________________
टिप्पनक-परागविवृतिसंवलिता जातप्रत्यभिज्ञानलव इव सत्यरोपसंहृतगतिराचरणयुगलादुत्तमाङ्गं यावदालोकितवान्, [ आ] । आनीतकरसंपुटश्च हेमाद्रितट इव पृथुश्रीवृक्षलाञ्छिते वक्षसि स्तोकमुपदर्शितस्मितः प्रस्तुतपरीहास इव सलिलनिर्भराम्भोधरनिनादगम्भीरेण स्वरेण मधुरमब्रवीत्-'नरेन्द्र ! सर्वदा शरीरसंनिहितैः प्रधानपुरुषैरिव प्रस्तावावेदिभिरपृष्टैरपि निवेदितोऽसि चक्रवर्तिलक्षणैः, स खलु भवान् मध्यमलोकपालो राजा मेघवाहनः, योऽस्माभिः पुरा देवासुरसमूहसंबाधे दिव्यसदसि विष्टपत्रयपतेः पुरो देवस्य पाकशासनस्य मर्त्यलोकवार्ता निवेदनाधिकारनियुक्तैः प्रधाननाकिभिरेवं जिगीषुः, एवं शूरः, एवं प्रजापालः, एवं त्यागशीलः, एवं. धार्मिक इति बहुप्रकारमङ्गुरितपुलकपक्ष्मलकपोलैरवनिपालकथाप्रक्रमे सुचिरमुपवर्ण्यमानः श्रुतोऽसि; सर्वथा नः कृतार्थ चक्षुरुपजातम् , फलितं च सद्यो देवतादर्शनसमुत्थं पुण्यजातमतर्कितोपनतेनामुना त्वदवलोकनेन, गच्छामि
टिप्पनकम्-आनीतकरसम्पुटः बद्धमुकुलः । हेमाद्रितट इव वक्षसि श्रीवृक्षलाञ्छिते [वृक्षविशेष] चिहिते महापुरुषलाञ्छनचिह्निते च । प्रस्तावावेदिभिः समयकयकैः []।
प्रत्यभिज्ञानलव इव उपजातः-उत्पन्नः, प्रत्यभिज्ञानस्य-संस्कारसहकृतेन्द्रियसन्निकर्षजन्यस्य 'सोऽयं मेघवाहनो यो दिव्यसभायामुपवर्ण्यमान आसीद्' इति ज्ञानस्य, लवः-लेशो येन तादृश इव, सत्वरोपसंहृतगतिः सत्त्वर-शीघ्रं यथा स्मात् तथा, उपसंहृता-निवर्तिता, गतिः-अग्रदेशगमनं येन तादृशः [आ]। च पुनः, हेमाद्रितट इच हेनः-सुवर्णस्य, अदिः-पर्वतः, हेमाद्रिः सुमेहः, तस्य तटे-पर्यन्तभूमौ इव, पृथुधीवृक्षलाञ्छिते पृथुभिः-विशालैः, श्रीवृक्षैः-शुभ्ररोमावर्तरूपमहापुरुषलक्षणे , पक्षे बिल्ववृक्षः, लाञ्छिते-चिहिते, वक्षस, आनीतकरसम्पुटः आनीतः-आनीय संयोजितः, कर
-अजलियन तादृशः सन् , प्रस्तुतपरीहास इव प्रस्तुतः-प्रारब्धः, परीहासः-उपहासो येन तादृश इव, स्तोकम् भल्पं यथा स्यात् तथा, उपदर्शितस्मितः प्रकटितमन्दहासः, सलिलनिर्भराम्भोधरनिनादगम्भीरेण सलिलनिर्भरःजलपरिपूर्णः, योऽम्भोधरः-मेघः, तस्य निनादवत्-गर्जितवत् , गम्भीरेण-तारेण, स्वरेण ध्वनिना, मधुरं श्रोत्रप्रियं यथा स्यात् तथा, अब्रवीत् उवाच । किमित्याह-नरेन्द्र ! नृपते !, चक्रवर्तिलक्षणैः चक्रवर्तिचिढ़ः, स वक्ष्यमाणयत्पदप्रतिपाद्यत्वेनाभिप्रेतः, मध्यमलोकपालः मध्यमः-स्वर्गलोक-पाताललोकयोर्मध्यवर्ती, लोकः-मर्त्यलोकः, तस्य पालकः, भवान् मेघवाहनो राजा निवेदितोऽसि सूचितोऽसि, कैरिव ? सर्वदा शरीरसन्निहितैः शरीरपार्श्ववर्तिभिः, पक्षे शरीरस्थितैः, अपृष्टैरपि जिज्ञासामज्ञापितैरपि, प्रस्तावावेदिभिः तत्तत्कार्याक्सरसूचकैः, पक्षे प्राशस्त्यव्यञ्जकैः, प्रधानपुरुषैः अमात्यादिव्यक्तिभिरिवेत्युत्प्रेक्षा । यः त्वम् , देवासुरसमूहसंबाथे देवानाम् , असुराणां-दैत्यानां च, समूहेन, संबाधे सङ्कीर्णे, व्याप्ते इत्यर्थः, दिव्यसदसि देवसभायाम् , विष्टपत्रयपतेः भुवनत्रयस्वामिनः, देवस्य पाकशासनस्य इन्द्रस्य, पुरः अग्रे, मर्त्यः लोकवार्ता निवेदनाधिकारनियुक्तैः मर्त्यलोकवार्तानां-मर्त्यभुवनसमाचाराणाम् , निवेदन-विज्ञापनमेव, अधिकारः-अवश्यकर्तव्यम्, तत्र नियुक्तैः-प्रतिष्ठापितैः, अहरितपुलकपक्ष्मलकपोलैः अङ्कुरितैः-अङ्कुरात्मनोद्भूतैः, पुलकैः-रोमाः, पक्ष्मलाः-लोमसङ्घलाः, कपोला:-गण्डस्थलानि येषां तादृशैः, प्रधाननाकिभिः प्रधानदेवैः, अवनिपालकथाप्रक्रमे अवनिपालाना-पृथ्वीपालानाम् , कथायाः वार्तायाः, प्रक्रमे-प्रस्तावे, एवम् अनेन प्रकारेण, जिगीषुः मेघवाहनः स्वरिपुपराजयमिच्छुः, अस्तीति शेषः, एवम् अनेन रिपुपराजयप्रकारेग, शूरः पराक्रमी, एवम् अनेन प्रकारेण, प्रजापाल: प्रनारक्षकः, एवम् अनेन प्रकारेण, देश-काल-पानविवेचनेनेत्यर्थः, त्यागशीलः दानशील:, एवम् अनेन प्रकारेश, धार्मिकः धर्माचरणशीलः, इति बहुप्रकारं बहवः-अनेके, प्रकाराः-वर्णनरीतयो यस्मिंस्तादृशं यथा स्यात् तथा, सुचिरम् अतिदीर्घकालम् , उपवर्ण्यमानः स्तूयमानः, श्रुतः श्रवणगोचरतां गतः, असि वर्तसे । नः अस्माकम् , चक्षुः, सर्वथा सर्वप्रकारेण, कृतार्थ सफलम् , उपजातं सम्पन्नम् । च पुनः, अतर्कितोपनतेन अकस्मादुपजातेन, अमुनों त्वदालोकनेन भवद्दर्शनेन, देवतादर्शनसमुत्थं अधुनैव विहितेन ऋषभजिनदर्शनेन समुत्पन्नम् . पुण्यजातं पुण्यपुजः, सद्यः सपदि, शीघ्रतरमेवेत्यर्थः, फलितं दत्तफलम् । साम्प्रतम् अधुना, गच्छामि इतो नन्दीश्वरद्वीपं व्रजामि, माम् , मनुजानीहि इतो गन्तुमनुमन्यख [[]]