________________
जिलकमञ्जरी।
११३ भास्वरः स्फुरति प्रतापो यस्मिन्नसौ प्रकृतिप्रगल्भापि भीतेव लज्जितेवोत्कुपितेव मे न चिरमावनाति लक्ष्यमीक्षणद्वयी, चित्रं यदस्थात्र शकलितभनःशिलागर्भबभ्रुण्यतनुबले तनुप्रभाजाले निरन्तरनिममाः स्वतेजस्तिरस्कारलजिता इव मनागपि दर्शयन्ति नात्मानमायतनप्रदीपाः, इमेऽपि सर्वतः प्रधाविताः प्रनष्ठदीपान्वेषणायेव भ्रमन्ति दहनालोकलोलुभाः शलभसंघाः, सर्वथा कृतार्थोऽहम् , यस्य में मर्यभावेऽपि प्रकटितदिव्यवपुषा दर्शनमनेन दत्तम्' इति विचिन्त्य मुक्त्वा च सफलकं प्रभुताभिमानेन सार्धं कृपाणमाबद्धाञ्जलिः स्तोकमुपेत्य खागतमकरोत् [अ],
सोऽपि तथा समुपसृत्य तं पुरस्तादवस्थितमतिस्तिमितप्रगल्भस्निग्धदृष्टिप्रकटितान्तःप्रीतिमाबद्धकरसंघुटमतिशयस्पृहणीयदेहावयवदर्शनानन्दनिःस्यन्दविकसितेन पुनरपि प्राक्तनी प्रकृतिमापन्नेनेव चक्षुषा सुचिरगुप
वाक्यालङ्कारे बोध्यम् । तदेव स्फुटयति-तथाहि, अस्य देवस्य, प्रकामम्-अत्यन्तम् , सौम्येऽपि-सत्वसम्पदा शान्तेऽपि, वपुषि शरीरे, खभाषभास्वरः स्वतः स्फुरणशीलः, न त्वौपाधिकः, कोऽपि अपूर्वः, स सर्वानुभवसाक्षिकः, प्रतापः प्रभा, स्फुरति, यस्मिन् शरीरे, प्रकृतिप्रगल्भापि स्वभावतः प्रौढा अपि, मे मम, ईक्षणद्वयी लोचनद्वयम् , लक्ष्य खदृश्यम्,चिरं दीर्घकालम्, न आबध्नाति अभिव्यानोति, किन्तु त्वरितमेव च्यवते इत्यर्थः, तत्र हे हेतुमुरप्रेक्षते भीतेष भयादिव, लजितेव लजायोगादिव, कुपितेव कोपादिव । चित्रम् इदमाश्चर्यम् , यत् शकलितमनाशिलागर्भवक्षुणि शकलितायाः-खण्डितायाः, मनःशिलाया:-शिलाविशेषस्य, गर्भः-मध्यम् , तद्वत् बभ्रुणि-पिङ्गले, अतनुबले अतनु-अत्यन्तम् , बलं-स्फुरणशक्तिर्यस्य तादृशे, अस्य देवस्य, अत्र अस्मिन् पुरोवर्तिनि, तनुप्रभाजाले देहप्रभापुढे, निरन्तरनिमन्नाः सन्ततमन्तर्भूताः, आयतनप्रदीपाः मन्दिरप्रदीपाः, स्वतेजस्तिरस्कारलजिता इव स्वतेजसः-निजप्रभायाः, यस्तिरस्कार:-तत्प्रभाभिरभिभवः, तेन लज्जिता इवेति हेतूत्प्रेक्षा, आत्मानं स्वरूपम् , न मनागपि किश्चिदपि, दर्शयन्ति प्रकटयन्ति । तस्मात् दहनालोकलोलुभाः दीपस्थामिशिखालोभाकुलाः, इमे पुरोवर्तिनः, शलभसा: पतङ्गपुजाः, मपि, प्रनष्टदीपान्वेषणायेव प्रनष्टः-एतदीयप्रभापुअतिरोहिततया अत्यन्तमदृष्टः, यो दीपः, तस्य अन्वेषणायेव, सर्वतः इत. स्ततः, प्रधाविताः प्रारब्धधावनाः, भ्रमन्ति नैकत्रावतिष्ठन्ते । अहम् इष्टार्थचिन्ताकुलो राजा, सर्वथा सर्वप्रकारेण, कृतार्यः सिद्धार्थः, अस्मीति शेषः, यस्य मे मम, मर्त्यभावेऽपि मानवत्वेऽपि, प्रकटितदिव्यवपुषा प्रकटितम्-आविस्कृतम् , दिव्य-खगीयम् , वपुः-शरीरं येन तादृशेन, अनेन प्रस्तुतदेवेन, दर्शनं खदर्शनसौभाग्यम् , दत्तं सम्पादितम् , इति एवं प्रकारेण, विचिन्त्य पर्यालोच्य, च पुनः, सफलकं फलकेन-खगाधारपात्रेण, खड्गकोशेनेति यावत् , सहित रूपाणं खङ्गम् , प्रभूताभिमानेन खक्रीयप्रभुत्वप्रयुक्ताहकारेण, सार्ध सह, मुक्त्वा त्यक्त्वा, आवद्धाञ्जलिः रचिताअलिः सन् , स्तोकं किश्चित् , उपेत्य समीपं गत्वा, स्वागतं तदागमनश्लाघाम् , अकरोत् सप्रीतिदर्शन-कुशलप्रभाविदारेणाकार्षीत् [अ]
सोऽपि प्रकृतदेवोऽपि, समुपसृत्य सम्यगभिमुखमागत्य, आचरणयुगलात् चरणद्वयमारभ्य, उत्तमाङ्ग मस्तकं. यावत् , सुचिरं सुदीर्घकालम् , तथा यथा राजा दृष्टवान् तथा, तं राजानम् , आलोकितवान् दृष्टवान् । कीदृशं राजा. नम् ! पुरस्ताद अग्रे, अवस्थितम् उपविष्टम् , पुनः अत्तिस्तिमितप्रगल्भस्निग्धदृष्टिप्रकटितान्तम्प्रीतिम् अतिस्तिमितया-अतिनिःसन्दया, प्रगल्भया-पाटवान्वितया, स्निग्धया-स्नेहातिया, दृष्ट्या-नयनयुगलेन दर्शनक्रियया चा, प्रकटिताअभिव्यक्ता, अन्तःप्रीतिः-हार्दिकानुरागो येन तादृशम् , पुनः आबद्धकरसम्पुटम् भावद्धः-रचितः, करसम्पुटः-अमलियन तम् ; केनालोकितवान् ? चक्षुषा नयनयुगलेन, जातिविवक्षयैकवचनम् , कीदृशेन? अतिशयस्पृहणीयदेहावयवदर्शनानन्दनिःस्यन्दविकसितेन अतिशयेन, स्पृहणीयाः-मनोरमाः, ये देहावयवाः-राज्ञः शरीरावयवा मुखनयनादयः, तद्दर्शनेन य आनन्दः-प्रमोदामृतरसः, तनिःस्यन्देम-प्रस्रवणेन, विकसितेन-प्रफुल्लितेन, कीदृशेनेव ? पुनरपि भूयोऽपि, प्राक्तनी पूर्वावस्थासम्बन्धिनीम् , प्रकृतिम् अनिमेषादिखभावम् , आपनेनेव प्राप्तेनेवेत्युत्प्रेक्षा; कीदृश इव कीडशो देवः ? उपजात:
१५तिलक.