________________
११२
टिप्पनक-परागविवृतिसंवलिता ततस्तिमिरशिबिरैरिव शरीरप्रभारोषितैः कृततुमुलकोलाहलम् ह], अम्बरागमनसमीरणशोषितसुधाशीकरसेकेन मर्त्यलोकषट्चरणहठचुम्बनशङ्कयेव निबिडसंकोचितमुखीभिर्मन्दारकलिकाभिरन्तरान्तरा दन्तुरितेन किन्नदारूढम्लानिना पारिजातकुसुमशेखरेण विराजमानम् [क्षि], अनेकसुरपादपप्रसूनपरिमलमुचः श्वासपवनानतिदीर्घकालमाघ्रातानाखण्डलक्रीडावनमारुतानिव जवागमनखेदादनबरतमुद्धमन्तमेकं वैमानिकमपश्यत् ज्ञ] ।
आलोकनमात्रेणैव तं प्रत्युपजातदिव्यतानिश्चयस्य चक्षुर्निमेषादिलिङ्गदर्शनोनीतस्वर्गच्यवनसमयस्य रूपसंपन्निरूपणादात्मनि श्लथीभूतचारुताभिमानग्रन्थेः पार्थिवस्याभून्मनसि–'अहो प्रभावः सुरलोकभूमीनाम् ? यत्र खलु संभूतानि पुण्यभागिनां शरीराण्यप्येवंविधानि भवन्ति यानि चरमास्वपि दशासु ताबदास्तामुपसर्पितुं द्रष्टुमप्यनलमनलमिव वैद्युतं पुमांसः, तथाहि-अस्य वपुषि प्रकामसौम्येऽपि स कोऽपि स्वभाव
टिप्पनकम्-अनलम् असमर्थम् , अनलमिव अग्निमिव [अ]।
चरणप्रणोदैः-चरणाघातैः, दलिताः-बहिर्जिगमिषया विश्लेषिताः-दलपुटा:-संश्लिष्टपत्राणि यैस्तादृशैः, पुनः कमलगर्भशयनानि कमलमध्यरूपशय्याः, अपहाय २ त्यक्त्वा त्यक्त्वा, धावद्भिः आमोदलिप्सया भ्रमद्भिः, कैरिव ? शरीरप्रभारोषितैः शरीरप्रभया-तदीयशरीरदीप्या, रोषितैः-विद्वेषितैः, तिमिरशिबिरैः अन्धकारसैन्यावासैरिवेत्युत्प्रेक्षा [ह] । पुनः कीदृशम् ? पारिजातकुसुमशेखरेण पारिजातस्य-तत्संज्ञकदिव्यवृक्षस्य, यत् कुसुमं-पुष्पम् , तन्मयेन, शेखरेण-शिरोमाल्येन, विराजमानं सुशोभमानम् , कीदृशेन तेन ? अम्बरागमनसमीरणशोषितसुधाशीकरसेकेन अम्बरात्-आकाशात् , आगमनेन-अवतरणेन, तद्वेगेनेति यावत् , यः समीरणः-वायुः, तेन शोषितः, सुधाशीकरसेकः-अमृतकणक्षरणं यस्मिंस्तादृशेन, पुनः मन्दारकलिकाभिः मन्दारनामकदेववृक्षकोरकैः, अन्तरा अन्तरा मध्ये मध्ये, दन्तुरितेन उन्नमितेन, उपचितेनेति यावत् , कीदृशीनिस्ताभिः ? मर्त्यलोकषट्चरणहठचुम्बनशङ्कयेव मर्त्यलोकस्य-मर्त्यभुवनसम्बन्धिनो ये, षट्चरणाः-भ्रमराः, तैः, हठेन-बलात्कारेण, यचुम्बन-मकरन्दपिपासया ओष्ठसंयोजनम् , तस्य शङ्कयेव-संशयेनेवेति हेतूत्प्रेक्षा, निबिडसंकोचितमुखीभिः निविडम्-अत्यन्तं यथा स्यात्तथा, सोचितं-मुद्रितम् , मुखं याभिस्तादृशीभिः, पुनः कीदृशेन तेन ? किञ्चिदारूढम्लानिना किश्चित् आरूढा-प्राप्ता, म्लानिः-मालिन्यं येन तादृशेन [क्ष ] । पुनः कीदृशम् ? जवागमनखेदात् जवेन-वेगेन, यदागमनम् , तज्जन्यश्रमात् , अनवरतं निरन्तरम् , श्वासपवनान् नासावायून् , उद्धमन्तं निर्गमनागमनमुखेन शब्दाययन्तम् , 'उद्वमन्तम्' इति पाढे त्यजन्तम् , कीदृशांस्तान् ? अनेकसुरपादपप्रसूनपरिमलमुचः अनेकसुरपादपानाम्-अनेकदेववृक्षाणाम् , यानि प्रसूनानि-घातकुसुमानि, तत्परिमलमुचः-तदामोदविस्तारिणः, कानिव ? अतिदीर्घकालं बहुकालपर्यन्तम् , आघ्रातान् समन्तात् घ्राणजप्रत्यक्षगोचरीकृतान् , आखण्डलक्रीडावनमारुतान् आखण्डलस्य-इन्द्रस्य, यत् क्रीडावनं-नन्दनवनम् , तन्मारूतानिव-तदीयविविधकुसुमसौरभाव्यवायूनिवेत्युत्प्रेक्षा, एतावद्विशेषणविशिष्टम् , एकम् , वैमानिक देवविशेषम् , अपश्यत् अद्राक्षीत् [२] - आलोकनमात्रेण केवलदर्शनेनैव, न तु प्रभनेत्यर्थः, तं प्रति निरुक्तव्यक्तिविषये, उपजातदिव्यतानिश्चयस्य उपजातः-प्रादुर्भूतः, दिव्यतायाः-देवत्वस्य निश्चयो यस्य तादृशस्यः पुनः चक्षुर्निमेषादिलिङ्गदर्शनोनीतखर्गच्यवनसमयस्य चक्षुर्निमीलनादिरूपस्य लिङ्गस्य-आसन्नवर्गच्यवनलक्षणस्य, दर्शनेन, उन्नीतः-अनुमितः, खर्गच्यवनसमयः-वर्गतथ्युतिकालप्राप्तियेन तादृशस्य; पुनः रूपसम्पनिरूपणात् सौन्दर्यसम्पदर्शनात् , आत्मनि खस्मिन् , श्लथीभूतचारुताभिमानग्रन्थेः श्लथीभूता चारुताभिमानग्रन्थिः-सौन्दर्याभिमानरूपा ग्रन्थिर्यस्य तादृशस्य; पार्थिवस्य मेघवाहनस्य, मनसि, अभूत् , आश्चर्यमिति शेषः । किमित्याह-अहो आश्चर्यजनकः, सुरलोकभूमीनां स्वर्गभूमीनाम् , प्रभावः माहा. त्म्यम् , यत्र यस्यां भूमौ, खलु निश्चयेन, सम्भूतानि समुत्पन्नानि, पुण्यभागिनां पुण्यशालिनाम् , शरीराणि अपि का कथा बुद्धि-वैभवादीनाम् , एवंविधानि ईदृशानि, भवन्ति सम्पद्यन्ते, चरमावपि अन्तिमास्वपि, दशासु स्वर्गच्यवनावस्थासु, यानि शरीराणि, उपसर्पितुं सन्निधातुम् , आस्ताम् असम्भाव्यान्येव, किन्तु पुमांसः पुरुषाः, वैद्युत विद्युत्सम्बन्धिनम् , अनलमिव अग्निमिव, द्रष्टुमपि दूरतो दृष्टिपथमवतारयितुमपि, अनलम् असमर्थाः, । तावदिति