातिशयः-मनोहरतोत्कर्षों यस्यास्तादृशीम् , जिनायतमश्रियं जिनमन्दिरशोभाम् , द्रष्टुम् , देवलोकतः देवलोकात्, आनीतः अवतारितः, साम्प्रतम् अधुना, क्रीडासुखं क्रीडाजन्यानन्दम् , अनुभवति, कीदृशः १ कान्तासख: खभायोसहचरः सन् , कुत्र! अतिशायत्तनन्दनगमवनेषु अतिशयितम्-अधरीकृतम्, नन्दन-नन्दनसंशकम् , दुमवन-दिव्यवृक्षवनं यस्तादृशेषु, महापुष्करिणीनां महावापीविशेषाणाम् , उपान्तवर्तिषु निकटवर्तिषु, विचि. प्रतरुकाननेषु विलक्षणवृक्षवनेषु, कीदृशीनां महापुष्करिणीनाम् ? दधिमुखाभिधानमहाधराधरेन्द्रषोडशकपरिक्षेपणीनां दधिमुखाभिधाना:-दधिमुखसंज्ञकाः, ये महाधराधरेन्द्राः-महान्तः पर्वतेन्द्राः, तेषां यत् षोडशकं-षोडशावयवकः सङ्घः, तस्य परिक्षेपणीनां परिवेष्टिनीनाम् , पुनः जम्बूद्वीपप्रमाणपरिमण्डलाकृतीनां जम्बूद्वीपस्य यत् प्रमाणम्
आयामविष्कम्भयोर्लक्षयोजनरूपम् , तत्तुल्यप्रमाणा, परिमण्डलाकृतिः-वर्तुला आकृतिर्यासां तादृशीनाम् , पुनः पुण्ड्रेचरसशिशिरसुरभिखच्छवासलिलकल्लोलास्फालितविशालमणिशिलासोपानपङित्रितयरमणीयानां पुण्डेक्षःइक्षुविशेषः, तस्य रस इव शिशिरं - शीतलम् , सुरभि-सुगन्धि, स्वच्छं-निर्मलम् , खादु-रसनासुखकरं च, यत् सलिल-अलम् , तस्य कलोल:-महातरजः, भास्फालितम्-आइतम्, यत् विशालानां मणिशिलासोपानानां-मणिरूपपाषाणनिर्मितानाम, सोपानानाम्-आरोहणानाम् , पश्चित्रितयम् , तेन रमणीयानां-मनोहारिणीनाम्, [3] .. च पुनः, तत्र तस्मिन् , द्वीपे नन्दीश्वरद्वीपे, मर्त्यलोकस्य मर्सभुवनस्य, दीपभूता प्रकाशकतया दीपखरूपा, यतः
मणिमयमहाप्रासादशतशालिनी मणिमयानां- रत्ननिर्मितानाम् , महतां प्रासादानां-राजमन्दिराणाम् , शतेन, शालते. शोभते या तादृशी, पुनः विततकाञ्चनशिलाशालवलया विततं-विस्तृतम् , काचनशिलानां-सुवर्णशिलानाम् , शाल