SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ "तिलकमलरी। ११५ सांप्रतम् , अनुजानीहि माम्, [इ-जानीहि चं मदीयमपि लेशतो वृत्तान्तम्-अहं हि सौधर्मसुरलोकसमा ज्वलनप्रभाभिधानो वैमानिकः संप्रत्येव नाकतः प्रस्थितो गच्छन् पुरस्थितेन कियताऽपि परिजनेनानु गम्यमानो गगनपथेन पथि विलोक्य लोकोत्तरं देवतायतनमिदमिदं मनस्यकरवम्---हन्त ! स एष भगधानशेषजगन्नाभिर्नाभिकुलकरकुलालङ्कारः, कारणं सकललोकव्यवहारसृष्टः, द्रष्टा कालत्रितयवर्तिनां भावानाम्, उपदेष्टा चिरप्रनष्टस्य धर्मतत्त्वस्य, सर्वसत्त्वनिर्निमित्तबन्धुः, सेतुबन्धः संसारसिन्धोः, आद्यो धर्मचक्रवतिनाम् , आराध्यश्चतुर्विधस्यापि सुरनिकायस्य, नायकः समग्राणां गणधरकेवलिप्रमुखाणां महर्षीणामृषभनामा जिनवृषः, यस्य पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः; अवधार्थ चैतदधिकोपजातभक्तिः 'आसतामिहैव मुहूर्तमेकं भवन्तः' इति निवर्त्य पृष्टानुपातिनः सुरपदातीनतिमात्रमुत्सुको गन्तुमङ्गमात्र एवागतः । दृष्टश्चैषभगवानशेषकल्मषक्षयहेतुरादिदेवः [ई। ... टिप्पनकम्- जगन्नाभिः भुवनप्रधानः [ई ] ! . च पुनः, मदीयमपि मदागमनसम्बन्धिनमपि, वृत्तान्तं समाचारम् , लेशतः संक्षेपतः, जानीहि शृणु । किमित्याहहि निश्चयेन, अहं सौधर्मसुरलोकसमा सौधर्मः-सौधर्मनामा, यः सुरलोकः-देवलोकः, प्रथमदेवलोक इत्यर्थः, स समनिवासस्थानं यस्य तादृशः, ज्वलनप्रभाभिधानः ज्वलनस्य अमेरिव प्रभा यस्यासौ ज्वलनप्रभः, तदेवाभिधानम्-अन्वर्थनाम यस्य तादृशः, वैमानिकः विमानवास्तव्यो देवः, सम्प्रत्येव अधुनैव, नाकतः खर्गतः, प्रस्थितः कृतप्रस्थानः, पुरस्थितेन अग्रतः स्थितेन, कियताऽपि कतिपयेनापि, परिवारेण परिजनेन, अनुगम्यमानः आश्रीयमाणः सन् , गगनपथेन आकाशमार्गेण, गच्छन् , पथि मार्गे, लोकोत्तरं परमोत्कृष्टम् , इदं देवायतनं देवमन्दिरम् , विलोक्य दृश, मनसि खहृदि, इदम् अनुपदवक्ष्यमाणप्रकारकं चिन्तनम् , अकरवम् अकार्षम् । किमित्याह-हन्त ! अहो, स वक्ष्यमाणयत्पदप्रतिपाद्यत्वेनाभिप्रेतः, एच एतन्मन्दिरमधिष्ठितः, भगवान् निरतिशयैश्वर्यवान् , ऋषभनामा, जिनवृष: जिनेश्वरः, अस्तीति शेषः । कीदृशः ? अशेषजगन्नाभिनाभिकुलकरकुलालङ्कारः अशेषस्य-समप्रस्य, जगतः-महँलोकस्य, नाभिः-प्रधानभूतं यत्, नाभिकुलकरस्य-कुलकरत्वेन शास्त्रप्रसिद्धस्य नाभिराजस्य, कुलं-वंशः, तस्यालङ्कारः, 'अशेषजगन्नाभि भि०' इति पाठे तु अशेषजगन्नाभिः-निखिलविश्वप्रधान ऋषभजिन इत्यर्थो बोध्यः, "नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात्" इत्यमरः, पुनः सकलव्यवहारसृष्टेः सकललोकव्यवहाररचनायाः, कारणं रचयितेत्यर्थः, पुनः कालत्रितयवर्तिनाम् अतीताऽनागत-वर्तमानकालवर्तिनाम् , भावानां पदार्थानाम् , द्रष्टा युगपद. शेषविशेषपुरस्कारेण प्रत्यक्षयिता, पुनः चिरप्रणष्टस्य दीर्घकालादुच्छिन्नस्थापि, धर्मतत्त्वस्य, उपदेष्टा प्रवर्तयिता, पुनः सर्वसत्त्वनिनिमित्तबन्धुः सर्वेषाम्- एकेन्द्रियपर्यन्तानाम् , सत्वानां-जीवानाम् , निर्मिमित्तः-निष्कारणः, बन्धुः-हितेच्छुः, पुनः संसारसिन्धोः संसारसागरस्योत्तरणाय, सेतुबन्धः सेतुरूपो बन्धः, पुनः धर्मचक्रवर्तिनां धर्मसम्राजाम, तीर्थकुराणामिति यावत् , आधः प्रथमः, पुनः चतुर्विधस्यापि भुवनपतिव्यन्तर-ज्योतिष्क-वैमानिकेतिभेदचंतुष्टयविशिष्टस्मापि, सुरनिकायस्य देवसमूहस्य, आराध्यः उपास्यः, पुनः समप्राणाम् अखिलानाम्, गणधर-केवलिमसमां गणघरा:-त्रिपदीश्रवणमात्रेण द्वादशाशीरचयितारो मुनिविशेषाः, केवलिनः-सर्वज्ञाः, सत्प्रमुखाणां-तत्प्रभृतीनाम् , महर्षीणां महामुनीनाम् , नायकः श्रेष्ठः । यस्य जिनेन्द्रस्य, पुस पूर्वम् , स्वामिना अस्मदायभिपतिना, शक्रेण इन्द्रेण, स्वयं खेनैव, प्रतिष्ठाविधिः प्रतिष्टाकार्यम् , अनुष्टितः कृतः । च पुनः, अवधार्य चैतत् च-पुनः; एतत्-पूर्वोकवृतम्, अव. धार्य-निश्चित्य, अधिकोपजातभक्तिः अधिका-प्रचुरा, उपजाता-उद्भूता, भक्तिः-श्रद्धा मस्य तादशः सन्, "भासता. मिहैव मुहूर्तमेकं भवन्तः' मुहूर्तमेक-क्षणमेकम् , भवन्तः-मदनुचराः, इहैव-अत्रैव, आसतां-तिष्ठन्तु, इति अनेन वाक्येन, पृष्ठानुपातिनः खानुगामिनः, सुरपदातीन् पद्षां गन्तन देवान् , निवर्त्य अत्रागमनानिवार्य, गन्तुम्
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy