SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तिलकमकरी। १११ लब्धेनैकलोचनेनेव चुम्वितैकश्रवणपार्श्वम् [व], उल्लसिताधरप्रभासान्द्रविद्रुमयनमुद्भूतधवलदीर्घलोचनामुत्सङ्गितकपोलमुक्ताशुक्तिकान्तमाकान्तोज्ज्वलललाटतटमाविष्कृतभ्रललाशैवलवल्लरीकमापीतामृतदर्शनदुराशया क्षीरोदसलिलमिव सकलमावासितमुपहसितशरञ्चन्द्रिकाप्रकाशमास्यलावण्यमुद्वहन्तम् [श], आपीडमधुकरप्रतिबिम्बकवुरितोदरेण बहलरागवर्षिणा चूडारत्नेन भाविसुरलक्ष्मीविनाशसूचनाय कृतसान्निध्येनोत्पातसूर्यमण्डलेनेव सकीलेन कलितोत्तमाङ्गम् ष], अमरकाननप्रभवघनसारसंस्कारातिशयसुरभिणा सुरकरिकपोलमदमिश्रेण गोशीर्षचन्दनेन कृतमसृणसर्वाङ्गीणाङ्गरागम् [स], अनिलकृतसूक्ष्मान्तरालप्रविष्टपटुविलेपनामोदमुषितनिद्रैर्निर्दयचरणप्रणोददलितदलपुटैरपहायापहाय कमलगर्भशयनानि धावद्भिद्यानदीर्घिकामधुकरकुलैः सम खामिभूततत्प्रसन्नताप्राप्तेन, एकलोचनेनैव एकनेत्रेणेवेत्युत्प्रेक्षा [व] ! पुनः कीदृशम् ? उपहसितशरञ्चन्द्रिका. प्रकाशम् उपहसितः-तिरस्कृतः, शरचन्द्रिकायाः-शरत्कालिकज्योत्स्नायाः, प्रकाशो येन तादृशम् , आस्यलावण्यं मुखसौन्दर्यम् , उद्वहन्तम् उद्-ऊर्श्वभागे, धारयन्तम् , किमिव ? आपीतामृतदर्शनदुराशया आपीतं-खेन समन्तात् पानकर्मीकृतम् , यद् अमृतं तदुद्धृतं पीयूषम् , तद्दशनदुराशया-तदवलोकन विषयिण्या दुराशया असम्भाव्यफलकाशया, . आवासितं खपार्श्वे निवासितम् , सकलं सम्पूर्णम् , क्षीरोदसलिलमिव क्षीरसागरजलमिवेत्युत्प्रेक्षा, कीदृशं तत् सलिलम् ? उल्लसिताधरप्रभासान्द्रविद्रुमवनम् उल्लसिता-उज्वलिता, या अधरप्रभा-ओष्ठच्छविः, तद्रूपं सान्द्र-निबिडम् , विद्रुमवन-प्रवालप्रसविवनं यस्मिन् तादृशम् ; पुनः उद्भूतधवलदीर्घलोचनतरङ्गम् उद्भूते-उन्मीलिते, धवले दीघे च, ये लोचने, लोचनप्रमेति यावत् , तद्रूपस्तरको यस्मिन् , उद्भूतो धवलदीर्घलोचनात्मकस्तरको यस्मिन् वा तादृशम् , पुनः उत्सङ्गितकपोलमुक्ताशुक्तिकान्तम् उत्सशिताभ्यां-खान्तभृताभ्याम् , कपोलाभ्यां-गण्डयुगलरूपाभ्याम् , मुक्ताशुक्तिकाभ्यांमुक्तोद्भवक्षेत्ररूपशुक्तिभ्याम् , कान्त-सुन्दरम् , पुनः आक्रान्तोऊवलललाटतटम् आक्रान्त-व्याप्तम् , उज्ज्वलललाटरूपं तटं येन तादृशम् , पुनः आविष्कृतधूलताशैषलवल्लरीकम् आविष्कृता-प्रकटिता, भ्रूलता-नेत्रोपरितनरोमराजिरूपा, शैवलवल्लरी-शैवालमञ्जरी येन तादृशम् ,[श] । पुनः चूडारत्नेन चूडामणिना, मुकुटमणिनेत्यर्थः, कलितोत्तमा कलितं-संवलितं विभूषितमिति यावत् , उसमाज-शीर्ष यस्य तादृशम् , “उत्तमाझं शिरः शीर्षम्" इत्यमरः, कीदृशेन तेन ? आपीडमधुकरप्रतिविम्बकवुरितोदरेण आपीडे-खशिरोधृतकुसुममाल्ये, ये मधुकराः-भृङ्गाः, तत्प्रतिबिम्बैः-छायाभिः, कर्बरित-चित्रितम् . उदरं-मध्यं यस्य तादृशेन, पुनः बहलरागवर्षिणा विपुलरक्तच्छविविस्तारिणा, केनेव? भाविखुरलक्ष्मीविनाशसूचनाय भाविनः-अचिरेण भविष्यतः, सुरलक्ष्याः-दैविकखकीयसम्पदः, विनाशस्य-अवसानस्य, सूचनायज्ञापनाय, कृतसान्निध्येन सन्निहितेन, सकीलेन कीलया-वह्निशिखया, सहितेन-आश्लिष्टेन, उत्पातसूर्यमण्डलेनेव उत्पातः-प्राणिनां शुभाशुभसूचको भूतविकारः, तद्रूपेण सूर्यमण्डलेन-आकस्मिकसूर्यबिम्बेनेवेत्युत्प्रेक्षा । “वढेईयोालकीलावचिईतिः शिखा स्त्रियाम्" इत्यमरः [१] । पुनः कीदृशम् ? गोशीर्षचन्दनेन चन्दनविशेषेण, कृसमसणसर्वाङ्गीमानसगं कृतः-सम्पादितः, मसणः-कोमलः, सर्वाङ्गीणः-सर्वाङ्गव्यापकः, अङ्गरागः-शरीरविलेपनं येन तादृशम् , कीदशेम तेन ? अमरकाननप्रभवधनसारसंस्कारातिशयसुरभिणा अमरकाननं-नन्दनवनमेव, प्रभवः-उत्पत्तिक्षेत्र या । धनसार:-कपूरः, तेन यः संस्कारः-संमिश्रणम्, तेन अतिशयसुरभिणा-समधिकसुगन्धिना, पुनः सुरकरिकपोलमदमिश्रेण सुरकरिणः-देवहस्तिनः, ऐरावतस्येत्यर्थः, यः कपोलमदः-गण्डमदः, तन्मिश्रितेन [स] पुनः कीहशम् ? उद्यानदीर्घिकामधुकरकुलैः उद्यानस्य-क्रीडाकाननस्य, या दीर्घिका-जलाशयविशेषः, तत्सम्बन्धिभिः, मधुकरकुलै:अमरपुजैः, समन्ततः परितः, कृततुमुलकोलाहलं कृतः, तुमुलः-विपुलः, कोलाहल:-गुञ्जनं यस्मिस्तादृशम् , कीदृशैस्तैः ? अमिलकृतसूक्ष्मान्तरालप्रविष्टपटुविलेपनामोदमुषितनिद्रैः अनिलेन-वायुना, कृतानि-विहितानि, यानि सूक्ष्मान्तगलानि-कमलदलानां मधुकर कुलानां वा सूक्ष्मावकाशाः, तत्र प्रविष्टः, यः पटुः-उत्कटः, विलेपनामोदः-अङ्गरागसौरभं तेन मुकिना-अपहृता, निद्रा येषां तादृशैः, पुनः निर्दयचरणप्रणोददलितदलपुटैः निर्दयं-दयाशून्यं यथा स्यात् तथा,
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy